श्री लक्ष्मी लहरी || Shri Lakshmi Lahari

0

श्री लक्ष्मी लहरी || Shri Lakshmi Lahari || Shri Laxmi Lahari
समुन्मीलन्नीलांबुजनिकरनीराजितरुचा-

मपांगानां भृङ्गैरमृतलहरी श्रेणिमसृणैः।

ह्रिया हीनं दीनं भृशमुदरलीनं करुणया

हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥

समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः

करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि।

यमासाद्योन्माद्यद्विपनियुतगण्डस्थलगल-

न्मदक्लिन्नद्वारो भवति सुखसारो नरपतिः॥२॥

उरस्यस्य भृशन्कबरभरनिर्यत्सुमनसः

पतन्ति स्वर्बाला स्मरशरपराधीनमनसः।

सुरास्तं गायन्ति स्फुरितनुतिगंगाधरमुखा-

स्तवायं दृक्पातो यदुपरि कृपातो विलसति॥३॥

समीपे संगीतस्वरमधुरभंगी मृगदृशां

विदूरे दानान्धद्विरदकलभोद्दामनिनदः।

बहिर्द्वारे तेषां भवति हयहेषाकलकलो

दृगेषा ते येषामुपरि कमले देवि सदया ॥४॥

अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो

जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः।

उदञ्चत्पीयूषांबुधिलहरिलीलामनुहर-

न्नपाङ्गस्ते मन्दं मम कलुषबृन्दं दलयतु ॥५॥

नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-

कपर्द्दव्यावृत्तिस्फुरितफणिफूल्कारचकितः।

लसत्फुल्लांभोजम्रदिमहरणः कोपि चरण-

श्चिरश्चेतश्चारी मम भवतु वारीशदुहितुः ॥६॥

प्रवालानां दीक्षागुरुरपिच लाक्षारसरुचां

नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटु।

नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल

प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥७॥

प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये

शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः।

तदेतन्मातस्ते चरुणमरुणश्लाघ्यकरुणं

कठोरा मद्वाणी कथमियमिदानीं प्रविशतु॥८॥

स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरै-

र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः।

अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो

विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥

शरौ मायाबीजं हिमकरकलाक्रान्तशिरसौ

विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे।

जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा

मदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥१०॥

स्मरो नामं नामं त्रिजगदभिरामं तव पदं

प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु।

यया पातंपातं पदकमलयोः पर्वतचरो

हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥११॥

हरन्तो निश्शङ्कं हिमकरकलानां रुचिरतां

किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम्।

विलुम्पन्तु प्रौढा हरिहृदयहारः प्रियतमा

ममान्तः सन्तापं तव चरणशोणांबुजनखाः ॥१२॥

मिषान्माणिक्यानां विगलितनिमेषं निमिषता-

ममन्दं सौन्दर्यं तव चरणयोरंबुधिसुते।

पादालंकाराणां जयति कलनिक्वाणजुषा-

मुदञ्चन्नुद्दामस्तुतिवचनलीलाकलकलः॥१३॥

मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया

जटालं ते जंघायुगलमघभागाय भवतु।

भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां

दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥१४॥

हरन्गर्वं सर्वं करिपति कराणां मृदुतया

भृशं भाभिस्सर्वं कनकमयरंभावनिरुहां।

लसज्जानुज्योत्स्ना तरणि परिणद्धं जलधिजे

तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥१५॥

कलक्वाणां काञ्चीं मणिगणजटालामधिवह-

द्वसानः कौसुंभं वसनमसनं कौस्तुभरुचाम्।

मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं

नितंबस्ते बिम्बं हसति नवमंबाम्बरमणेः॥१६॥

जगन्मिथ्याभूतं मम निगदतां वेदवचसा-

मभिप्रायो नाद्यावधि हृदयमध्याविशदयम्।

इदानीं विश्वेषां जनकमुदरं ते विमृशतो

विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥१७॥

अनल्पैर्विदीन्द्रैरगणितमहायुक्तिनिवहै-

र्निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि।

असत्ख्यातिव्याख्याधिक चतुरमाख्यातमहिमा-

वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥१८॥

निदानं शृंगारप्रकरमकरन्दस्य कमले

महानेवालंबो हरिनयनयोरालंबवरायाः।

निधानं शोभानां निधनमनुतापस्य जगतो-

जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥१९॥

गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां

विगाढ्यां ते नाभीविमलसरसीं गौर्मम मनाक्।

पदं यावन्न्यस्यत्यहह विनिमग्नैव सहसा

न हि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥२०॥

कुचौ ते दुग्धांभोनिधिकुलशिखामण्डनमणॆ!

हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम्?।

त्रिलोकीलावण्याहरणनवलीलानिपुणयो-

र्ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः॥।२१॥

हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां

दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम्।

तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले!

मम स्वान्तध्वान्तं किमपि च नितान्तं शमयतु ॥२२॥

अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते

दयापीयूषांभोनिधिसहजसंवासभवने।

विधोश्चित्तायामे हृदयकमले ते तु कमले

मनाङ्मन्निस्तारस्मृतिरपि च कोणे निवसतु॥२३॥

मृणालीनां लीलाः सहजलवणिम्ना लघयतां

चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः।

लुठन्ती स्वच्छन्दं मरतकशिलामांसलरुचः

श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥२४॥

अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता

तथापि त्वद्धस्ते निवसदरविन्दं विकसितम्।

कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ

गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥२५॥

अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां

रसज्ञामज्ञानां क इव कमले मन्थरयतु।

तपन्तु श्री भिक्षावितरणवशीभूतजगतां

कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥२६॥

समाहारः श्रीणां विरचितविहारो हरिदृशां

परीहारो भक्तप्रभवसन्तापसरणेः।

प्रहारः सर्वासामपि च विपदां विष्णुदयिते

ममोद्धारोपायं तव सपदि हारो विमृशतु ॥२७॥

अलंकुर्वाणानां मणिगणघृणीनां लवणिमा

यदीयाभिर्नाभिर्भजति महिमानां लघुरपि।

सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-

स्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥२८॥

तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं

तवग्रीवा लक्ष्मीलवपरिचयादाप्तविभवं।

हरिः कंबुं चुंबत्यथ वहति पाणौ किमधिकं

वदामस्तत्रायं प्रणयवशतोस्यै स्पृहयति ॥२९॥

अभेदप्रत्यूहः सकलहरिल्लासनविधि-

र्विलीनो लोकानां स हि नयनतापोपि कमले।

तवास्मिन् पीयूषं किरति वदने रम्यवदने

कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥३०॥

मुखांभोजे मन्दस्मितमधुरकान्त्या विकसतां

द्विजानां ते हीरावलिविहितनीराजनरुचाम्।

इयं ज्योत्स्ना कापि स्रवदमृतसन्दोहसरसा

ममोद्यद्दारिद्र्यज्वरतरुणतापं शमयतु ॥३१॥

कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च।

प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।

वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं

तव श्वासा नासापुटविहितवासा विदधताम् ॥३२॥

कपोले ते दोलायितललितलोलालकावृते

विमुक्ताद्धम्मिल्लादभिलसितमुक्तावलिरियम् ।

स्वकीयानां बन्दीकृतमसहमानैरिव बला-

न्निबध्योर्ध्वं कृष्टं तिमिरनिकुरुंबैर्विधुकला ॥३३॥

प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-

प्रसर्पत्ज्योत्स्नाभिश्चरणतलपीठार्चितविधिः।

दृगंभोजं तत्ते गतिहसितमत्तेभगमने

वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥३४॥

दुरापा दुर्वृत्तैर्दुरितदमने दारुणभरा

दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा।

दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा

त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥३५॥

तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी

सदैव श्रीनारायणगुणगणप्रणयिनी।

रवैर्दीनां लीनामनिशमवधानातिशयिनीं

ममाप्येतां वाचं जलधितनये गोचरयताम् ॥३६॥

प्रभाजालैः प्राभातिकदिनकराभापनयनं

तवेदं खेदं मे विघटयतु ताटङ्कयुगलम्।

महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां

जगत् पायं पायं स्वपिति निरपायं तव पतिः ॥३७॥

निवासो मुक्तानां निबिडतरनीलांबुदनिभ-

स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम्।

भृशं यस्मिन् कालागरुबहुलसौरभ्यनिवहैः

पतन्ती श्रीभिक्षार्थिन इव मदान्धाः मधुलिहः ॥३८॥

विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ

करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः।

निषिञ्चन्तौ मुक्तामणिगणचयैस्त्वां जलकणै-

र्नमस्यामो दामोदरगृहिणि! दारिद्र्यदलिताः ॥३९॥

अये मातर्लक्ष्मीस्त्वदरुणपादांभोजनिकटे

लुठन्तं बालं मामविरलगलद्बाष्पजटिलं।

सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः

स्पृशन्ती मा रोदीरिति वद समाश्वास्यति कदा ॥४०॥

रमे पद्मे लक्ष्मीप्रणतजनकल्पद्रुमलते

सुधांभोधेः पुत्रि त्रिदशनिकरोपास्तचरणे।

परे नित्यं मातर्गुणमयि परब्रह्ममहिले

जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम्॥४१॥

Leave a Reply

Your email address will not be published. Required fields are marked *