श्री रामनाम महिमा – Shri Ramanama Mahima

0

राम एव परंब्रह्म राम एव परं तपः राम एव परं तत्त्वं श्रीरामो ब्रह्मतारकम् ।रामेति वर्णद्वयमादरेण सदा स्मरन् मुक्तिमुपैती जन्तुः ॥

कलौ युगे कल्मषमानसानां अन्यत्र धर्मे खलु नाधिकारः ।

निखिलनिलयमन्त्रः नित्यतत्त्वाख्यमन्त्रो ॥

भवकुलहरमन्त्रो भूमिजा प्राणमन्त्रः पवनज नुतमन्त्रः पार्वतीमोक्षमन्त्रः ।

पशुपति निजमन्त्रः पातु मां राममन्त्रः ॥

प्रणवनिलयमन्त्रः प्राणनिर्याणमन्त्रः प्रकृतिपुरुषमन्त्रो ब्रह्मरुद्रेन्द्रमन्त्रः।

प्रकटदुरितरागद्वेषनिर्नाशमन्त्रो रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥

दशरथसुतमन्त्रो दैत्यसंहारमत्रः विबुधविनुतमन्त्रो विश्वविख्यातमन्त्रः।

मुनिगणनुतमन्त्रो मुक्तिमार्गैकमन्त्रः रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥

संसारसागरभयापहविश्वमन्त्रं साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम्।

सारंगहस्तमुखहस्तनिवासमन्त्रं कैवल्यमन्त्रमनिशं भजराममन्त्रम्॥

जयतु जयतु मन्त्रो जन्मसाफल्यमन्त्रः जननमरणक्लेशविच्छेदमन्त्रः।

सकलनिगममन्त्रः सर्वशास्त्रैकमन्त्रो रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥

कल्याणानां निदानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षॊः सपदि परपदप्राप्तये प्रस्थितस्य।

विश्राम स्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवति भवतां भूतये राम नाम॥

Leave a Reply

Your email address will not be published. Required fields are marked *