श्री लक्ष्मी हयग्रीव पञ्चरत्नम् || Sri Lakshmi Hayagreeva Pancharatnam
श्री लक्ष्मी हयग्रीव पञ्चरत्नम् || Sri Lakshmi Hayagreeva Pancharatnam || Sri Lakshmi Hayagriva Pancharatnam
ज्ञानानन्दामलात्मा कलिकलुषमहातूल वातूल नामा,
सीमातीतात्मभूमा मम हयवदना देवता दर्विदारिः।
याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशिः,
स्मेरा सा राजराजप्रभृतिनुतपदा संपदं संविधत्ताम् ॥१॥
तारा ताराधिनाथस्फटिकमणिसुधाहीरहाराभिरामा,
रामा रत्नाब्धिधन्या कुशलिकुचपरीरंभसंरंभधन्या।
माद्याऽनन्यार्हदास्यप्रणतततिपरित्राणसत्रात्तदीक्षा,
दक्षा साक्षात्कृतैषा सपदि हयमुखी देवता साऽवतान्नः॥२॥
अन्तर्ध्वान्तस्य कल्पं निगमहृतासुरध्वंसनैकान्तकल्पं
कल्याणानां गुणानांजलधिमभिनमद्बान्धवं सैन्धवास्यम्।
शुभ्रांशु भ्राजमानं दधतमरिदरे पुस्तकंहस्तकञ्जैः,
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम तारं सदारं ॥३॥
वन्दे तं देवमाद्यम् नमदमरमहारत्नकोटिरकोटी,
वाटी निर्यत्ननिर्यत्घृणिगणमसृणीभूतपादांशुजातम्।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः,
पूज्यं प्राज्यं सभाज्यं कलिरिपु गुरुभिः शश्वदश्वोत्तमाङ्गम्॥४॥
विद्या हृद्याऽनवद्या यदनघकरुणासारप्रसारप्रसादा,
त्तीराधारा धरायामजनि जनिमतां तापनिर्वापयित्री।
श्रीकृष्णब्रह्मतन्त्रादिमपदकलिजित्संयमीन्द्रार्चितं तद्,
श्रीमद् धामादिभूप प्रथयतु कुशलं श्रीहयग्रीव नाम ॥५॥