शूलिनी दुर्गा सुमुखीकरण स्तोत्र || Shulini Durga Sumukhikaran Stotra

0

भगवती शूलिनी दुर्गा के दिव्य सुमुखीकरण स्तोत्र के नित्य पाठ से समस्त बाधाओं से मुक्ति मिलती है, धन एवं ऐश्वर्य का आगमन होता है। पाठ से पूर्व ‘ॐ सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हूं फट्’ मंत्र को तीन बार पढ़कर विधिवत् देवी को बलि प्रदान करें।

श्रीशूलिनीदुर्गा सुमुखीकरण स्तोत्रम्

विनियोग-

ॐ अस्य श्रीसुमुखीकरण स्तोत्रमंत्रस्य दीर्घतमा ऋषिः, ककुप् छन्दः,

श्रीशूलिनी देवता, तत्प्रसादसिद्ध्यर्थे जपे विनियोगः।

ऋष्यादिन्यास-

श्रीदीर्घतमा ऋषये नमः शिरासि। ककुप्छन्दसे नमः मुखे।

शूलिनी देवतायै नमः हृदि। तत्प्रसादसिद्धयर्थे जपे विनियोगाय नमः सर्वांगे।
श्रीदुर्गासुमुखीकरणस्तुतिः

श्रीशिव उवाच –

अथ ते शूलिनीदेव्याः सुमुखीकरणस्तुतिम् ।

प्रवक्ष्यामि समासेन सर्वकामार्थसिद्धये ॥ १॥

ऋषिर्न्यासः षडङ्गं च मूलवद् ध्यानमुच्यते ॥ २॥

ध्यानम्-

ध्यायेत् हेमसमोपलासनवरे कन्याजनालङ्कृते ।

पञ्चब्रह्ममुखामरैः मुनिवरैः सेव्ये जगन्मङ्गले ॥

आसीनां स्मितभाषिणीं शिवसखीं कल्याणवेषोज्ज्वलां।

भक्ताभीष्टवरप्रदाननिरतां विश्वात्मिकां शूलिनीम् ॥ ३॥

स्तोत्रम्- प्रत्येक श्लोक से पूर्व ‘ॐ श्रीं ह्रीं क्लीं क्ष्म्रयौं दुं’ का उच्चारण करें।

ओङ्कारमन्त्रपीठस्थे ओषधीशामृतोज्ज्वले ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४॥

श्रीपूर्णे श्रीपरे श्रीशे श्रीमये श्रीविवर्धने ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ५॥

कामेशि कामरसिके कामितार्थफलप्रदे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ६॥

मायाविलासचतुरे माये मायाधिनायिके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ७॥

चिन्तामणेऽखिलाभीष्टसिद्धिदे विश्वमङ्गले ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ८॥

सर्वबीजाधिपे सर्वसिद्धिदे सिद्धरूपिणि ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ९॥

ज्वलत्तेजस्त्रयानन्तकोटिकोटिसमद्युते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १०॥

लसच्चन्द्रार्धमकुटे लयजन्मविमोचके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ११॥

ज्वररोगमुखापत्तिभञ्जनैकधुरन्धरे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १२॥

लक्षलक्ष्ये लयातीते लक्ष्मीवर्गवरेक्षणे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १३॥

शूराङ्गनानन्तकोटिव्यापृताशेषजालके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १४॥

लिपे लिङ्गादिदिक्स्थाननियताराधनप्रिये ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १५॥

निर्मले निर्गुणे नित्ये, निष्कले निरुपद्रवे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १६॥

दुर्गे दुरितसंहारे दुष्दद्रुल (तूलान्त) पावके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १७॥

रमामये अ (उ) (र) मासेव्ये रमावर्घनतत्परे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १८॥

ग्रसिताशेषभुवन (ने) ग्रन्थिसन्ध्यर्णशोभिते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १९॥

हंसतार्क्ष्यवृषारूढैराराधितपदद्वये ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २०॥

हुङ्कारकालदहनभस्मीकृतजगत्त्रये ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २१॥

फठ्कारचण्डपवनोद्वासिताखिलविग्रहे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २२॥

स्वीकृतस्वामिपादाब्जभक्तानां स्वाभिवृद्धिदे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २३॥

हालाहलविषाकारे हाटकारुणपीठिके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २४॥

मूलादिब्रह्मरन्ध्रान्तज्वल(मूल) ज्ज्वालास्वरूपिणि ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २५॥

वषडादिक्रियाषट्कमहासिद्धिप्रदे परे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २६॥

सर्वविद्वन्मुखाम्भोजदिवाकरसमद्युते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २७॥

नानामहीपहृदयनवनीतद्रवानले ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २८॥

अशेषज्वरसर्पाग्निचन्द्रोपलशशिद्युते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २९॥

महापापौघकलुषक्षालनामृतवाहिनि ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३०॥

अशेषकायसम्भूतरोगतूलानलाकृते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३१॥

ओषधीकूटदावाग्निशान्तिसम्पूर्णंवर्षिणि ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३२॥

तिमिरारातिसंहारदिवानाथशताकृते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३३॥

सुधार्द्रजिह्वावर्त्यग्रसुदीपे विश्ववाक्प्रदे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३४॥

अरात्यवनिपानीक कुलोच्चाटमहानिले ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३५॥

समस्तमृत्युतुहिनसहस्रकिरणोपमे ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३६॥

सुभक्तहृदयानन्दसुखसंवित्स्वरूपिणि ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३७॥

जगत्सौभाग्यबलदे जङ्गमस्थावरात्मिके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३८॥

धनधान्याब्धिसंवृद्धिचन्द्रकोटिसमोदये ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३९॥

सर्वजीवात्मधेन्बग्रसमर्च्यानल(समुच्चालन) वत्सके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४०॥

तेजःकणमहावीरसमावीतान्त्यपावके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४१॥

नानाचराचरविषदाहोपशमनामृते ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४२॥

सर्वकल्याणकल्याणे सर्वसिद्धिविवर्धने ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४३॥

सर्वेशि सर्वहृदये सर्वाकारेऽनिराकृते?

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४४॥

अनन्तानन्दजनके अमृतेऽमृतनायिके । (आत्मनायिके)

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४५॥

रहस्यातिरहस्यात्मरहस्यागमपाल(लि) के ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४६॥

आचारकरणातीते आचार्यकरुणामये ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४७॥

सर्वरक्षाकरे भद्रे सर्वशिक्षाकरेऽतुले ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४८॥

सर्वलोके सर्वदेशे सर्वकाले सदाम्बिके ।

ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४९॥

आद्येऽनादिकलाविशेषविवृतेऽनन्ताखिलात्माकृते

आचार्याङ्घ्रिसरोजयुग्मशिरसामापूरिताशामृते ।

संसारार्णवतारणोद्यतकृपासम्पूर्णदृष्ट्याऽनिशं

दुर्गे शूलिनि शङ्करि स्नपय मां त्वद्भावसंसिद्धये ॥ ५०॥

इति परमशिवायाः शूलिनीदेवतायाः

स्तुतिमतिशयसौख्यप्राप्तये योऽनुवारम् ।

स्मरति जपति विद्वान् संवृतोऽशेषलोकैः

निखिलसुखमवाप्य श्रीशिवाकारमेति ॥ ५१॥

इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे

उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गासुमुखीकरणस्तुतिर्नाम

सप्तमोपदेशः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *