कालीमेधादीक्षितोपनिषत् || Kali Medha Dikshit Upanishad

0

माँ काली के ध्यान,मन्त्र जप,पूजन करते समय कालीमेधादीक्षितोपनिषत् का पाठ करें ।

|| कालीमेधादीक्षितोपनिषत् ||

अथाह वै देवानां पत्नीं भजते ।

तस्योपासकोऽन्यां गच्छन् ॐअथैनां मेधादीक्षितरूपिणीं भावयेत् ।

स शिवो भवेत् ।

स कालीरूपो भवेत् ।

सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत् ।

ततश्चिन्तामणिकालीं दीक्षयेत् ।

ततः सिद्धकाल्यधिकारी भवेत् ।

ततो विद्याराज्ञीं जपेत् ।

ततः कामकलाकालीं परारूपिणीं जपेत् ।

ततश्चरणदीक्षारूपिणीं हंसकालीं यजेत् ।

रक्तशुक्लमिश्रनिर्वाणरूपिणीं यजेत् ।

सर्वनिर्वाणदीक्षितो भवेत् ।

ततः शाम्भवादीक्षितो भवेत् ।

गुह्यकाल्यधिष्ठितो भवेत् ।

शिवो भवेत् ।

स परारूपो भवेत् ।

परात् पररूपो भवेत् ।

परात् परातीतरूपो भवेत् ।

चित्परारूपो भवेत् ।

चित्परात् परारूपो भवेत् ।

चित्परात् परातीतरूपो भवेत् ।

ब्रह्मविष्णुरुद्रेश्वरसदाशिवमहाकालचित्पराम्बारूपो भवेत् ।

स ब्रह्मत्वं गच्छति ।

मेधादीक्षां लभेत् ।

मेधादीक्षातः परा दीक्षा न विद्यत इत्याह भगवान् शिवः ।

स्पर्शविद्यया देहशुद्धिर्भवेत् ।

ततश्चिन्तामाणिविद्याधिकारी विद्याराज्ञीं लभेत् ।

विद्याराज्यधिकारी तु षोढां जपेत् ।

तुर्याषोढाधिकारी कामकलां जपेत् ।

कामकलाधिकारी चरणरूपिणीं जपेत् ।

हंसदीक्षितो भवेत् ।

चरणाधिकारी षट्छाम्भवसम्पन्नो भवेत् ।

गुह्यकाल्यधिष्ठितो भवेत् ।

ततो मेधां चरेत् ।

जीवको हि भूङ्गत्वं गच्छति ।

भूरङ्गीभूत्वा षट् चक्राणि निर्भिन्द्यात् ।

ततः परागभुग्भवेत् ।

परकायप्रवेशवान वयस्स्थैर्यं चरेत् ।

कामरूपत्वं गच्छति ।

षष्टिसिद्धीश्वरो भवेदिति शिवप्रोक्तं वेद ॥

(शाक्त-उपनिषदः)

इत्याथर्वणे सौभाग्यकाण्डे कालीमेधादीक्षितोपनिषत् समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *