श्री शिव सहस्रनाम स्तोत्रम् व श्री शिव सहस्रनामावलिः शिव रहस्यान्तर्गतम् || Shiv Sahastranam Stotram And Sahastranamavali

0

शिवजी के सहस्त्र नाम को विभिन्न पुराणों में लिखा गया है-जैसे महाभारत में तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, लिंगपुराण में श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्। जिसे की आपने पूर्व में पढ़ा इसी क्रम में यहाँ शिवजी के अलग-अलग नामों को स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम् जिसे की शिवरहस्यान्तर्गतम् अध्याय २४ में लिखा गया है दिया जा रहा है। जिसे की पाठकों के लाभार्थ श्लोक क्रम से और केवल नामावली क्रम – श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् अध्याय २४ दिया जा रहा है।

|| श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् ||

अथ श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय २४ (शिवरहस्ये चतुर्विंशोऽध्यायः)

ॐ श्रीगणेशाय नमः ।

स्कन्द उवाच –

ओङ्कारकण्ठनिलयः ओङ्कारार्थप्रकाशकृत् ।

ओङ्कारबीजसुप्रीतः ओङ्कारस्वरमात्रकः ॥ १॥

ओङ्कारार्थः ओमितीड्यो नानामन्त्रस्वरूपवान् ।

नादरूपो नाशिताघो नामरूपगुणातिगः ॥ ३॥

नागाजिनोत्तरासङ्गो नामप्रीतो नताखिलः ।

मायातीतो माधवेयो मार्गमाणो महेश्वरः ॥ ४॥

मांसादनो मातृमेयमानादिगुणवर्जितः ।

शिवः शिवतरोऽशीतः शीतांशुकृतभूषणः ॥ ५॥

शिवेतरहरः शम्भुः शिशिरर्तुप्रवर्तकः ।

वामदेवो वशी शान्तो वाद्यमोदोऽवसानकृत् ॥ ६॥

वामश्चक्रप्रदो वाग्मी वाय्वाहारोऽगदो वसुः ।

यामीनीशकलामौलिर्यातायानप्रियोयमी ॥ ७॥

यमप्रभथनो यष्टा यजमानो यतीश्वरः ।

सिन्धुनिषङ्गः सिंहेन्द्रः सिनीवालीस्तुतिप्रियः ॥ ८॥

सिन्धुसिंहासनासीनः सिन्धुराङ्गत्वगम्बरः ।

धनाधीशोऽन्धसां नाथ धर्माधर्मविचारकः ॥ ९॥

धौम्यो धाता धराधीशो धूर्जटिर्धर्मकेतनः ।

नमिताषेषदिक्पालो नरनारायणार्चितः ॥ १०॥

नतिप्रीतो नमस्कार्य नगधृङ् नगवासभूः ।

मयस्करो मन्त्ररूप मस्करी मस्तकाम्बुधृक् ॥ ११॥

मन्मथान्तकरो मन्युः मनस्वी मननातिगः ।

कपालपाणिः कालात्मा किष्कुः कीर्तिप्रदायकः ॥ १२॥

कुसुमार्चनसुप्रीतः कुशलः केकयेश्वरः ।

कैलासमौलिनिलयः कोपात्मा कौलमार्गवित् ॥ १३॥

कटाक्षपूज्यः कस्तुरीगन्धः वासैकमेदुरः ।

खण्डपर्शुः खाण्डवासः खिल्यः खीरप्रियः खुसः (खसः) ॥ १४॥

खण्डपः खेटधृक् खैरः खान्तकृत् स्वर्धुनीश्वरः ।

खण्डितारातिनिलयः खर्जूरवनमध्यगः ॥ १५॥

गयासुरहरो गार्ग्यो गिरीशो गीतिवर्धनः ।

गुरुर्गुर्जरगो गेयो गौरीभर्ताथ गैरिकः ॥ १६॥

गोवर्धनो गन्धवहो गन्ता गर्वप्रणाशकृत् ।

घण्टाध्वनिप्रियो घस्थो घनगर्भो घनाघनः ॥ १७॥

चन्द्रचूडश्चारुरूपश्चित्रकर्मा चितिप्रियः ।

चीनाजिनी चञ्चुचूडश्चैत्री चैत्ररथाश्रितः ॥ १८॥

चेतोऽच्युतोऽथ चण्डांशुः चमसोद्भेदवासकृत् ।

छत्रधृक् छान्दसश्छागवाहनः छद्मरूपधृक् ॥ १९॥

छेत्ता छेदकरोऽच्छादः छन्दोगश्छान्दसप्रियः ।

जयदो जागतो जिग्युर्जयदा जीवितप्रदः ॥ २०॥

जयकृत् जैत्रसञ्जेता जिष्णुर्जपपरायणः ।

जकुटाद्रिकृतावासो जटिलो जम्बुकेश्वरः ॥ २१॥

जननो जूतिगो जूटी जङ्गमाजङ्गमात्मकः ।

झञ्झावाद्यरतो झङ्कारवप्रीतोऽथ झर्झरी ॥ २२॥

झङ्कारकृत् झाङ्करिको झषकेतननाशनः ।

यमो यामप्रियो यन्ता यजमानो यमी यजुः ॥ २३॥

यशस्करो यत्नपरो यष्टा यज्ञेश्वरो यतिः ।

टङ्काप्रियष्टङ्ककरष्टक्कारष्टारवाहनः ॥ २४॥

नीलकण्ठः कालकालः कमेरः कश्मलापहा ।

वैकुण्ठपूजापीठस्थः द्विठान्तमनुमध्यगः ॥ २५॥

डाम्भिको डमरुप्रीतो डामरीतन्त्रपूरकः ।

दाडिमीफलसुप्रीतः डम्भो डम्भप्रियो जडः ॥ २६॥

ढक्कारवप्रियो ढक्काधरो ढक्कारिकाप्रियः ।

ढुण्ढो गूढो महाबाढो गूढपाद् वरभूषणः ॥ २७॥

णकारवाच्यो गणपः फणाधरवरप्रियः ।

वीणापाणिः शूलपाणिः कणपाद् कणभक्षणः ॥ २८॥

तस्करस्तीर्थकृत् तीर्थ्यस्तुर्यस्तूर्यरवप्रियः ।

तेजस्वी तेजसां नाथस्तोषणस्तौल्यलालितः ॥ २९॥

तन्तुस्तमालनीलाङ्गस्तारकस्ताम्रतारणः ।

धकारो (थकारो) मन्मथारातिः प्रमथेश कुथावृतः ॥ ३०॥

कम्पाकोऽथ कथाप्रीतः कौथुमो गीतसुप्रियः ।

दमनो दान्तनिलयो दिनेशो दानवानलः ॥ ३१॥

दुर्दान्तो दूतहरणो देशकालोऽथ दैववित् ।

दोषघ्नो दुर्गतिघ्नोऽथ दण्डपाणिर्दयापरः ॥ ३२॥

धनदो धान्यदो धारो धुन्धुकौको धुरन्धरः ।

धेनुप्रियो धैर्यधनो धर्माधर्मविशारदः ॥ ३३॥

नम्योऽनादिर्नीतिरतो नृत्तज्ञो नेत्रपालकः ।

नतार्तिशमनो नेताऽनन्तो नामविवर्जितः ॥ ३४॥

पद्मनेत्रप्रपूज्याङ्घ्रिः पार्वतीशः प्रसादकृत् ।

पीयूषकः पीतवासाः पीनाङ्गः पालकः पविः ॥ ३५॥

पोषणाः पैतृकः पोषः पन्नगाभरणाः परः ।

फणीश्वरधरः फालनयनः फल्गुकेश्वरः ॥ ३६॥

फूत्कारकृद्युतशिराः फणितः फणिताकृतिः ।

बर्बरो बाहुमान् बिन्दुर्बिल्मिनिर्बुधवर्धनः ॥ ३७॥

जम्बूप्रीतोऽम्बरगतो बैन्दवासनसंस्थितः ।

बोधदो बौद्धहृद्बन्धो बलप्रमथनी बली ॥ ३८॥

भयहृद्भानुदृक् भिल्लो भीतिदो भूतिभूषणः ।

भेरीवाद्यप्रियो देवो भैरवो भोगभाग् भवः ॥ ३९॥

भोज्यपूज्यो भण्डखण्ड भीमो भागविवर्जितः ।

मनोन्मनो माणवको मितिकृन्मीनलोचनः ॥ ४०॥

मुनिप्रियो मूकपालो मेनकाजनको मनुः ।

मैनाकवरदो मोचाफलप्रीतो मरुत्वकः ॥ ४१॥

मौनिपूज्यो मन्थरको मस्करी मयशिल्पदः ।

यशोधनो यायजूको यज्ञकृत् यज्ञनाशनः ॥ ४२॥

यात्रिको यन्त्रमध्यस्थो यशोदातनयार्चितः ।

रमणो रावणप्रीतो रतिदो रुग्विनाशकृत् ॥ ४३॥

रेतस्वी रैभ्यवरदो रोदनोऽरातिनाशनः ।

रन्धनो रसपो रामो रतिदा रगणस्थितः ॥ ४४॥

ललाटनयनो लीनो लिङ्गस्थोलिङ्गमस्तक ।

लुलायवाहहरणो ललुर्लयविवर्जितः ॥ ४५॥

वसुदो वामदेवश्च विश्वनाथो विशालकृत् ।

वीतिहोत्रमहानेत्रो वेनो वैश्वानरो वटुः ॥ ४६॥

वौषिट्कृत् वामदेव्योऽथ वामभागाङ्गनो वशी ।

षडध्वगः षडाधारः पाषण्डप्राणखण्डकः ॥ ४७॥

उच्चैर्घोषो घोरवेषो भीषणो बहुभाषणः ।

शाङ्गः शान्तः शिवः शीतः शुनकः शुन्यकृत् छटः ॥ ४८॥

शेषो विशेषणः शास्ता शतात्मा शौनकार्चितः ।

सनातनश्च सावित्रः सिन्धुजूटः सुनीथकः ॥ ४९॥

सूतः सेतुः सौतिकरः सैकतः सन्नतिः समः ।

क्षपापतिकलाधारी क्षात्रकर्मा क्षितीरभः ॥ ५०॥

क्षुद्रकर्मविनाशात्मा क्षुत्तृष्णादिविवर्जितः ।

हाहाहूहूहमुखस्तुत्यो हानि(ह्रास) वृद्धिविवर्जितः ॥ ५१॥

हस्तिकृत्तिप्रियो हर्ता हरिकेशो हरो हनुः ।

हैयङ्गवीनहृदयो हरिदश्वान्तरस्थितः ॥ ५२॥

हंसकाख्यमहानागो हंसकूटाद्रिवासकृत् ।

भुजङ्गभोगभूषाढ्यो भूतिभूषितविग्रहः ॥ ५३॥

न्यङ्कुहस्तः शम्बरारिनिहन्ताऽथ महेश्वरः ।

अर्णवान्तःस्थितोयोगी भोगी रागविवर्जितः ॥ ५४॥

कपालघृक् कालकालः कालातीतोऽक्षरः परः ।

पर्णशय्यो महावैद्य आद्योऽभेद्यो विशारदः ॥ ५५॥

हिरण्यदशनोऽहार्यो मुञ्जिकेशो हरिद्युतिः ।

हव्यवाहाम्बको नित्यः स्तुत्यो वप्त्याप्रवर्तकः ॥ ५६॥

गयास्तुतो गुणी गोप्ता निर्गुणस्त्रिगुणातिगः ।

विष्णुप्रीतिकरः शोणः शोणाक्षाः शोणतीरगः ॥ ५७॥

शतावर्तः शाश्वतात्मा शमनान्तकरः शठः ।

उगणो भगणोऽधीशः प्रभुः सम्मुख ईश्वरः ॥ ५८॥

सद्योजातो वामदेव ईशानोऽघोरपूरुषः ।

पञ्चब्रह्ममयः पञ्चमुखः पञ्चार्णमध्यगः ॥ ५९॥

पञ्चाक्षरीमध्यगतः पञ्चकोशविवर्जितः ।

पादपः पवनः पाशः पशुपाशविवर्जितः ॥ ६०॥

पथ्यः पद्मजपूज्याङ्घ्रिः प्रघसः पङ्कजेक्षणः ।

विश्वो विश्वाधिको नेता विश्वाक्षो विश्वतोमुखः ॥ ६१॥

विष्णुपूज्यो विशां श्रेष्ठो विनायकवरप्रद; ।

गङ्गाधरोऽम्बिकाभर्ता धर्ता हर्ता जनेश्वरः ॥ ६२॥

मेघवाहः प्रसन्नात्मा कङ्कालकवरो मधुः ।

वीतिहोत्रमहानेत्रः सत्रपात्रो दिगम्बरः ॥ ६३॥

महास्मशाननिलय ईशानोऽथ गराशनः ।

महाग्रासो महाभीमो विद्युत्यः शुक्ल ईश्वरः ॥ ६४॥

कन्दर्पदर्पहा कान्तः कपर्दी नीललोहितः ।

पिनाकपाणिः कालात्मा गोपतिर्वृषवाहनः ॥ ६५॥

सुरमन्दारमालाढ्यः कन्धरोऽनन्तविक्रमः ।

क्षयद्वीरो मारहारो हरः शीतांशुशेखरः ॥ ६६॥

शताङ्गवरदो होता यजमानो यशस्करः ।

मयस्करः शङ्करश्च शिपिविष्टः प्रतिष्ठितः ॥ ६७॥

प्रजापतिः पशुपतिः यतीनां प्रतिरग्निभूः ।

सामगानप्रियः शुद्धः प्रशान्तात्मा स्थिरः प्रभुः ॥ ६८॥

विभुर्विभासकोऽनन्तो रुद्र उग्रो महेश्वरः ।

जागर्तको जाङ्गलेशो जङ्गमाऽजङ्गमात्मकः ॥ ६९॥

जातुकर्णप्रियो ज्येष्ठः कनिष्ठः श्रेष्ठ उत्तमः ।

प्रतिष्ठा परमं धाम परमात्मा ऋतं महत् ॥ ७०॥

यन्त्रात्मा मन्त्ररूपात्मा मन्त्ररूपः सदाशिवः ।

निगमागमसंसेव्यः सुराद्यः प्रतितामहः ॥ ७१॥

सुरासुरगणाध्यक्षः त्र्यक्षो दक्षमखान्तकः ।

महोक्षवाह उक्षेड्य भगाक्षिहरणोऽक्षतः ॥ ७२॥

अनल्पकल्पः शिल्पादिः सुशीलः कौलपूजितः ।

स्तव्यो नव्यो भव्यरूपो हव्यकव्यभुगव्ययः ॥ ७३॥

महाबलो महोत्साहो महादेवो महाङ्गधृक् ।

शतावर्तः शान्तमनाः सहमानः स्तुतिप्रियः ॥ ७४॥

सनातनो वामदेवो मनस्वी मानवर्जितः ।

गतिदो नतपो वाग्मी उज्वैर्घोषो महाहनुः ॥ ७५॥

त्रिपुण्ड्रफालो भस्माङ्गः पुण्डरीकत्वगम्बरः ।

गायत्रीमध्यनिलयो मित्ररूपो जगत्प्रभुः ॥ ७६॥

प्रसेनजित्कक्षवासो नरसिंहनिपातनः ।

कोलदंष्टाधरो भूतो भूतनाथो रतिप्लुतः ॥ ७७॥

कूर्माम्रेडितपादाब्जश्चन्द्रचूडः स्थिरो मृडः ।

गुढपाद्वरहाराढ्य आढ्यो मौढ्यविनाशकः ॥ ७८॥

दण्डी कुण्डी तण्डुपूज्यो मुण्डी पाषण्डवर्जितः ।

अलिङ्गो लिङ्गनिलयः स्फुलिङ्गसदृषेक्षणः ॥ ७९॥

बिल्वपूज्यो बिल्मिनिश्च बिलेशयफणाधरः ।

बाणालिङ्गार्चनप्रीतो वडवानलससम्भवः ॥ ८०॥

बलारातिभुजस्तम्भो भूपतिर्विप्रपूजितः ।

अन्धकान्तकरो भर्गो गोवृषाङ्क उमाधवः ॥ ८१॥

धनञ्जयाक्षः कञ्चाक्षपूज्यपादाम्बुजद्वयः ।

वीतरागः सान्द्रसुखो वङ्कशङ्कुशरो हरः ॥ ८२॥

हयग्रीवार्चितो हेतिधरो भिक्षाटनप्रियः ।

(भिक्षाटनप्रियः-

मांसादनप्रियः इति मातृकायां पाठः । भगवतः सर्वात्मकतया

सर्वविशेषण विशिष्टत्वमस्त्येव । निषाद व्याध भक्तैरपि पूज्य

मानत्वात् तदुपहृतमांसभक्ष्यादनत्वं तद्दृष्ट्या युज्यत एव ।)

अत्र युक्ता -युक्त्व -निर्णयः पाठकविद्वदधीनः ।

त्रिमधुस्त्रिसुपर्णात्मा पर्णशायी महेश्वरः ॥ ८३॥

अञ्जनाक्षः खञ्जनात्मा रञ्जनो रङ्गनृत्यकृत् ।

वायुरायुःप्रदो मध्यो गह्वरेष्टोऽन्तकान्तकः ॥ ८४॥

शर्वः सर्वगतः स्थाणुः स्थविष्ठः सुप्रसन्नवाक् ।

शब्दः स्पर्शो रसो रूपं गन्धश्चन्द्रो विभावसुः ॥ ८५॥

सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।

सर्वेषां प्रभुरीशानः सर्वेषां शरणं सुहृत् ॥ ८६॥

सीमा भूमा महानात्मा प्रतिष्ठा पुरुषः परः ।

पुच्छं ब्रह्म ऋतं सत्यं हरो वैष्णवपिङगलः ॥ ८७॥

ऊर्ध्वरेता विरूपाक्षः क्षितीशः क्षान्तिवर्धनः ।

सविशेषो निर्विशेषः शेषाहिकटकोज्जलः ॥ ८८॥

रस आनन्द आतार्यः शष्पः फेन्यः सिकत्यकः ।

प्रवाह्यो गेह्यवाह्यश्च प्रसाद्यः प्रमथाधिपः ॥ ८९॥

ज्ञानदो धनदो धीरो दुन्दुभ्यो भीतिनाशकृत् ।

मयस्करो मस्करी च तस्करो भास्करेक्षणः ॥ ९०॥

यशस्करः कुलुञ्चेशो भिषजामधिपो युवा ।

वर्णी वन्यो गृहस्थश्च सन्यासी न्यासमध्यगः ॥ ९१॥

भीमः सोमः प्रशान्तात्मा धाम धूमसवर्णभृत् ।

कामदः काममथनः क्रथनः कनकाम्बरः ॥ ९२॥

समो निः सीममहिमा वनेशः क्षेत्रनायकः ।

कैलासशैलनिलयो विलयो लयवर्जितः ॥ ९३॥

रक्षाकरो राक्षसघ्नो लास्यप्रीतो रतिप्रदः ।

प्रदोषताण्डवपरः सर्वदोषहरो हरिः ॥ ९४॥

आखण्डलमुखस्तुत्यो मेरुकोदण्डधृग्वरः ।

वेदघोटः पाटिताशोह्यहिज्यो ब्रह्मसारथिः ॥ ९५॥

सूर्यचन्द्रमहाचक्रो हरिबाणोऽम्बरावृतः ।

क्ष्मारथस्त्रिपुरारातिः कण्वपूज्यो विचारकः ॥ ९६॥

शूली हली लाङ्गली च मुसली कुशली बली ।

गदी शङ्खी वशी चक्री कवची चान्धसां पतिः ॥ ९७॥

निषङ्गसागरः शम्भुः शान्तः सङ्गविवर्जितः ।

धीरोदात्त उदात्तश्च स्वरितः प्रचयस्वरः ॥ ९८॥

प्रणवः प्राणदः शोणः कणादः फणिकङ्कणः ।

मौनी मानी जितारातिः रीति धातुमयो महान् ॥ ९९॥

अणोरणीयान् सुभगो महतोऽपि महत्तरः ।

स्वराट् सम्राट् विराड् धाता विधातो सर्वतोमुखः ॥ १००॥

मेधाधिपो गाधिपूज्योह्याधिव्याधिविनाशनः ।

गाधाधिपो व्याधिनीशः कलधौतप्रभोऽबलः ॥ १०१॥

वेदगर्भो नीलकण्ठः कुण्ठिताघः कृपाकरः ।

जगदम्बापतिः साम्बस्त्र्यम्बको रविबिम्बगः ॥ १०२॥

सुधासागरमध्यस्थो मणिद्वीपनिकेतनः ।

कदम्बवनमध्यस्थः नीपवापीप्रपान्तरः ॥ १०३॥

पापतापहरो गोप्ता शम्बरारिनिषूदनः ।

त्रियम्बको वरनटो जटाजूटविभूषितः ॥ १०४॥

काट्यो नीप्यश्च सूद्यश्च सरस्यो मेध्य वैद्युतः ।

ईध्य्र आतप्य आतार्य आलाद्यश्चन्द्रशेखरः ॥ १०५॥

रेष्म्यो रस्यश्च वैशन्तोऽनाद्यः कूप्यो वटोद्भवः ।

आहनन्यश्च दुन्दुभ्यः सिकत्यः फेन्यवन्यकः ॥ १०६॥

प्रवाह्यश्च सिकत्यश्च प्रवाह्यो गेह्य एव च ।

(सिकत्यश्च – नामसाहस्रेऽस्मिन् पौनरुक्त्यं दृश्यते ।)

हिरण्यतल्प आताम्रो भवो रुद्रः पितामहः ॥ १०७॥

संसारवैद्यो विश्वात्मा गजश्चक्रप्रवर्तकः ।

मेरुः पिता स्विषुः पाता गरिष्ठो गह्वरस्तरुः ॥ १०८॥

हिरण्यबाहुराशास्यः सेनानीर्गिरिशो मृडः ।

सुधन्वा बिल्वपत्रार्च्यो गोनर्दोऽथ वृषाकपिः ॥ १०९॥

उरुगायः कल्पवृक्षो ज्योतिर्हेतिर्विभावसुः ।

सुतिथिः कौशिको धूर्तो धुत्तूरकुसुमप्रियः ॥ ११०॥

उमाधवो माधवार्च्यो भस्मरुद्राक्षभूषितः ।

गङ्गातुङ्गजटामौलिर्नर्मदाशर्मदायकः ॥ १११॥

तमालमालासुगलः करवाललसत्करः ।

अट्टाट्टहासो विकटो दंष्ट्राकुटिलवक्त्रकः ॥ ११२॥

रक्तवृत्तेक्षणः सुभ्रूः श्वभ्रो हर्ता कवीश्वरः ।

फुल्लनीलोत्पलस्रग्वी शम्याकार्च्यो विरोधहा ॥ ११३॥

आर्यः सूर्यप्रभः शास्ता सुहस्तो बस्तचर्मधृक् ।

क्षेत्रेशो जन्महा चात्मा अमोघश्चाद्रिजापतिः ॥ ११४॥

शाणचीरधरोऽघोर बर्बरो भैरवः सखा ।

उष्णीषवसनच्छन्न उपानत्पात्प्लवः शिवः ॥ ११५॥

वृक्षपल्लवसन्मौलिः शुनाम्पतिरपां पतिः ।

जघन्यो बुघ्नियश्छन्दोऽप्यरुणो भगणेन्द्रधृक् ॥ ११६॥

कुमारजनको वेत्ता परिवीतोपवीतधृक् ।

बभ्रुः सुचेता मीढ्वांश्च आषढो द्रापिरुत्तमः(?) ॥ ११७॥

एकाक्षो नैकपात् सुभ्रूः अधिपो मित्रपः शिवः ।

क्षेत्रपः स्वपतिर्देवो धनपः शत्रुनाशकृत् ॥ ११८॥

अन्नेषुश्चैव वातेषुस्तीर्थेषुप्रपथां पतिः ।

आयुर्दो धनदो धीरो रसः शिवतरो भृगुः ॥ ११९॥

एवं नामसहस्रेण तुष्टावाष्टाकृतिं हरम् ।

स्कन्दनन्दितमन्दारवृन्दारकगणानतः ॥ १२०॥

श्रृण्वन् पठन् शिवं चार्चन् बिल्वैः पर्वणि सर्वथा ।

ज्योक् स जीवति वंशेन सर्वसम्पदमश्नुते ॥ १२१॥

आम्नायसर्वार्थसहस्रनाम्नां भूम्नां च सीमान्तमहिम्ननाम्नाम् ।

लेशेऽप्यशेषांशविशेषशब्दवित् किं वास्य शेषः स मुखेन वक्ति ॥ १२२॥

नाम्नां सहस्रं प्रचपन्नधघ्नं ब्रध्नः प्रभो जायत एव सत्यम् ।

अहो न कोऽपीह नहीनपुण्य-महीनवंश्यो लभतेऽस्य किं गुणम् ॥ १२३॥

इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नाम चतुर्विंशोऽध्यायः ॥

 

|| श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् ||

अथ श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् अध्याय २४ (शिवरहस्ये चतुर्विंशोऽध्यायः)

ॐ ओङ्कारकण्ठनिलयाय नमः । ॐ ओङ्कारार्थप्रकाशकृते नमः ।ॐ ओङ्कारबीजसुप्रीताय नमः । ॐ ओङ्कारस्वरमात्रकाय नमः । ॐ ओङ्कारार्थाय नमः । ॐ ओमितीड्याय नमः । ॐ नानामन्त्रस्वरूपवते नमः ।ॐ नादरूपाय नमः । ॐ नाशिताघाय नमः । ॐ नामरूपगुणातिगाय नमः ।ॐ नागाजिनोत्तरासङ्गाय नमः । ॐ नामप्रीताय नमः । ॐ नताखिलाय नमः । ॐ मायातीताय नमः । ॐ माधवेयाय नमः । ॐ मार्गमाणाय नमः ।ॐ महेश्वराय नमः । ॐ मांसादनाय नमः । ॐ मातृमेयमानादिगुणवर्जिताय नमः ।ॐ शिवाय नमः । ॐ शिवतराय नमः । ॐ अशीताय नमः । ॐ शीतांशुकृतभूषणाय नमः ।ॐ शिवेतरहराय नमः । ॐ शम्भवे नमः । ॐ शिशिरर्तुप्रवर्तकाय नमः । ॐ वामदेवाय नमः । ॐ वशिने नमः । ॐ शान्ताय नमः । ॐ वाद्यमोदाय नमः ।ॐ अवसानकृते नमः । ॐ वामाय नमः । ॐ चक्रप्रदाय नमः । ॐ वाग्मिने नमः । ॐ वाय्वाहाराय नमः । ॐ अगदाय नमः । ॐ वसवे नमः । ॐ यामिनीशकलामौलये नमः ।ॐ यातायानप्रियाय नमः । ॐ यमिने नमः । ॐ यमप्रमथनाय नमः । ॐ यष्ट्रे नमः । ॐ यजमानाय नमः । ॐ यतीश्वराय नमः । ॐ सिन्धुनिषङ्गाय नमः । ॐ सिंहेन्द्राय नमः । ॐ सिनीवालीस्तुतिप्रियाय नमः । ॐ सिन्धुसिंहासनासीनाय नमः । ॐ सिन्धुराङ्गत्वगम्बराय नमः । ॐ धनाधीशाय नमः । ॐ अन्धसां नाथाय नमः । ॐ धर्माधर्मविचारकाय नमः । ॐ धौम्याय नमः ।ॐ धात्रे नमः । ॐ धराधीशाय नमः । ॐ धूर्जटये नमः । ॐ धर्मकेतनाय नमः ।ॐ नमिताशेषदिक्पालाय नमः । ॐ नरनारायणार्चिताय नमः । ॐ नतिप्रीताय नमः । ॐ नमस्कार्याय नमः । ॐ नगधृषे नमः । ॐ नगवासभुवे नमः । ॐ मयस्कराय नमः ।ॐ मन्त्ररूपाय नमः । ॐ मस्करिणे नमः । ॐ मस्तकाम्बुधृषे नमः । ॐ मन्मथान्तकराय नमः ।ॐ मन्यवे नमः । ॐ मनस्विने नमः । ॐ मननातिगाय नमः । ॐ कपालपाणये नमः । ॐ कालात्मने नमः । ॐ किष्कवे नमः । ॐ कीर्तिप्रदायकाय नमः । ॐ कुसुमार्चनसुप्रीताय नमः ।ॐ कुशलाय नमः । ॐ केकयेश्वराय नमः । ॐ कैलासमौलिनिलयाय नमः । ॐ कोपात्मने नमः । ॐ कौलमार्गविदे नमः । ॐ कटाक्षपूज्याय नमः । ॐ कस्तुरीगन्धवासैकमेदुराय नमः । ॐ खण्डपर्शवे नमः । ॐ खाण्डवासाय नमः । ॐ खिल्याय नमः । ॐ खीरप्रियाय नमः ।ॐ खुसाय (खसाय) नमः । ॐ खण्डपाय नमः । ॐ खेटधृषे नमः । ॐ खैराय नमः । ॐ खान्तकृते नमः ।ॐ स्वर्धुनीश्वराय नमः । ॐ खण्डितारातिनिलयाय नमः । ॐ खर्जूरवनमध्यगाय नमः ।ॐ गयासुरहराय नमः । ॐ गार्ग्याय नमः । ॐ गिरीशाय नमः । ॐ गीतिवर्धनाय नमः । ॐ गुरवे नमः । १००ॐ गुर्जरगाय नमः । ॐ गेयाय नमः । ॐ गौरीभर्त्रे नमः । ॐ गैरिकाय नमः । ॐ गोवर्धनाय नमः ।ॐ गन्धवहाय नमः । ॐ गन्त्रे नमः । ॐ गर्वप्रणाशकृते नमः । ॐ घण्टाध्वनिप्रियाय नमः ।ॐ घस्थाय नमः । ॐ घनगर्भाय नमः । ॐ घनाघनाय नमः । ॐ चन्द्रचूडाय नमः । ॐ चारुरूपाय नमः ।ॐ चित्रकर्मणे नमः । ॐ चितिप्रियाय नमः । ॐ चीनाजिनिने नमः । ॐ चञ्चुचूडाय नमः । ॐ चैत्रिणे नमः ।ॐ चैत्ररथाश्रिताय नमः । ॐ चेतसे नमः । ॐ अच्युताय नमः । ॐ चण्डांशवे नमः । ॐ चमसोद्भेदवासकृते नमः । ॐ छत्रधृषे नमः । ॐ छान्दसाय नमः । ॐ छागवाहनाय नमः । ॐ छद्मरूपधृषे नमः । ॐ छेत्त्रे नमः ।ॐ छेदकराय नमः । ॐ अच्छादाय नमः । ॐछन्दोगाय नमः । ॐ छान्दसप्रियाय नमः । ॐ जयदाय नमः । ॐ जागताय नमः । ॐ जिग्यवे नमः । ॐ जयदाय नमः । ॐ जीवितप्रदाय नमः । ॐ जयकृते नमः । ॐ जैत्रसञ्जेत्रे नमः । ॐ जिष्णवे नमः । ॐ जपपरायणाय नमः । ॐ जकुटाद्रिकृतावासाय नमः । ॐ जटिलाय नमः । ॐ जम्बुकेश्वराय नमः । ॐ जननाय नमः । ॐ जूतिगाय नमः । ॐ जूटिने नमः । ॐ जङ्गमाजङ्गमात्मकाय नमः ।ॐ झञ्झावाद्यरताय नमः । ॐ झङ्कारवप्रीताय नमः । ॐ झर्झरिणे नमः । ॐ झङ्कारकृते नमः ।ॐ झाङ्करिकाय नमः । ॐ झषकेतननाशनाय नमः । ॐ यमाय नमः । ॐ यामप्रियाय नमः । ॐ यन्त्रे नमः ।ॐ यजमानाय नमः । ॐ यमिने नमः । ॐ यजुषे नमः । ॐ यशस्कराय नमः । ॐ यत्नपराय नमः । ॐ यष्ट्रे नमः ।ॐ यज्ञेश्वराय नमः । ॐ यतये नमः । ॐ टङ्काप्रियाय नमः । ॐ टङ्ककराय नमः । ॐ टक्काराय नमः ।ॐ टारवाहनाय नमः । ॐ नीलकण्ठाय नमः । ॐ कालकालाय नमः । ॐ कमेराय नमः । ॐ कश्मलापघ्ने नमः । ॐ वैकुण्ठपूजापीठस्थाय नमः । ॐ द्विठान्तमनुमध्यगाय नमः । ॐ डाम्भिकाय नमः ।ॐ डमरुप्रीताय नमः । ॐ डामरीतन्त्रपूरकाय नमः । ॐ दाडिमीफलसुप्रीताय नमः । ॐ डम्भाय नमः । ॐ डम्भप्रियाय नमः । ॐ जडाय नमः । ॐ ढक्कारवप्रियाय नमः । ॐ ढक्काधराय नमः । ॐ ढक्कारिकाप्रियाय नमः । ॐ ढुण्ढाय नमः । ॐ गूढाय नमः । ॐ महाबाढाय नमः । ॐ गूढपादे नमः । ॐ वरभूषणाय नमः । ॐ णकारवाच्याय नमः । ॐ गणपाय नमः । ॐ फणाधरवरप्रियाय नमः । ॐ वीणापाणये नमः । ॐ शूलपाणये नमः । ॐ कणपादे नमः । ॐ कणभक्षणाय नमः । ॐ तस्कराय नमः । ॐ तीर्थकृते नमः । ॐ तीर्थ्याय नमः । ॐ तुर्याय नमः । ॐ तूर्यरवप्रियाय नमः । ॐ तेजस्विने नमः । ॐ तेजसां नाथाय नमः । ॐ तोषणाय नमः । ॐ तौल्यलालिताय नमः । ॐ तन्तवे नमः । ॐ तमालनीलाङ्गाय नमः ।ॐ तारकाय नमः । ॐ ताम्रतारणाय नमः । ॐ धकाराय (थकाराय) नमः । ॐ मन्मथारातये नमः । ॐ प्रमथेशाय नमः । ॐ कुथाऽऽवृताय नमः । ॐ कम्पाकाय नमः । ॐ कथाप्रीताय नमः । ॐ कौथुमाय नमः । ॐ गीतसुप्रियाय नमः । ॐ दमनाय नमः । ॐ दान्तनिलयाय नमः । ॐ दिनेशाय नमः । ॐ दानवानलाय नमः । ॐ दुर्दान्ताय नमः । ॐ दूतहरणाय नमः । ॐ देशकालाय नमः । ॐ दैवविदे नमः । ॐ दोषघ्नाय नमः । ॐ दुर्गतिघ्नाय नमः । ॐ दण्डपाणये नमः । ॐ दयापराय नमः । ॐ धनदाय नमः । ॐ धान्यदाय नमः । ॐ धाराय नमः ।ॐ धुन्धुकौकाय नमः । ॐ धुरन्धराय नमः । ॐ धेनुप्रियाय नमः । ॐ धैर्यधनाय नमः । ॐ धर्माधर्मविशारदाय नमः । ॐ नम्याय नमः । ॐ अनादये नमः । ॐ नीतिरताय नमः । ॐ नृत्तज्ञाय नमः । ॐ नेत्रपालकाय नमः ।ॐ नतार्तिशमनाय नमः । ॐ नेत्रे नमः । ॐ अनन्ताय नमः । ॐ नामविवर्जिताय नमः ।ॐ पद्मनेत्रप्रपूज्याङ्घ्रये नमः । ॐ पार्वतीशाय नमः । ॐ प्रसादकृते नमः । ॐ पीयूषकाय नमः । ॐ पीतवाससे नमः । ॐ पीनाङ्गाय नमः । ॐ पालकाय नमः । ॐ पवये नमः । ॐ पोषणः नमः । ॐ पैतृकाय नमः । ॐ पोषाय नमः । ॐ पन्नगाभरणाय नमः । ॐ पराय नमः । ॐ फणीश्वरधराय नमः । ॐ फालनयनाय नमः । ॐ फल्गुकेश्वराय नमः ।ॐ फूत्कारकृद्युतशिरसे नमः । ॐ फणिताय नमः । ॐ फणिताकृतये नमः । ॐ बर्बराय नमः ।ॐ बाहुमते नमः । ॐ बिन्दवे नमः । ॐ बिल्मिनये नमः । ॐ बुधवर्धनाय नमः । ॐ जम्बूप्रीताय नमः । ॐ अम्बरगताय नमः । ॐ बैन्दवासनसंस्थिताय नमः । ॐ बोधदाय नमः । ॐ बौद्धहृद्बन्धाय नमः । ॐ बलप्रमथनिने नमः । ॐ बलिने नमः । ॐ भयहृते नमः । ॐ भानुदृषे नमः । ॐ भिल्लाय नमः । ॐ भीतिदाय नमः । ॐ भूतिभूषणाय नमः ।ॐ भेरीवाद्यप्रियाय नमः । ॐ देवाय नमः । ॐ भैरवाय नमः । ॐ भोगभाजे नमः । ॐ भवाय नमः । ॐ भोज्यपूज्याय नमः । ॐ भण्डखण्डाय नमः । ॐ भीमाय नमः । ॐ भागविवर्जिताय नमः । ॐ मनोन्मनाय नमः ।ॐ माणवकाय नमः । ॐ मितिकृते नमः । ॐ मीनलोचनाय नमः । ॐ मुनिप्रियाय नमः । ॐ मूकपालाय नमः ।ॐ मेनकाजनकाय नमः । ॐ मनवे नमः । ॐ मैनाकवरदाय नमः । ॐ मोचाफलप्रीताय नमः । ॐ मरुत्वकाय नमः । ॐ मौनिपूज्याय नमः । ॐ मन्थरकाय नमः । ॐ मस्करिणे नमः । ॐ मयशिल्पदाय नमः । ॐ यशोधनाय नमः । ॐ यायजूकाय नमः । ॐ यज्ञकृते नमः । ॐ यज्ञनाशनाय नमः । ॐ यात्रिकाय नमः । ॐ यन्त्रमध्यस्थाय नमः । ॐ यशोदातनयार्चिताय नमः । ॐ रमणाय नमः । ॐ रावणप्रीताय नमः । ॐ रतिदाय नमः । ॐ रुग्विनाशकृते नमः । ॐ रेतस्विने नमः । ॐ रैभ्यवरदाय नमः । ॐ रोदनाय नमः । ॐ अरातिनाशनाय नमः । ॐ रन्धनाय नमः । ॐ रसपाय नमः । ॐ रामाय नमः । ॐ रतिदाय नमः । ॐ रगणस्थिताय नमः । ॐ ललाटनयनाय नमः । ॐ लीनाय नमः । ॐ लिङ्गस्थाय नमः । ॐ लिङ्गमस्तकाय नमः । ॐ लुलायवाहहरणाय नमः । ॐ ललवे नमः । ॐ लयविवर्जिताय नमः । ॐ वसुदाय नमः । ॐ वामदेवाय नमः । ॐ विश्वनाथाय नमः । ॐ विशालकृते नमः । ॐ वीतिहोत्रमहानेत्राय नमः । ॐ वेनाय नमः । ॐ वैश्वानराय नमः । ॐ वटवे नमः । ॐ वौषिट्कृते नमः । ॐ वामदेव्याय नमः । ॐ वामभागाङ्गनाय नमः । ॐ वशिने नमः । ॐ षडध्वगाय नमः । ॐ षडाधाराय नमः । ॐ पाषण्डप्राणखण्डकाय नमः । ॐ उच्चैर्घोषाय नमः । ॐ घोरवेषाय नमः । ॐ भीषणाय नमः । ॐ बहुभाषणाय नमः । ॐ शाङ्गाय नमः । ॐ शान्ताय नमः । ॐ शिवाय नमः । ॐ शीताय नमः । ॐ शुनकाय नमः । ॐ शून्यकृते नमः । ॐ शठाय नमः । ॐ शेषाय नमः । ॐ विशेषणाय नमः । ॐ शास्त्रे नमः । ॐ शतात्मने नमः । ॐ शौनकार्चिताय नमः । ॐ सनातनाय नमः । ॐ सावित्राय नमः । ॐ सिन्धुजूटाय नमः । ॐ सुनीथकाय नमः । ॐ सूताय नमः । ॐ सेतवे नमः । ॐ सौतिकराय नमः । ॐ सैकताय नमः । ॐ सन्नतये नमः । ॐ समाय नमः । ॐ क्षपापतिकलाधारिणे नमः । ॐ क्षात्रकर्मणे नमः । ॐ क्षितीरभसे नमः । ॐ क्षुद्रकर्मविनाशात्मने नमः । ॐ क्षुत्तृष्णादिविवर्जिताय नमः । ॐ हाहाहूहूमुखस्तुत्याय नमः । ॐ हानि (ह्रास) वृद्धिविवर्जिताय नमः । ॐ हस्तिकृत्तिप्रियाय नमः । ॐ हर्त्रे नमः । ॐ हरिकेशाय नमः । ॐ हराय नमः । ॐ हनवे नमः । ॐ हैयङ्गवीनहृदयाय नमः । ॐ हरिदश्वान्तरस्थिताय नमः । ॐ हंसकाख्यमहानागाय नमः । ॐ हंसकूटाद्रिवासकृते नमः । ॐ भुजङ्गभोगभूषाढ्याय नमः । ॐ भूतिभूषितविग्रहाय नमः । ॐ न्यङ्कुहस्ताय नमः । ॐ शम्बरारिनिहन्त्रे नमः । ॐ महेश्वराय नमः । ॐ अर्णवान्तःस्थिताय नमः । ॐ योगिने नमः । ॐ भोगिने नमः । ॐ रागविवर्जिताय नमः । ॐ कपालधृषे नमः । ॐ कालकालाय नमः । ॐ कालातीताय नमः । ॐ अक्षराय नमः । ॐ पराय नमः । ॐ पर्णशय्याय नमः । ॐ महावैद्याय नमः । ॐ आद्याय नमः । ॐ अभेद्याय नमः । ॐ विशारदाय नमः । ॐ हिरण्यदशनाय नमः । ॐ अहार्याय नमः । ॐ मुञ्जिकेशाय नमः । ॐ हरिद्युतये नमः । ॐ हव्यवाहाम्बकाय नमः । ॐ नित्याय नमः । ॐ स्तुत्याय नमः । ॐ वप्त्याप्रवर्तकाय नमः । ॐ गयास्तुताय नमः । ॐ गुणिने नमः । ॐ गोप्त्रे नमः । ॐ निर्गुणाय नमः । ॐ त्रिगुणातिगाय नमः । ॐ विष्णुप्रीतिकराय नमः । ॐ शोणाय नमः । ॐ शोणाक्षय नमः । ॐ शोणतीरगाय नमः । ॐ शतावर्ताय नमः । ॐ शाश्वतात्मने नमः । ॐ शमनान्तकराय नमः । ॐ शठाय नमः । ॐ उगणाय नमः । ॐ भगणाय नमः । ॐ अधीशाय नमः । ॐ प्रभवे नमः । ॐ सम्मुखाय नमः । ॐ ईश्वराय नमः । ॐ सद्योजाताय नमः । ॐ वामदेवाय नमः । ॐ ईशानाय नमः । ॐ अघोरपूरुषाय नमः । ॐ पञ्चब्रह्ममयाय नमः । ॐ पञ्चमुखाय नमः । ॐ पञ्चार्णमध्यगाय नमः । ॐ पञ्चाक्षरीमध्यगताय नमः । ॐ पञ्चकोशविवर्जिताय नमः । ॐ पादपाय नमः । ॐ पवनाय नमः । ॐ पाशाय नमः । ॐ पशुपाशविवर्जिताय नमः । ॐ पथ्याय नमः । ॐ पद्मजपूज्याङ्घ्रये नमः । ॐ प्रघसाय नमः । ॐ पङ्कजेक्षणाय नमः । ॐ विश्वाय नमः । ॐ विश्वाधिकाय नमः । ॐ नेत्रे नमः । ॐ विश्वाक्षाय नमः । ॐ विश्वतोमुखाय नमः । ॐ विष्णुपूज्याय नमः । ॐ विशां श्रेष्ठाय नमः । ॐ विनायकवरप्रदः नमः । ॐ गङ्गाधराय नमः । ॐ अम्बिकाभर्त्रे नमः । ॐ धर्त्रे नमः । ॐ हर्त्रे नमः । ॐ जनेश्वराय नमः । ॐ मेघवाहाय नमः । ॐ प्रसन्नात्मने नमः । ॐ कङ्कालकवराय नमः । ॐ मधवे नमः । ॐ वीतिहोत्रमहानेत्राय नमः । ॐ सत्रपात्राय नमः । ॐ दिगम्बराय नमः । ॐ महास्मशाननिलयाय नमः । ॐ ईशानाय नमः । ॐ गराशनाय नमः । ॐ महाग्रासाय नमः । ॐ महाभीमाय नमः । ॐ विद्युत्याय नमः । ॐ शुक्लाय नमः । ॐ ईश्वराय नमः । ॐ कन्दर्पदर्पघ्ने नमः । ॐ कान्ताय नमः । ॐ कपर्दिने नमः । ॐ नीललोहिताय नमः । ॐ पिनाकपाणये नमः । ॐ कालात्मने नमः । ॐ गोपतये नमः । ॐ वृषवाहनाय नमः । ॐ सुरमन्दारमालाढ्याय नमः । ॐ कन्धराय नमः । ॐ अनन्तविक्रमाय नमः । ॐ क्षयद्वीराय नमः । ॐ मारहाराय नमः । ॐ हराय नमः । ॐ शीतांशुशेखराय नमः । ॐ शताङ्गवरदाय नमः । ॐ होत्रे नमः । ॐ यजमानाय नमः । ॐ यशस्कराय नमः । ॐ मयस्कराय नमः । ॐ शङ्कराय नमः । ॐ शिपिविष्टाय नमः । ॐ प्रतिष्ठिताय नमः । ॐ प्रजापतये नमः । ॐ पशुपतये नमः । ॐ यतीनां पतये नमः । ॐ अग्निभुवे नमः । ॐ सामगानप्रियाय नमः । ॐ शुद्धाय नमः । ॐ प्रशान्तात्मने नमः । ॐ स्थिराय नमः । ॐ प्रभवे नमः । ॐ विभवे नमः । ॐ विभासकाय नमः । ॐ अनन्ताय नमः । ॐ रुद्राय नमः । ॐ उग्राय नमः । ॐ महेश्वराय नमः । ॐ जागर्तकाय नमः । ॐ जाङ्गलेशाय नमः । ॐ जङ्गमाय नमः । ॐ अजङ्गमात्मकाय नमः । ॐ जातुकर्णप्रियाय नमः । ॐ ज्येष्ठाय नमः । ॐ कनिष्ठाय नमः । ॐ श्रेष्ठाय नमः । ॐ उत्तमाय नमः । ॐ प्रतिष्ठायै नमः । ॐ परमाय नमः । ॐ धाम्ने नमः । ॐ परमात्मने नमः । ॐ ऋताय नमः । ॐ महते नमः । ॐ यन्त्रात्मने नमः । ॐ मन्त्ररूपात्मने नमः । ॐ मन्त्ररूपाय नमः । ॐ सदाशिवाय नमः । ॐ निगमागमसंसेव्याय नमः । ॐ सुराद्याय नमः । ॐ प्रपितामहाय नमः । ॐ सुरासुरगणाध्यक्षाय नमः । ॐ त्र्यक्षाय नमः । ॐ दक्षमखान्तकाय नमः । ॐ महोक्षवाहाय नमः । ॐ उक्षेड्याय नमः । ॐ भगाक्षिहरणाय नमः । ॐ अक्षताय नमः । ॐ अनल्पकल्पाय नमः । ॐ शिल्पादये नमः । ॐ सुशीलाय नमः । ॐ कौलपूजिताय नमः । ॐ स्तव्याय नमः । ॐ नव्याय नमः । ॐ भव्यरूपाय नमः । ॐ हव्यकव्यभुजे नमः । ॐ अव्ययाय नमः । ॐ महाबलाय नमः । ॐ महोत्साहाय नमः । ॐ महादेवाय नमः । ॐ महाङ्गधृषे नमः । ॐ शतावर्ताय नमः । ॐ शान्तमनसे नमः । ॐ सहमानाय नमः । ॐ स्तुतिप्रियाय नमः । ॐ सनातनाय नमः । ॐ वामदेवाय नमः । ॐ मनस्विने नमः । ॐ मानवर्जिताय नमः । ॐ गतिदाय नमः । ॐ नतपाय नमः । ॐ वाग्मिने नमः । ॐ उच्चैर्घोषाय नमः । ॐ महाहनवे नमः । ॐ त्रिपुण्ड्रफालाय नमः । ॐ भस्माङ्गाय नमः । ॐ पुण्डरीकत्वगम्बराय नमः । ॐ गायत्रीमध्यनिलयाय नमः । ॐ मित्ररूपाय नमः । ॐ जगत्प्रभवे नमः । ॐ प्रसेनजित्कक्षवासाय नमः । ॐ नरसिंहनिपातनाय नमः । ॐ कोलदंष्ट्राधराय नमः । ॐ भूताय नमः । ॐ भूतनाथाय नमः । ॐ रतिप्लुताय नमः । ॐ कूर्माम्रेडितपादाब्जाय नमः । ॐ चन्द्रचूडाय नमः । ॐ स्थिराय नमः । ॐ मृडाय नमः । ॐ गुढपादे नमः । ॐ वरहाराध्याय नमः । ॐ आढ्याय नमः । ॐ मौढ्यविनाशकाय नमः । ॐ दण्डिने नमः । ॐ कुण्डिने नमः । ॐ तण्डुपूज्याय नमः । ॐ मुण्डिने नमः । ॐ पाषण्डवर्जिताय नमः । ॐ अलिङ्गाय नमः । ॐ लिङ्गनिलयाय नमः । ॐ स्फुलिङ्गसदृशेक्षणाय नमः । ॐ बिल्वपूज्याय नमः । ॐ बिल्मिनये नमः । ॐ बिलेशयफणाधराय नमः । ॐ बाणलिङ्गार्चनप्रीताय नमः । ॐ वडवानलसम्भवाय नमः । ॐ बलारातिभुजस्तम्भाय नमः । ॐ भूपतये नमः । ॐ विप्रपूजिताय नमः । ॐ अन्धकान्तकराय नमः । ॐ भर्गाय नमः । ॐ गोवृषाङ्काय नमः । ॐ उमाधवाय नमः । ॐ धनञ्जयाक्षाय नमः । ॐ कञ्चाक्षपूज्यपादाम्बुजद्वयाय नमः । ॐ वीतरागाय नमः । ॐ सान्द्रसुखाय नमः । ॐ वङ्कशङ्कुशराय नमः । ॐ हराय नमः । ॐ हयग्रीवार्चिताय नमः । ॐ हेतिधराय नमः । ॐ भिक्षाटनप्रियाय नमः । ॐ युक्त्रे नमः । ॐ युक्त्वाय नमः । ॐ निर्णयाय नमः । ॐ पाठकविद्वदधीनाय नमः । ॐ त्रिमधवे नमः । ॐ त्रिसुपर्णात्मने नमः । ॐ पर्णशायिने नमः । ॐ महेश्वराय नमः । ॐ अञ्जनाक्षाय नमः । ॐ खञ्जनात्मने नमः । ॐ रञ्जनाय नमः । ॐ रङ्गनृत्यकृते नमः । ॐ वायवे नमः । ॐ आयुःप्रदाय नमः । ॐ मध्याय नमः । ॐ गह्वरेष्टाय नमः । ॐ अन्तकान्तकाय नमः । ॐ शर्वाय नमः । ॐ सर्वगताय नमः । ॐ स्थाणवे नमः । ॐ स्थविष्ठाय नमः । ॐ सुप्रसन्नवाचे नमः । ॐ शब्दाय नमः । ॐ स्पर्शाय नमः । ॐ रसाय नमः । ॐ रूपाय नमः । ॐ गन्धाय नमः । ॐ चन्द्राय नमः । ॐ विभावसवे नमः । ॐ सर्वेन्द्रियगुणातीताय नमः । ॐ सर्वेन्द्रियविवर्जिताय नमः । ॐ सर्वेषां प्रभवे नमः । ॐ ईशानाय नमः । ॐ सर्वेषां शरणाय नमः । ॐ सुहृते नमः । ॐ सीमाय नमः । ॐ भूमाय नमः । ॐ महते आत्मने नमः । ॐ प्रतिष्ठात्रे नमः । ॐ पुरुषाय नमः । ॐ पराय नमः । ॐ पुच्छाय नमः । ॐ ब्रह्मणे नमः । ॐ ऋताय नमः । ॐ सत्याय नमः । ॐ हराय नमः । ॐ वैष्णवपिङ्गलाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ विरूपाक्षाय नमः । ॐ क्षितीशाय नमः । ॐ क्षान्तिवर्धनाय नमः । ॐ सविशेषाय नमः । ॐ निर्विशेषाय नमः । ॐ शेषाहिकटकोज्ज्वलाय नमः । ॐ रसाय नमः । ॐ आनन्दाय नमः । ॐ आतार्याय नमः । ॐ शष्पाय नमः । ॐ फेन्याय नमः । ॐ सिकत्यकाय नमः । ॐ प्रवाह्याय नमः । ॐ गेह्यवाह्याय नमः । ॐ प्रसाद्याय नमः । ॐ प्रमथाधिपाय नमः । ॐ ज्ञानदाय नमः । ॐ धनदाय नमः । ॐ धीराय नमः । ॐ दुन्दुभ्याय नमः । ॐ भीतिनाशकृते नमः । ॐ मयस्कराय नमः । ॐ मस्करिणे नमः । ॐ तस्कराय नमः । ॐ भास्करेक्षणाय नमः । ॐ यशस्कराय नमः । ॐ कुलुञ्चेशाय नमः । ॐ भिषजामधिपाय नमः । ॐ यूने नमः । ॐ वर्णिने नमः । ॐ वन्याय नमः । ॐ गृहस्थाय नमः । ॐ सन्यासिने नमः । ॐ न्यासमध्यगाय नमः । ॐ भीमाय नमः । ॐ सोमाय नमः । ॐ प्रशान्तात्मने नमः । ॐ धाम्ने नमः । ॐ धूमसवर्णभृते नमः । ॐ कामदाय नमः । ॐ काममथनाय नमः । ॐ क्रथनाय नमः । ॐ कनकाम्बराय नमः । ॐ समाय नमः । ॐ निःसीममहिमाय नमः । ॐ वनेशाय नमः । ॐ क्षेत्रनायकाय नमः । ॐ कैलासशैलनिलयाय नमः । ॐ विलयाय नमः । ॐ लयवर्जिताय नमः । ॐ रक्षाकराय नमः । ॐ राक्षसघ्नाय नमः । ॐ लास्यप्रीताय नमः । ॐ रतिप्रदाय नमः । ॐ प्रदोषताण्डवपराय नमः । ॐ सर्वदोषहराय नमः । ॐ हरये नमः । ॐ आखण्डलमुखस्तुत्याय नमः । ॐ मेरुकोदण्डधृग्वराय नमः । ॐ वेदघोटाय नमः । ॐ पाटिताशोह्यहिज्याय नमः । ॐ ब्रह्मसारथये नमः । ॐ सूर्यचन्द्रमहाचक्राय नमः । ॐ हरिबाणाय नमः । ॐ अम्बरावृताय नमः । ॐ क्ष्मारथाय नमः । ॐ त्रिपुरारातये नमः । ॐ कण्वपूज्याय नमः । ॐ विचारकाय नमः । ॐ शूलिने नमः । ॐ हलिने नमः । ॐ लाङ्गलिने नमः । ॐ मुसलिने नमः । ॐ कुशलिने नमः । ॐ बलिने नमः । ॐ गदिने नमः । ॐ शङ्खिने नमः । ॐ वशिने नमः । ॐ चक्रिणे नमः । ॐ कवचिने नमः । ॐ छन्दसां पतये नमः । ॐ निषङ्गसागराय नमः । ॐ शम्भवे नमः । ॐ शान्ताय नमः । ॐ सङ्गविवर्जिताय नमः । ॐ धीरोदात्ताय नमः । ॐ उदात्ताय नमः । ॐ स्वरिताय नमः । ॐ प्रचयस्वराय नमः । ॐ प्रणवाय नमः । ॐ प्राणदाय नमः । ॐ शोणाय नमः । ॐ कणादाय नमः । ॐ फणिकङ्कणाय नमः । ॐ मौनिने नमः । ॐ मानिने नमः । ॐ जितारातये नमः । ॐ रीति धातुमयाय नमः । ॐ महते नमः । ॐ अणोरणीयसे नमः । ॐ सुभगाय नमः । ॐ महतोऽपि महत्तराय नमः । ॐ स्वराजे नमः । ॐ सम्राजे नमः । ॐ विराजे नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ॐ सर्वतोमुखाय नमः । ॐ मेधाधिपाय नमः । ॐ गाधिपूज्याय नमः । ॐ आधिव्याधिविनाशनाय नमः । ॐ गाधाधिपाय नमः । ॐ व्याधिनीशाय नमः । ॐ कलधौतप्रभाय नमः । ॐ अबलाय नमः । ॐ वेदगर्भाय नमः । ॐ नीलकण्ठाय नमः । ॐ कुण्ठिताघाय नमः । ॐ कृपाकराय नमः । ॐ जगदम्बापतये नमः । ॐ साम्बाय नमः । ॐ त्र्यम्बकाय नमः । ॐ रविबिम्बगाय नमः । ॐ सुधासागरमध्यस्थाय नमः । ॐ मणिद्वीपनिकेतनाय नमः । ॐ कदम्बवनमध्यस्थाय नमः । ॐ नीपवापीप्रपान्तराय नमः । ॐ पापतापहराय नमः । ॐ गोप्त्रे नमः । ॐ शम्बरारिनिषूदनाय नमः । ॐ त्रियम्बकाय नमः । ॐ वरनटाय नमः । ॐ जटाजूटविभूषिताय नमः । ॐ काट्याय नमः । ॐ नीप्याय नमः । ॐ सूद्याय नमः । ॐ सरस्याय नमः । ॐ मेध्याय नमः । ॐ वैद्युताय नमः । ॐ ईध्रियाय नमः । ॐ आतप्याय नमः । ॐ आतार्याय नमः । ॐ आलाद्याय नमः । ॐ चन्द्रशेखराय नमः । ॐ रेष्म्याय नमः । ॐ रस्याय नमः । ॐ वैशन्ताय नमः । ॐ अनाद्याय नमः । ॐ कूप्याय नमः । ॐ वटोद्भवाय नमः । ॐ आहनन्याय नमः । ॐ दुन्दुभ्याय नमः । ॐ सिकत्याय नमः । ॐ फेन्यवन्यकाय नमः । ॐ प्रवाह्याय नमः । ॐ सिकत्याय नमः । ॐ प्रवाह्याय नमः । ॐ गेह्याय नमः । ॐ हिरण्यतल्पाय नमः । ॐ आताम्राय नमः । ॐ भवाय नमः । ॐ रुद्राय नमः । ॐ पितामहाय नमः । ॐ संसारवैद्याय नमः । ॐ विश्वात्मने नमः । ॐ गजाय नमः । ॐ चक्रप्रवर्तकाय नमः । ॐ मेरवे नमः । ॐ पित्रे नमः । ॐ स्विषवे पात्रे नमः । ॐ गरिष्ठाय नमः । ॐ गह्वराय नमः । ॐ तरवे नमः । ॐ हिरण्यबाहवे नमः । ॐ आशास्याय नमः । ॐ सेनानिने नमः । ॐ गिरिशाय नमः । ॐ मृडाय नमः । ॐ सुधन्वने नमः । ॐ बिल्वपत्रार्च्याय नमः । ॐ गोनर्दाय नमः । ॐ वृषाकपये नमः । ॐ उरुगायाय नमः । ॐ कल्पवृक्षाय नमः । ॐ ज्योतिषे नमः । ॐ हेतये नमः । ॐ विभावसवे नमः । ॐ सुतिथये नमः । ॐ कौशिकाय नमः । ॐ धूर्ताय नमः । ॐ धुत्तूरकुसुमप्रियाय नमः । ॐ उमाधवाय नमः । ॐ माधवार्च्याय नमः । ॐ भस्मरुद्राक्षभूषिताय नमः । ॐ गङ्गातुङ्गजटामौलये नमः । ॐ नर्मदाशर्मदायकाय नमः । ॐ तमालमालासुगलाय नमः । ॐ करवाललसत्कराय नमः । ॐ अट्टाट्टहासाय नमः । ॐ विकटाय नमः । ॐ दंष्ट्राकुटिलवक्त्रकाय नमः । ॐ रक्तवृत्तेक्षणाय नमः । ॐ सुभ्रुवे नमः । ॐ श्वभ्राय नमः । ॐ हर्त्रे नमः । ॐ कवीश्वराय नमः । ॐ फुल्लनीलोत्पलस्रग्विने नमः । ॐ शम्याकार्च्याय नमः । ॐ विरोधघ्ने नमः । ॐ आर्याय नमः । ॐ सूर्यप्रभाय नमः । ॐ शास्त्रे नमः । ॐ सुहस्ताय नमः । ॐ बस्तचर्मधृषे नमः । ॐ क्षेत्रेशाय नमः । ॐ जन्मघ्ने नमः । ॐ आत्मने नमः । ॐ अमोघाय नमः । ॐ अद्रिजापतये नमः । ॐ शाणचीरधराय नमः । ॐ अघोराय नमः । ॐ बर्बराय नमः । ॐ भैरवाय नमः । ॐ सख्ये नमः । ॐ उष्णीषवसनाच्छन्न उपानत्पात्प्लवाय नमः । ॐ शिवाय नमः । ॐ वृक्षपल्लवसन्मौलये नमः । ॐ शुनाम्पतये नमः । ॐअपां पतये नमः । ॐजघन्याय नमः । ॐबुध्न्याय नमः । ॐछन्दसे नमः । ॐअरुणाय नमः ।ॐ भगणेन्द्रधृषे नमः ।ॐ कुमारजनकाय नमः ।ॐ वेत्त्रे नमः । ॐपरिवीतोपवीतधृषे नमः । ॐबभ्रवे नमः । ॐसुचेत्रे नमः ।ॐ मीढुषे नमः । ॐआषढाय नमः । ॐद्रापये नमः । ॐउत्तमाय नमः ।ॐ एकाक्षाय नमः ।ॐ नैकपादे नमः ।ॐ सुभ्रुवे नमः ।ॐ अधिपाय नमः । ॐ मित्रपाय नमः ।ॐ शिवाय नमः ।ॐ क्षेत्रपाय नमः ।ॐ स्वपतये नमः ।ॐ देवाय नमः । ॐधनपाय नमः । ॐशत्रुनाशकृते नमः । ॐअन्नेषवे नमः । ॐवातेषवे नमः ।ॐ तीर्थेषवे नमः । ॐप्रपथां पतये नमः । ॐआयुर्दाय नमः ।ॐ धनदाय नमः ।ॐ धीराय नमः ।ॐ रसाय नमः ।ॐ शिवतराय नमः । ॐभृगवे नमः ।

इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नामावलिः समाप्ता ।

इति श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् समाप्त

Leave a Reply

Your email address will not be published. Required fields are marked *