श्री रामस्तवराज – Sri Ramastavarajah

0

अस्य श्री रामचन्द्रस्तवराजमन्त्रस्य सनत्कुमार ऋषिःश्री रामो देवता

अनुष्टुप् छन्दः

सीता बीजं

हनुमान् शक्तिः

श्रीरामप्रीत्यर्थे जपेविनियोगः

सूत उवाच-

सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतं

धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥१॥

भगवन् योगिनां श्रेष्ठ! सर्वशास्त्रविशारद ।

किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनं ।

श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ॥२॥

व्यास उवाच-

धर्मराज! महाभाग! शृणु वक्ष्यामि तत्त्वतः ॥३॥

यत् परं यद्गुणातीतं यत् ज्योतिरमलं शिवम्।

तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥४॥

श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्।

ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥५॥

श्रीराम रामेति जना ये जपन्ति च सर्वदा।

तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥६॥

स्तवराजं पुरा प्रोक्तं नारदेन च धीमता।

तत् सर्वं संप्रवक्ष्यामि हरिध्यानपुरःसरम् ॥७॥

तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनं।

दरिद्र्यदुःखदहनं सर्वसंपत्करं शिवम् ॥८॥

विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्।

नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥९॥

अयोध्या नगरे रम्ये रत्नमण्डपमध्यगे।

स्मरेत् कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥१०॥

तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितं।

स्मरेन्मध्ये दाशरथिं सहस्रादित्य तेजसम् ॥११॥

पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम्।

कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥१२॥

भानुकोटिप्रतीकाशकिरीटेन विराजितम्।

रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम्॥१३॥

रत्नकङ्कणमञ्जीरकटिसूत्रैरलंकृतम्।

श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥१४॥

दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम्।

राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥१५॥

तुलसीकुन्दमन्दारपुष्पमालैरलंकृतम्।

कर्पूरागरुकस्तूरी दिव्यगन्धानुलेपनम् ॥१६॥

योगशास्त्रेष्वभिरतं योगेशं योगदायकम्।

सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥१७॥

विद्याधरसुराधीश सिद्धगन्धर्व किन्नरैः।

योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम्॥१८॥

विश्वामित्रवसिष्ठादि मुनिभिः परिसेवितम्।

सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥१९॥

रामं रघुवरं वीरं धनुर्वेदविशारदम्।

मङ्गलायतनं देवं रामं राजीवलोचनम्॥२०॥

सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम्।

कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम्॥२१॥

एवं सञ्चिन्तयन् विष्णुं यज्ज्योतिरमलं विभुम्।

प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥२२॥

सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम्।

कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम्॥२३॥

यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम्।

यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥२४॥

विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतु।

श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि॥२५॥

कविं पुराणं पुरुषं पुरस्तात् सनातनं योगिनमीशितारम्।

अणोरणीयांसमनन्तवीर्यं’ प्राणेश्वरं राममसौ ददर्श ॥२६॥

नारायणं जगन्नाथमभिरामं जगत्पतिं।

कविं पुराणं वागीशं रामं दशरथात्मजम्॥२७॥

राजराजं रघुवरं कौसल्यानन्दवर्धनं ।

भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्॥२८॥

सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुं।

सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥२९॥

आदित्यं रविमीशानं घॄणीं सूर्यमनामयं ।

आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥३०॥

जामदग्न्यं तपोमूर्तिं रामं परशुधारिणं ।

वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्॥३१॥

श्रीशार्ङ्गधारिणं रामं चिन्मयानन्दविग्रहं।

हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥३२॥

श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतं।

मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥३३॥

वासुदेवं जगद्योनिमनादिनिधनं हरिं।

गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥३४॥

गोगोपालपरीवारं गोपकन्यासमावृतं।

विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम्॥३५॥

गोगोपिकासमाकीर्णं वेणुवादनतत्परं।

कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥३६॥

मन्मथं मथुरानाथं माधवं मकरध्वजं।

श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥३७॥

भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणं।

सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥३८॥

श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसं।

चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम्॥३९॥

आदित्यमण्डलगतं निश्चितार्थस्वरूपिणं

भक्तिप्रियं भक्तनेत्रं भक्तानामीप्सितप्रदम्॥४०॥

कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियं।

सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥४१॥

विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतं।

यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥४२॥

सत्यसन्धं जितक्रोधं शरणागतवत्सलं।

सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥४३॥

दशग्रीवहरं रौद्रं केशवं केशिमर्दनं ।

वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्॥४४॥

नरवानरदेवैश्च सेवितं हनुमत्प्रियं।

शुद्धं सूक्ष्मं परं शान्तं तारकब्रह्मरूपिणम्॥४५॥

सर्वभूतात्मभूतस्थं सर्वाधारं सनातनं।

सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥।४६॥

निरामयं निराभासं निरवद्यं निरञ्जनं।

नित्यानन्दं निराकारमद्वैतं तमसः परम्॥४७॥

परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकं।

मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्॥४८॥

सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितं।

नमामि पुण्डरीकाक्षममेयं गुरुतत्परं ॥४९॥

नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः।

नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥५०॥

नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने।

मायामयनिरासाय प्रपन्नजनसेविने ॥५१॥

वन्दामहे महीशानचण्डकोदण्डखण्डनं।

जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥५२॥

उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते

कामाय प्रमदामनोहरगुणग्रामाय रामात्मने।

योगारूढमुनीन्द्रमानससरोहंसाय संसारवि-ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥५३॥

भवोद्भवं वेदविदांवरिष्ठमादित्यचन्द्रानलसुप्रभावं।

सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात्॥५४॥

निरञ्जनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चं।

नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥५५॥

भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपं।

भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥५६॥

सर्वाधिपत्यं समराङ्गधीरं नित्यं चिदानन्दमयस्वरूपं।

सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥५७॥

कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षं।

कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥५८॥

त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुं।

महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥५९॥

वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यं।

अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥६०॥

अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनन्तमाद्यं ।

अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥६१॥

तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसापूरितविश्वमेकं।

राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥६२॥

लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दं।

अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥६३॥

योगीन्द्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवं ।

नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥६४॥

विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथं।

अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि॥६५॥

अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामं ।

समस्तसाक्षिं तमसःपरस्तान्नारायणं विष्णुमहं भजामि॥६६॥

मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुं।

परात्परं यत्परमं पवित्रं नमामि रामं महतोमहान्तम्॥६७॥

ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।

आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥६८॥

तापसा ऋषयस्सिद्धाः साध्याश्च मरुतस्तथा।

विप्रा देवास्तथा यज्ञाः पुराणा धर्मसंहिताः ॥६९॥

वर्णाश्रमास्तथा धर्मं वर्णधर्मास्तथैव च ।

यक्षराक्षसगन्धर्वा दिक्पाला दिग्गजादयः॥७०॥

सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव।

वसवोष्टा त्रयः काला रुद्रा एकादश स्मृताः ॥७१॥

तारका दशदिक्चैव त्वमेव रघुनन्दन।

सप्तद्वीपास्समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥७२॥

स्थावरा जंगमाश्चैव त्वमेव रघुनायक।

देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥७३॥

माता पिता तथा भ्राता त्वमेव रघुवल्लभ।

सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥७४॥

त्वमक्षरं परं ज्योतिः त्वमेव पुरुषोत्तम।

त्वमेव तारकं ब्रह्म त्वत्तोन्यन्नैव किञ्चन ॥७५॥

शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनं।

राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥७६॥

व्यास उवाच-

ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवं।

तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥७७॥

नारद उवाच –

यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे।

त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥७८॥

धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम

अद्य मे सफलं जन्म जीवितं सफलं च मे ॥७९॥

अद्य मे सफलं ज्ञानमद्य मे सफलं तपः।

अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ॥८०॥

अद्य मे सफ्लं सर्वं त्वन्नामस्मरणं तथा।

त्वत्पादांभोरुहद्वन्द्वसद्भक्तिं देहि राघव!

ततः परमसंप्रीतः स रामः प्राह नारदं ॥८१॥

मुनिवर्य महाभाग मुने त्विष्टं ददामि ते।

यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति ॥८२॥

नारद उवाच –

वरं न याचे रघुनाथ युष्मद्पदाब्जभक्तिः सततं ममास्तु।

इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे ॥८३॥

इत्येवमीडितो रामो प्रादात्तस्मै वरान्तरं ।

वीरो रामो महातेजाः सच्चिदानन्दविग्रहः॥८४॥

अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा ।

अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥८५॥

इति श्री रघुनाथस्य स्तवराजमनुत्तमं।

सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम्॥८६॥

कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमं।

गुह्याद्गुह्यतमं दिव्यं तव स्नेहात् प्रकीर्तितं ॥८७॥

यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।

ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥८८॥

स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा।

गोवधाद्युपपापानि अनृतात्संभवानि च ॥८९॥

सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः।

मानसं वाचिकं पापं कर्मणा समुपार्जितं॥९०॥

श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवं।

इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥९१॥

रामः सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते।

तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥९२॥

श्रीरामचन्द्र रघुपुंगव राजवर्य

राजेन्द्र राम रघुनायक राघवेश ।

राजाधिराज रघुनन्दन रामचन्द्र ।

दासोऽहमद्य भवतः शरणं गतोऽस्मि ॥९३॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम्।

अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥९४॥

रामं रत्नकुण्डलकिरीटयुतं केयूरहारान्वितं सीतालंकृतवामभागममलं सिंहासनस्थं विभुम्।

सुग्रीवादि हरीश्वरैः सुरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥९५॥

सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेन्द्रादिमानं।

अहितनृपभयानं सीतया शोभमानं स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥९६॥

रघुवर तव मूर्तिर्मामके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे।

अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे भवजलनिधिमग्नं रक्ष मामार्तबन्धो ॥९७॥

रामरत्नमहं वन्दे चित्रकूटपतिं हरिं कौसल्याभक्तिसंभूतं जानकी कण्ठभूषणम्॥९८॥

॥ इति सनत्कुमारसंहितायां नारदोक्तं श्रीरामचन्द्रस्तवराजस्तोत्रं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *