शिवमहापुराण – प्रथम विद्येश्वरसंहिता – अध्याय 20 || Shiv Mahapuran Vidyeshvar Samhita Adhyay 20

0

इससे पूर्व आपने शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 19 पढ़ा, अब शिवमहापुराण –विद्येश्वरसंहिता – अध्याय 20 बीसवाँ अध्याय पार्थिव शिवलिंग के निर्माण की रीति तथा वेद-मन्त्रों द्वारा उसके पूजन की विस्तृत एवं संक्षिप्त विधि का वर्णन।

शिवपुराणम्/ विद्येश्वरसंहिता /अध्यायः २०

शिवमहापुराण – प्रथम विद्येश्वरसंहिता – अध्याय 20

शिवपुराणम्‎ | संहिता १ (विश्वेश्वरसंहिता)

सूत उवाच

अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते

वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी १

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि

ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् २

नैत्यिकं सकलं कामं विधायानंतरं पुमान्

शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ३

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये

पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ४

सूतजी बोले — हे महर्षियो ! अब मैं वैदिक कर्म के प्रति श्रद्धा-भक्ति रखनेवाले लोगों के लिये वेदोक्त मार्ग से ही पार्थिव-पूजा की पद्धति का वर्णन करता हूँ । यह पूजा भोग और मोक्ष दोनों को देनेवाली है । आह्निक सूत्रों में बतायी हुई विधि के अनुसार स्नान और सन्ध्योपासना करके पहले ब्रह्मयज्ञ करे । तत्पश्चात् देवताओं, ऋषियों, सनकादि मनुष्यों और पितरों का तर्पण करे । मनुष्य को चाहिये कि अपनी रुचि के अनुसार सम्पूर्ण नित्यकर्म को पूर्ण करके शिवस्मरणपूर्वक भस्म तथा रुद्राक्ष धारण करे । तत्पश्चात् सम्पूर्ण मनोवांछित फल की सिद्धि के लिये ऊँची भक्तिभावना के साथ उत्तम पार्थिव लिंग की वेदोक्त विधि से भली-भाँति पूजा करे ॥ १-४ ॥

नदीतीरे तडागे च पर्वते काननेऽपि च

शिवालये शुचौ देशे पार्थिवार्चा विधीयते ५

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः

शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ६

विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका

वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ७

नदी या तालाब के किनारे, पर्वत पर, वन में, शिवालय में अथवा और किसी पवित्र स्थान में पार्थिव-पूजा करने का विधान है । हे ब्राह्मणो ! शुद्ध स्थान से निकाली हुई मिट्टी को यत्नपूर्वक लाकर बड़ी सावधानी के साथ शिवलिंग का निर्माण करे । ब्राह्मण के लिये श्वेत, क्षत्रिय के लिये लाल, वैश्य के लिये पीली और शूद्र के लिये काली मिट्टी से शिवलिंग बनाने का विधान है अथवा जहाँ जो मिट्टी मिल जाय, उसी से शिवलिंग बनाये ॥ ५-७ ॥

संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः

अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ८

संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः

विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ९

ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये

तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः १०

शिवलिंग बनाने के लिये प्रयत्नपूर्वक मिट्टी का संग्रह करके उस शुभ मृत्तिका को अत्यन्त शुद्ध स्थान में रखे । फिर उसकी शुद्धि करके जल से सानकर पिण्ड बना ले और वेदोक्त मार्ग से धीरे-धीरे सुन्दर पार्थिव लिंग की रचना करे । तत्पश्चात् भोग और मोक्षरूप फल की प्राप्ति के लिये भक्तिपूर्वक उसका पूजन करे । उस पार्थिवलिंग के पूजन की जो विधि है, उसे मैं विधानपूर्वक बता रहा हूँ, आप लोग सुनिये ॥ ८-१० ॥

नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत्

भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ११

“ॐ नमः शिवाय’ इस मन्त्र का उच्चारण करते हुए समस्त पूजन-सामग्री का प्रोक्षण करे — उसपर जल छिड़के । इसके बाद “भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृ ह पृथिवीं मा हि सीः ।” इत्यादि मन्त्र से क्षेत्रसिद्धि करे ॥ ११ ॥

आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत्

नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते १२

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत्

नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् १३

नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान्

चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् १४

भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः

आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् १५

मानो महन्तमिति च मंत्रेणावाहनं चरेत्

याते रुद्रे ण मंत्रेण संचरेदुपवेशनम् १६

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च

अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् १७

मनुना सौजीव इति देवतान्यासमाचरेत्

असौ योवसर्पतीति चाचरेदपसर्पणम् १८

नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत्

अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च १९

पयः पृथिव्यामिति च पयसा स्नानमाचरेत्

दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् २०

घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः

मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा २१

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम्

अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च २२

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम्

नमो धृष्णवे इति वा उत्तरीयं च धापयेत् २३

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः

शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् २४

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः

नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् २५

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत्

नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् २६

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि

दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा २७

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम्

मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम् २८

इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम्

नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् २९

मानो महांतमिति च मानस्तोके इति ततः

मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् ३०

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत्

देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ३१

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत्

पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ३२

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम्

मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ३३

एषते इति मंत्रेण शिवमुद्रां! प्रदर्शयेत्

यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४

नमःसेनेति मंत्रेण महामुद्रां! प्रदर्शयेत्

दर्शयेद्धेनुमुद्रां! च नमो गोभ्य ऋचानया ३५

पंचमुद्राः! प्रदर्श्याथ शिवमंत्रजपं चरेत्

शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ३६

ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः

देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ३७

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः

फिर “आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वँ हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि । दीक्षातपसोस्तनूरसि तां त्वा शिवाशग्मां परि दधे भद्रं वर्णं पुष्यन् ।” (यजु० ४।२) इस मन्त्र से जल का संस्कार करे । इसके बाद “नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ।” (यजु० १६ । १) इस मन्त्र से स्फाटिकाबन्ध (स्फटिक शिला का घेरा) बनाने की बात कही गयी है । “नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ।” (यजु० १६। ४१) इस मन्त्र से क्षेत्रशुद्धि और पंचामृत का प्रोक्षण करे । तत्पश्चात् शिवभक्त पुरुष ‘नमः’ पूर्वक “नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ।” (यजु० १६। ८) मन्त्र से शिवलिंग की उत्तम प्रतिष्ठा करे । इसके बाद वैदिक रीति से पूजन-कर्म करनेवाला उपासक भक्तिपूर्वक “एतत्ते रुद्रावसं तेन परो मूजवतोऽतीहि । अवततधन्वा पिनाकावसः कृत्तिवासा अहिसन्नः शिवोऽतीहि ।” (यजु० ३।६१) इस मन्त्र से रमणीय आसन दे । “मा नो महान्तमुत मा नो अर्भकं मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः।” (यजु० १६ । १५) इस मन्त्र से आवाहन करे, “या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ।” (यजु० १६ । २) इस मन्त्र से भगवान् शिव को आसन पर समासीन करे । “यामिषु गिरिशन्त हस्ते विभर्व्यस्तवे । शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ।” (यजु० १६। ३) इस मन्त्र से शिव के अंगों में न्यास करे । “अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीँश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव ।” (यजु० १६।५) इस मन्त्र से प्रेमपूर्वक अधिवासन करे । “असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चैन रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाहेड ईमहे ।” (यजु० १६ । ६) इस मन्त्र से शिवलिंग में इष्टदेवता शिव का न्यास करे । “असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ।” (यजु० १६ । ७) इस मन्त्र से उपसर्पण (देवता के समीप गमन) करे । इसके बाद “नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ।” (यजु० १६। ८) इस मन्त्र से इष्टदेव को पाद्य समर्पित करे । ‘रुद्रगायत्री- “तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।” से अर्घ्य दे । “त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः।” (यजु० ३।६०) मन्त्र से आचमन कराये । “पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ।” (यजु० १८ । ३६) इस मन्त्र से दुग्धस्नान कराये । “दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्रण आयुषि तारिषत् ।” (यजु० २३ । ३२) इस मन्त्र से दधिस्नान कराये । “घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ।” (यजु० ६।१९) इस मन्त्र से घृतस्नान कराये । “मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ।” (यजु० १३ । २७), “मधु नक्तमुतोषसो मधुमत्पार्थिवरजः । मधु द्यौरस्तु नः पिता ।” (यजु० १३। २८) एवं “मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ।” (यजु० १३ । २९) — इन तीन ऋचाओं से मधुस्नान और शर्करा-स्नान कराये । इन दुग्ध आदि पाँच वस्तुओं को पंचामृत कहते हैं अथवा पाद्यसमर्पण के लिये कहे गये “नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ।” (यजु० १६। ८) इत्यादि मन्त्र द्वारा पंचामृत से स्नान कराये । तदनन्तर “मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥” (यजु० १६ । १६) इस मन्त्र से प्रेमपूर्वक भगवान् शिव को कटिबन्ध (करधनी) अर्पित करे । “नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ।” (यजु० १६ । ३६) इस मन्त्र का उच्चारण करके आराध्य देवता को उत्तरीय धारण कराये । “या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान्विश्वतस्त्वमयक्ष्मया परि भुज (११) । परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् (१२) । अवतत्य धनुष्ट्व सहस्राक्ष शतेषुध । निशीर्य शल्यानां मुखा शिवो नः सुमना भव (१३) । नमस्त आयुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने (१४) । (यजु० १६) इत्यादि चार ऋचाओं को पढ़कर वेदज्ञ भक्त प्रेम से विधिपूर्वक भगवान् शिव के लिये वस्त्र [एवं यज्ञोपवीत] समर्पित करे । इसके बाद “नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च।” (यजु० १६।२८) इत्यादि मन्त्र को पढ़कर शुद्ध बुद्धिवाला भक्त पुरुष भगवान् को प्रेमपूर्वक गन्ध (सुगन्धित चन्दन एवं रोली) चढ़ाये । “नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः ।” (यजु० १६। २७) इस मन्त्रसे अक्षत अर्पित करे। ‘”नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ।” (यजु० १६।४२) इस मन्त्र से फूल चढ़ाये । “नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम इषुकद्धयो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो देवाना हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ।” (यजु० १६ । ४६) इस मन्त्र से बिल्वपत्र समर्पण करे । “नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ।” (यजु० १६।२९) इत्यादि मन्त्र से विधिपूर्वक धूप दे । “नम आशवे चाजिराय च नमः शीघ्रयाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ।” (यजु० १६।३१) इस ऋचा से शास्त्रोक्त विधि के अनुसार दीप निवेदित करे । तत्पश्चात् [हाथ धोकर] “नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ।” (यजु० १६।३२) इस मन्त्र से उत्तम नैवेद्य अर्पित करे । फिर पूर्वोक्त त्र्यम्बक मन्त्र से आचमन कराये — ऐसा कहा गया है । “इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्।” (यजु० १६।४८) इस ऋचा से फल समर्पण करे । फिर “नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ।” (यजु० १६।४४) इस मन्त्र से भगवान् शिव को अपना सब कुछ समर्पित कर दे । तदनन्तर “मा नो महान्तमुत मा नो अर्भकं मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ।” (यजु० १६ । १५) तथा “मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरानु रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥” (यजु० १६ । १६) – इन पूर्वोक्त दो मन्त्रों द्वारा केवल अक्षतों से ग्यारह रुद्रों का पूजन करे । फिर “हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।” (यजु० १३।४) इत्यादि मन्त्र से जो तीन ऋचाओं के रूप में पठित है, दक्षिणा चढ़ाये । “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।” (यजु० २०।१३) इस मन्त्र से विद्वान् पुरुष आराध्यदेव का अभिषेक करे । दीप के लिये बताये हुए “नम आशवे चाजिराय च नमः शीघ्रयाय च शीभ्याय च नम ऊर्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ।” (यजु० १६।३१) इत्यादि मन्त्र से भगवान् शिव की नीराजना (आरती) करे । तत्पश्चात् “इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ।” (यजु० १६।४८) इत्यादि तीन ऋचाओं से भक्तिपूर्वक रुद्रदेव को पुष्पांजलि अर्पित करे । “मा नो महान्तमुत मा नो अर्भकं मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ।” (यजु० १६ । १५) इस मन्त्र से विज्ञ उपासक पूजनीय देवता की परिक्रमा करे । फिर उत्तम बुद्धिवाला उपासक “मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरानु रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥” (यजु० १६ । १६) इस मन्त्र से भगवान् को साष्टांग प्रणाम करे । “एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा । एष ते रुद्र भाग आखुस्ते पशुः ॥” (यजु० ३।५७) इस मन्त्र से शिवमुद्रा का प्रदर्शन करे । “यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥” (यजु० ३६ । २३) इस मन्त्र से अभय नामक मुद्रा का, ‘त्र्यम्बकं’ मन्त्र से ज्ञान नामक मुद्रा का तथा “नमः सेनाभ्यः सेनानिभ्यश्च वो नमो रथिभ्यो अरथेभ्यश्च वो नमो नमः । क्षतृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥” (यजु० १६। २६) इत्यादि मन्त्र से महामुद्रा का प्रदर्शन करे । “नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥” (गोमतीविद्या) इस ऋचा द्वारा धेनुमुद्रा दिखाये । इस तरह पाँच मुद्राओं का प्रदर्शन करके शिवसम्बन्धी मन्त्रों का जप करे अथवा वेदज्ञ पुरुष ‘शतरुद्रिय’ (यजु० अध्याय १६) मन्त्र की आवृत्ति करे । तत्पश्चात् वेदज्ञ पुरुष पंचांग पाठ करे । तदनन्तर “देवा गातुविदो गातुं वित्त्वा गातुमित । मनसस्पत इमं देव यज्ञँ् स्वाहा वाते धाः ॥” (यजु० ८।२१) इत्यादि मन्त्र से भगवान् शंकर का विसर्जन करे । इस प्रकार शिवपूजा की वैदिक विधि का विस्तार से प्रतिपादन किया गया ॥ १२-३७१/२ ॥

समासतश्च शृणुत वैदिकं विधिमुत्तमम् ३८

ऋचा सद्योजातमिति मृदाहरणमाचरेत्

वामदेवाय इति च जलप्रक्षेपमाचरेत् ३९

अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत्

तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि ४०

संयोजयेद्वेदिकायामीशानमनुना हरम्

अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ४१

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा

कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ४२

भवाय भवनाशाय महादेवाय धीमहि

उग्राय उग्रनाशाय शर्वाय शशिमौलिने ४३

अनेन मनुना वापि पूजयेच्छंकरं सुधीः

सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ४४

[हे महर्षियो!] अब संक्षेप में पार्थिवपूजन की वैदिक विधि को सुनें । “सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥” इस ऋचा से पार्थिवलिंग बनाने के लिये मिट्टी ले आये । “ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ।” मन्त्र पढ़कर उसमें जल डाले । [जब मिट्टी सनकर तैयार हो जाय, तब] “ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्य: सर्वेभ्य: सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ।” मन्त्र से लिंग निर्माण करे । फिर “ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥” इस मन्त्र से उसमें भगवान् शिव का विधिवत् आवाहन करे । तदनन्तर “ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदा शिवोम् ॥” मन्त्र से भगवान् शिव को वेदी पर स्थापित करे । इनके सिवाय अन्य सब विधानों को भी शुद्ध बुद्धिवाला उपासक संक्षेप से ही सम्पन्न करे । इसके बाद विद्वान् पुरुष पंचाक्षर मन्त्र से अथवा गुरु के द्वारा दिये हुए अन्य किसी शिवसम्बन्धी मन्त्र से सोलह उपचारों द्वारा विधिवत् पूजन करे अथवा — ‘भवाय भवनाशाय महादेवाय धीमहि । उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥’ — इस मन्त्र द्वारा विद्वान् उपासक भगवान् शंकर की पूजा करे । वह भ्रम छोड़कर उत्तम भक्ति से शिव की आराधना करे; क्योंकि भगवान् शिव भक्ति से ही [मनोवांछित फल देते हैं ॥ ३८-४४ ॥

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम्

प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ४५

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः

तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ४६

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक्

शिवः पशुपतिश्चैव महादेव इति क्रमात् ४७

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च

स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ४८

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात्

कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ४९

हे ब्राह्मणो ! यह जो वैदिक विधि से पूजन का क्रम बताया गया है, इसका पूर्णरूप से आदर करता हुआ मैं पूजा की एक दूसरी विधि भी बता रहा हूँ, जो उत्तम होने के साथ ही सर्वसाधारण के लिये उपयोगी है । हे मुनिवरो ! पार्थिवलिंग की पूजा भगवान् शिव के नामों से बतायी गयी है । वह पूजा सम्पूर्ण अभीष्टों को देनेवाली है, मैं उसे बताता हूँ, सुनो ! हर, महेश्वर, शम्भु, शूलपाणि, पिनाकधृक्, शिव, पशुपति और महादेव — [ये क्रमशः शिव के आठ नाम कहे गये हैं ।] इनमें से प्रथम नाम के द्वारा अर्थात् ‘ॐ हराय नमः’ का उच्चारण करके पार्थिवलिंग बनाने के लिये मिट्टी लाये । दूसरे नाम अर्थात् ‘ॐ महेश्वराय नमः’ का उच्चारण करके लिंगनिर्माण करे । फिर ‘ॐ शम्भवे नमः’ बोलकर उस पार्थिवलिंग की प्रतिष्ठा करे । तत्पश्चात् ‘ॐ शूलपाणये नमः’ कहकर उस पार्थिवलिंग में भगवान् शिव का आवाहन करे । ‘ॐ पिनाकधृषे नमः’ कहकर उस शिवलिंग को नहलाये । ‘ॐ शिवाय नमः’ बोलकर उसकी पूजा करे । फिर ‘ॐ पशुपतये नमः’ कहकर क्षमा-प्रार्थना करे और अन्त में ‘ॐ महादेवाय नमः’ कहकर आराध्यदेव का विसर्जन कर दे । इस प्रकार प्रत्येक नाम के आदि में ‘ॐ’ कार और अन्त में चतुर्थी विभक्ति के साथ ‘नमः’ पद लगाकर बड़े आनन्द और भक्तिभाव से [पूजनसम्बन्धी] सारे कार्य करने चाहिये ॥ ४५-४९ ॥

कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा

षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् ५०

कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम्

भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ५१

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं

रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम्

पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ५२

षडक्षरमन्त्र से अंगन्यास और करन्यास की विधि भली-भाँति सम्पन्न करके नीचे लिखे अनुसार ध्यान करे । कैलास पर्वत पर एक सुन्दर सिंहासन के मध्यभाग में विराजमान, सनन्द आदि भक्तों से पूजित, भक्तों के दुःखरूप दावानल को नष्ट कर देनेवाले, अप्रमेय, उमा के साथ समासीन तथा विश्व के भूषणस्वरूप भगवान् शिव का चिन्तन करना चाहिये । भगवान् महेश्वर का प्रतिदिन इस प्रकार ध्यान करे — उनकी अंगकान्ति चाँदी के पर्वत की भाँति गौर है, वे अपने मस्तक पर मनोहर चन्द्रमा का मुकुट धारण करते हैं, रत्नों के आभूषण धारण करने से उनका श्रीअंग और भी उद्भासित हो उठा है, उनके चार हाथों में क्रमशः परशु, मृगमुद्रा, वर एवं अभयमुद्रा सुशोभित हैं, वे सदा प्रसन्न रहते हैं । कमल के आसन पर बैठे हुए हैं, देवतालोग चारों ओर खड़े होकर उनकी स्तुति कर रहे हैं, उन्होंने वस्त्र के रूप में व्याघ्रचर्म धारण कर रखा है, वे इस विश्व के आदि हैं, बीज (कारण)-रूप हैं, सबका समस्त भय हर लेनेवाले हैं, उनके पाँच मुख हैं और प्रत्येक मुखमण्डल में तीन-तीन नेत्र हैं * ॥ ५०-५२ ॥

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम्

जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ५३

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः

नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम् ५४

ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा

प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ५५

इस प्रकार ध्यान करके तथा उत्तम पार्थिवलिंग का पूजन करके गुरु के दिये हुए पंचाक्षरमन्त्र का विधिपूर्वक जप करे । हे विप्रवरो ! विद्वान् पुरुष को चाहिये कि वह देवेश्वर शिव को प्रणाम करते हुए नाना प्रकार की स्तुतियों द्वारा उनका स्तवन करे तथा शतरुद्रिय (यजु० १६वें अध्याय के मन्त्रों)-का पाठ करे । तत्पश्चात् अंजलि में अक्षत और फूल लेकर उत्तम भक्तिभाव से निम्नांकित मन्त्रों को पढ़ते हुए प्रेम और प्रसन्नता के साथ भगवान् शंकर से इस प्रकार प्रार्थना करे — ॥ ५३-५५ ॥

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड

कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ५६

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया

कृतं तदस्तु सफलं कृपया तव शंकर ५७

अहं पापी महानद्य पावनश्च भवान्महान्

इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ५८

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि

न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ५९

यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर

रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ६०

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि

प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ६१

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः

पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ६२

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः

कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ६३

‘सबको सुख देनेवाले हे कृपानिधान ! हे भूतनाथ ! हे शिव ! मैं आपका हूँ, आपके गुणों में ही मेरे प्राण बसते हैं अथवा आपके गुण ही मेरे प्राण — मेरे जीवनसर्वस्व हैं, मेरा चित्त सदा आपके ही चिन्तन में लगा हुआ है — यह जानकर मुझ पर प्रसन्न होइये, कृपा कीजिये । हे शंकर ! मैंने अनजान में अथवा जानबूझकर यदि कभी आपका जप और पूजन आदि किया हो, तो आपकी कृपा से वह सफल हो जाय । हे गौरीनाथ ! मैं इस समय महान् पापी हूँ और आप सदा से ही परम महान् पतितपावन हैं — इस बात का विचार करके आप जैसा चाहें, वैसा करें । हे महादेव ! हे सदाशिव ! वेदों, पुराणों, नाना प्रकार के शास्त्रीय सिद्धान्तों और विभिन्न महर्षियों ने भी अब तक आपको पूर्णरूप से नहीं जाना है, तो फिर मैं कैसे जान सकता हूँ । हे महेश्वर ! मैं जैसा हूँ, वैसा ही, उसी रूप में सम्पूर्ण भाव से आपका हूँ, आपके आश्रित हूँ, इसलिये आपसे रक्षा पाने के योग्य हूँ । हे परमेश्वर ! आप मुझपर प्रसन्न होइये ।’ हे मुने ! इस प्रकार प्रार्थना करके हाथ में लिये हुए अक्षत और पुष्प को भगवान् शिव के ऊपर चढ़ाकर उन शम्भुदेव को भक्तिभाव से विधिपूर्वक साष्टांग प्रणाम करे । तदनन्तर शुद्ध बुद्धिवाला उपासक शास्त्रोक्त विधि से इष्टदेव की परिक्रमा करे । फिर श्रद्धापूर्वक स्तुतियों द्वारा देवेश्वर शिव की स्तुति करे । इसके बाद गला बजाकर (गले से अव्यक्त शब्द का उच्चारण करके) पवित्र एवं विनीत चित्तवाला साधक भगवान् को प्रणाम करे । फिर आदरपूर्वक विज्ञप्ति करे और उसके बाद विसर्जन करे ॥ ५६-६३ ॥

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः

भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ६४

इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि

सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ६५

आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च

पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ६६

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः २०॥

हे मुनिवरो ! इस प्रकार विधिपूर्वक पार्थिवपूजा बतायी गयी, जो भोग और मोक्ष देनेवाली तथा भगवान् शिव के प्रति भक्तिभाव को बढ़ानेवाली है । जो मनुष्य इस अध्याय का शुद्धचित्त से पाठ अथवा श्रवण करता है, वह सभी पापों से मुक्त होकर सभी कामनाओं को प्राप्त करता है । यह उत्तम कथा दीर्घायुष्य, आरोग्य, यश, स्वर्ग, पुत्र-पौत्र आदि सभी सुखों को प्रदान करनेवाली है ॥ ६४-६६ ॥

॥ इस प्रकार श्रीशिवमहापुराण के अन्तर्गत प्रथम विद्यश्वरसंहिता के साध्यसाधनखण्ड में पार्थिव शिवलिंग के पूजन की विधि का वर्णन नामक बीसवाँ अध्याय पूर्ण हुआ ॥ २० ॥

Leave a Reply

Your email address will not be published. Required fields are marked *