गुरु अष्टोत्तर शतनामावली स्तोत्रम् – Guru Ashtottara Shatanamavali Stotram

0

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।

गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १॥

जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।

आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २॥

वाचस्पतिर् वशी वश्यो वरिष्ठो वाग्विचक्षणः ।

चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३॥

बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।

सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ ४॥

गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।

धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५॥

धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।

दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६॥

धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।

आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥ ७ ॥

आङ्गीरसकुलोद्भवः सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः ।

स्वर्णकश्च हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८॥

पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।

काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९॥

इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः ।

असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १०॥

भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।

धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११॥

सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।

सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२॥

स्वमातानुगतामरः, स्वमातानुगतावरः ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।

सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥ १३॥

सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।

ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४॥

समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।

ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५॥

नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।

नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६॥

सदानन्द नमस्तेस्तु नमः पीडाहराय च ।

नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७॥

नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।

नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥ १८॥

नमो भार्गवषिष्याय विपन्नहितकारिणे ।

नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥ १९॥

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।

लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २०॥

सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।

अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥ २१॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।

भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥ २२॥

बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः ।

अभीष्टफलदः श्रीमान् सुभद्गर नमोस्तु ते ॥ २३॥

बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः ।

आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥ २४॥

कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः ।

विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५॥

॥ इति गुर्वाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *