श्रीकृष्णस्तवराज || Sri Krishna Stavaraj
भगवान श्रीकृष्ण की प्रसन्नता व प्रीति के लिए नित्य स्तवराज का पाठ करें । यहाँ श्रीनारदपञ्चरात्र में वर्णित नारद द्वारा किया गया और कृष्णदासविरचित श्रीकृष्णस्तवराज दिया जा रहा है।
श्रीकृष्णस्तवराज
श्रीकृष्णस्तवराज श्रीमहादेव उवाच ।
श्रृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् ।
यज्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥ १॥
नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता ।
सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ॥ २॥
श्रीनारद उवाच ।
प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने ।
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३॥
अज प्रसीद भगवन्नमितद्युतिपञ्जर ।
अप्रमेयं प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ ४॥
स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।
अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ ५॥
प्रसीद तुङ्गतुङ्गानां प्रसीद शिवशोभन ।
प्रसीद गुणगम्भीर गम्भीराणां महाद्युते ॥ ६॥
प्रसीद व्यक्तं विस्तीर्णं विस्तीर्णानामगोचर ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ७॥
गुरोर्गरीयः सर्वेश प्रसीदानन्त देहिनाम् ।
जय माधव मायात्मन् जय शाश्वतशङ्खभृत् ॥ ८॥
जय शङ्खधर श्रीमन् जय नन्दकनन्दन ।
जय चक्रगदापाणे जय देव जनार्दन ॥ ९॥
जय रत्नवराबद्धकिरीटाकान्तमस्तक ।
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ १०॥
नमस्ते नरकाराते नमस्ते मधुसूदन ।
नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११॥
नमः पापहरेशान नमः सर्पभवापह ।
नमः सम्भूतसर्वात्मन्नमः सम्भृतकौस्तुभ ॥ १२॥
नमस्ते नयनातीत नमस्ते भयहारक ।
नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३॥
नमश्चिन्मूर्तिभेदेन सर्गस्थित्यन्तहेतवे ।
विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४॥
चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ ।
विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५॥
नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मिरूपिणे ।
भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥ १६॥
पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया ।
देवेश कर्म सर्वं मे भवेदाराधनं तव ॥ १७॥
इति हवनजपार्चाभेदतो विष्णुपूजा-
नियतहृदयकर्मा यस्तु मन्त्री चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा
जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८॥
गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् ।
गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥ १९॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमः ॥ २०॥
इति श्रीनारदपञ्चरात्रे श्रीकृष्णस्तवराजः सम्पूर्णः ॥
श्रीकृष्णस्तवराजः
अनन्तकन्दर्पकलाविलासं किशोरचन्द्रं रसिकेन्द्रशेखरम् ।
श्यामं महासुन्दरतानिधानं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ १॥
अनन्तविद्युद्युतिचारुपीतं कौशेयसंवीतनितम्बबिम्बम् ।
अनन्तमेघच्छविदिव्यमूर्तिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ २॥
महेन्द्रचापच्छविपिच्छचूढं कस्तूरिकाचित्रकशोभिमालम् ।
मन्दादरोद्घूर्णविशालनेत्रं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ३॥
भ्राजिष्णुगल्लं मकराङ्कितेन विचित्ररत्नोज्ज्वलकुण्डलेन ।
कोटीन्दुलावण्यमुखारविन्दं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ४॥
वृन्दाटवीमञ्जुलकुञ्जवाद्यं श्रीराधया सार्धमुदारकेलिम् ।
आनन्दपुञ्जं ललितादिदृश्यं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ५॥
महार्हकेयूरककङ्कणश्रीग्रैवेयहारावलिमुद्रिकाभिः ।
विभूषितं किङ्किणिनूपुराभ्यां श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ६॥
विचित्ररत्नोज्ज्वलदिव्यवासाप्रगीतरामागुणरूपलीलम् ।
मुहुर्मुहुः प्रोदितरोमहर्षं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ७॥
श्रीराधिकेयाधरसेवनेन माद्यन्तमुच्चै रतिकेलिलोलम् ।
स्मरोन्मदान्धं रसिकेन्द्रमौलिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ८॥
अङ्के निधाय प्रणयेन राधां मुहुर्मुहुश्चुम्बिततन्मुखेन्दुम् ।
विचित्रवेषैः कृततद्विभूषणं श्रीकृष्णचन्द्रं शरण गतोऽस्मि ॥ ९॥
इति कृष्णदासविरचितः श्रीकृष्णस्तवराजः सम्पूर्णः ।