सूर्य सहस्त्रनाम स्तोत्रम् || Surya Sahastranaam Stotram By Rudrayamalatantra

0

श्रीसूर्यसहस्रनामस्तोत्रम् कि श्रृंखला में अभी तक आपने भविष्य पुराण व स्कन्दपुराणान्तर्गत सूर्य सहस्त्रनाम पढ़ा अब श्रीरुद्रयामल तन्त्र के श्रीदेवीरहस्य अंतर्गत चतुस्त्रिंशः पटलः में वर्णित श्रीसूर्यसहस्रनामस्तोत्रम् पढेंगें।

|| अथ श्रीसूर्यसहस्रनामस्तोत्रम् श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये ||

श्रीभैरव उवाच ।

देवदेवि महादेवि सर्वाभयवरप्रदे ।

त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ १॥

किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यहम् ।

श्रीदेव्युवाच ।

भगवन् देवदेवेश महारुद्र महेश्वर ॥ २॥

यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि ।

देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ ३॥

श्रीभैरव उवाच ।

एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति ।

रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ ४॥

यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः ।

कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ ५॥

यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ।

तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ ६॥

मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् ।

सर्वपापापहं देवि तन्त्रवेदागमोद्धृतम् ॥ ७॥

माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ।

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ ८॥

धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् ।

वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं परम् ॥ ९॥

ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् परम् ।

मन्त्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ १०॥

शान्तानामपि यः शान्तो मनूनामपि यो मनुः ।

योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ ११॥

ग्रहाणामपि यो भास्वान् देवानामपि वासवः ।

ताराणामपि यो राजा वायूनां च प्रभञ्जनः ॥ १२॥

इन्द्रियाणामपि मनो देवीनामपि यः परा ।

नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ १३॥

तेजसामपि यो वह्निः कारणानां च यः शिवः ।

सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ १४॥

वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् ।

सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ १५॥

सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् ।

ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ १६॥

तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तमम् ।

राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ १७॥

आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् ।

मोहनस्तम्भनाकृष्टि-वशीकरणकारणम् ॥ १८॥

अदातव्यमभक्ताय सर्वकामप्रपूरकम् ।

श्रृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ १९॥

अस्य श्रीसूर्यनामसहस्रस्य श्रीब्रह्मा ऋषिः । गायत्र्यं छन्दः ।

श्रीभगवान् सविता देवता । ह्रां बीजं । सः शक्तिः । ह्रीं कीलकं ।

धर्मार्थकाममोक्षार्थे सूर्यसहस्रनामपाठे विनियोगः ॥

ध्यानम् ॥

कल्पान्तानलकोटिभास्वरमुखं सिन्दूरधूलीजपा-

वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनम् ।

नानाभूषणभूषितं स्मितमुखं रक्ताम्बरं चिन्मयं

सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥ १॥

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।

सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ २॥

|| श्रीसूर्यसहस्रनामस्तोत्रम् ||

ॐ ह्रां ह्रीं सः हं सः सोऽहं सविता भास्करो भगः ।

भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ ३॥

भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः ।

आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ ४॥

विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः ।

विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ ५॥

प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः ।

कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ ६॥

प्रजापतिर्विश्ववन्द्यो वन्दितो भुवनेश्वरः ।

भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ ७॥

सात्त्विको राजसस्तामस्तमवी करुणानिधिः ।

सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ ८॥

निर्गुणो निर्ममो नित्यो नित्यानन्दो निराश्रयः ।

तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ ९॥

दुर्दर्शः सुदशो दाशो दीनबन्धुर्दयाकरः ।

द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ १०॥

दशांशफलदो विष्णुर्जिगीषुर्जयवाञ्जयी ।

जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ ११॥

समाहितगतिर्धाता विधाता कृतमङ्गलः ।

मार्तण्डो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ १२॥

अरातिशमनः शान्तः शङ्करः कमलासनः ।

अविचिन्त्यवपुः श्रेष्ठो महाचीनक्रमेश्वरः ॥ १३॥

महार्तिदमनो दान्तो महामोहहरो हरिः ।

नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ १४॥

कल्याणकारी कमठकर्कशः कामवल्लभः ।

व्योमचारी महान् सत्यः शम्भुरम्भोजवल्लभः ॥ १५॥

सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः ।

त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ १६॥

कालयोगी महानादो निश्चलो दृश्यरूपधृक् ।

गम्भीरघोषो निर्घोषो घटहस्तो महोमयः ॥ १७॥

रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः ।

सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ १८॥

मुण्डः कुण्डी भुजङ्गेशो रथी सुरथपूजितः ।

न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलन्धरः ॥ १९॥

शिखी चण्डी जटी ज्वाली ज्वालातेजोमयो विभुः ।

हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ २०॥

हरिद्श्वो जगद्वासी जगतां पतिरिङ्गिलः ।

विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ २१॥

विनायको विभासश्च भासो भासां पतिः प्रभुः ।

मतिमान् रतिमान् स्वक्षो विशालाक्षो विशाम्पतिः ॥ २२॥

बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः ।

गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ २३॥

गिरीशनयनावासी सर्ववासी सतीप्रियः ।

सत्यात्मकः सत्यधरः सत्यसन्धः सहस्रगुः ॥ २४॥

अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः ।

मूर्तिमान् दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ २५॥

प्राणेशो व्यानदोऽपानसमानोदानरूपवान् ।

चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ २६॥

पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः ।

अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ २७॥

द्वापरश्च कलिः कालः कालात्मा कलिनाशनः ।

मन्वन्तरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ २८॥

वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः ।

वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ २३॥

अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः ।

कल्पान्तकलनः क्रूरः कालाग्निः कालसूदनः ॥ ३०॥

महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः ।

कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ ३१॥

आकाशनिधिरूपश्च सर्वकालप्रवर्तकः ।

अचिन्त्यः सुबलो बालो बलाकावल्लभो वरः ॥ ३२॥

वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः ।

साङ्ख्येश्वरो वेदगम्यो मन्त्रेशस्तन्त्रनायकः ॥ ३३॥

कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः ।

अलसस्तुलसीसेव्यस्तुष्टा रोगनिवर्हणः ॥ ३४॥

प्रस्कन्दनो विभागश्च नीरागो दशदिक्पतिः ।

वैराग्यदो विमानस्थो रत्नकुम्भधरायुधः ॥ ३५॥

महापादो महाहस्तो महाकायो महाशयः ।

ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ ३६॥

सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् ।

कल्पवृक्षश्च मन्दारो मन्दाराचलशोभनः ॥ ३७॥

मेरुर्हिमालयो माली मलयो मलयद्रुमः ।

सन्तानकुसुमच्छन्नः सन्तानफलदो विराट् ॥ ३८॥

क्षीराम्भोधिर्घृताम्भोधिर्जलधिः क्लेशनाशनः ।

रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ ३९॥

वसन्तो मारसामन्तो ग्रीष्मः कल्मषनाशनः ।

वर्षाकालो वर्षपतिः शरदम्भोजवल्लभः ॥ ४०॥

हेमन्तो हेमकेयूरः शिशिरः शिशुवीर्यदः ।

सुमतिः सुगतिः साधुर्विष्णुः साम्बोऽम्बिकासुतः ॥ ४१॥

सारग्रीवो महाराजः सुनन्दो नन्दिसेवितः ।

सुमेरुशिखरावासी सप्तपातालगोचरः ॥ ४२॥

आकाशचारी नित्यात्मा विभुत्वविजयप्रदः ।

कुलकान्तः कुलाद्रीशो विनयी विजयी वियत् ॥ ४३॥

विश्वम्भरा वियच्चारी वियद्रूपो वियद्रथः ।

सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ ४४॥

गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः ।

आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ ४५॥

निर्जीवो जीवनो मन्त्री महार्णवनिनादभृत् ।

वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ ४६॥

न्यायनिर्वापणः शूली कपाली पद्ममध्यगः ।

त्रिकोणनिलयश्चेत्यो बिन्दुमण्डलमध्यगः ॥ ४७॥

बहुमालो महामालो दिव्यमालाधरो जपः ।

जपाकुसुमसङ्काशो जपपूजाफलप्रदः ॥ ४८॥

सहस्रमूर्धा देवेन्द्रः सहस्रनयनो रविः ।

सर्वतत्त्वाश्रयो ब्रध्नो वीरवन्द्यो विभावसुः ॥ ४९॥

विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् ।

आदिरादित्यलोकेशः सर्वगामी कलाश्रयः ॥ ५०॥

भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः ।

विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ ५१॥

रक्षःकुलैकवरदो गन्धर्वकुलपूजितः ।

अप्सरोवन्दितोऽजय्यो जेता दैत्यनिवर्हणः ॥ ५२॥

गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः ।

सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ ५३॥

ललाटाक्षो विश्वदेहो नियमी नियतेन्द्रियः ।

अर्कोऽर्ककान्तरत्रेशोऽनन्तबाहुरलोपकः ॥ ५४॥

अलिपात्रधरोऽनङ्गोऽप्यम्बरेशोऽम्बराश्रयः ।

अकारमातृकानाथो देवानामादिराकृतिः ॥ ५५॥

आरोग्यकारी चानन्दविग्रहो निग्रहो ग्रहः ।

आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ ५६॥

आकाशरूपः स्वाकार इन्द्रादिसुरपूजितः ।

इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ ५७॥

ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः ।

उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ ५८॥

उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी ।

उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ ५९॥

अनूरुसारथिश्चोष्णभानुरूकारवल्लभः ।

ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ ६०॥

लृप्ताङ्ग लॄमनुस्थायी लृलॄगण्डयुगोज्ज्वलः ।

एणाङ्कामृतदश्चीनपट्टभृद् बहुगोचरः ॥ ६१॥

एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः ।

एकारबीजरमण एऐओष्ठामृताकरः ॥ ६२॥

ओङ्कारकारणं ब्रह्म औकारौचित्यमण्डनः ।

ओऔदन्तालिरहितो महितो महतां पतिः ॥ ६३॥

अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् ।

अःस्वरूपः स्वरमयः सर्वस्वरपरात्मकः ॥ ६४॥

अंअःस्वरूपमन्त्राङ्गः कलिकालनिवर्तकः ।

कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ ६५॥

कचध्वंसी च कपिलः कनकाचलचारकः ।

कान्तः कामः कपिः क्रूरः कीरः केशिनिसूदनः ॥ ६६॥

कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली ।

कपालमोचकः काशः काश्मीरघनसारभृत् ॥ ६७॥

कूजत्किन्नरगीतेष्टः कुरुराजः कुलन्धरः ।

कुवासी कुलकौलेशः ककाराक्षरमण्डनः ॥ ६८॥

खवासी खेटकेशानः खङ्गमुण्डधरः खगः ।

खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ ६९॥

खरांशुः खेटकधरः खलहर्ता खवर्णकः ।

गन्ता गीतप्रियो गेयो गयावासी गणाश्रयः ॥ ७०॥

गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः ।

गदाधरो गदहरो गाङ्गेयवरदः प्रगी ॥ ७१॥

गिङ्गिलो गटिलो गान्तो गकाराक्षरभास्करः

घृणिमान् घुर्घुरारावो घण्टाहस्तो घटाकरः ॥ ७२॥

घनच्छन्नो घनगतिर्घनवाहनतर्पितः ।

ङान्तो ङेशो ङकाराङ्गश्चन्द्रकुङ्कुमवासितः ॥ ७३॥

चन्द्राश्रयश्चन्द्रधरोऽच्युतश्चम्पकसन्निभः ।

चामीकरप्रभश्चण्डभानुश्चण्डेशवल्लभः ॥ ७४॥

चञ्चच्चकोरकोकेष्टश्चपलश्चपलाश्रयः ।

चलत्पताकश्चण्डाद्रिश्चीवरैकधरोऽचरः ॥ ७५॥

चित्कलावर्धितश्चिन्त्यश्चिन्ताध्वंसी चवर्णवान् ।

छत्रभृच्छलहृच्छन्दच्छुरिकाच्छिन्नविग्रहः ॥ ७६॥

जाम्बूनदाङ्गदोऽजातो जिनेन्द्रो जम्बुवल्लभः ।

जम्वारिर्जङ्गिटो जङ्गी जनलोकतमोपहः ॥ ७७॥

जयकारी जगद्धर्ता जरामृत्युविनाशनः ।

जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ ७८॥

जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः ।

जकाराकारमुकुटो झञ्जाछन्नाकृतिर्झटः ॥ ७९॥

झिल्लीश्वरो झकारेशो झञ्जाङ्गुलिकराम्बुजः ।

झञाक्षराञ्चितष्टङ्कष्टिट्टिभासनसंस्थितः ॥ ८०॥

टीत्कारष्टङ्कधारी च ठःस्वरूपष्ठठाधिपः ।

डम्भरो डामरुर्डिण्डी डामरीशो डलाकृतिः ॥ ८१॥

डाकिनीसेवितो डाढी डढगुल्फाङ्गुलिप्रभः ।

णेशप्रियो णवर्णेशो णकारपदपङ्कजः ॥ ८२॥

ताराधिपेश्वरस्तथ्यस्तन्त्रीवादनतत्परः ।

त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ ८३॥

तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः ।

तन्द्राहर्ता तमोरूपस्तपसां फलदायकः ॥ ८४॥

तुट्यादिकलनाकान्तस्तकाराक्षरभूषणः ।

स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थण्डिल स्थुलः ॥ ८५॥

थकारजानुरध्यात्मा देवनायकनायकः ।

दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ ८६॥

दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः ।

द्वादशान्तैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ ८७॥

दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः ।

दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ ८८॥

दामोदरो दीधितिमान् दकाराक्षरमातृकः ।

धर्मबन्धुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ ८९॥

धनदेष्टो धनाध्यक्षो धरादर्शो धुरन्धरः ।

धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ ९०॥

धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः ।

धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ ९१॥

नमप्रियो नन्दिरुद्रो नेता नीतिप्रियो नयी ।

नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ ९२॥

नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः ।

नमोन्तो नमितारातिर्नरनारायणाश्रयः ॥ ९३॥

नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः ।

नादरूपो नादमयो नादबिन्दुस्वरूपकः ॥ ९४॥

नाथो नागपतिर्नागो नगराजाश्रितो नगः ।

नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ ९५॥

पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः ।

प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ ९६॥

परत्राता परध्वंसी पुरारिः पुरसंस्थितः ।

पूर्णानन्दमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ ९७॥

पटोलवर्णः पटिमा पाटलेशः परात्मवान् ।

परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ ९८॥

अपारपारदः पीनः पीताम्बरप्रियः पविः ।

पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ ९९॥

प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः ।

फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ १००॥

फुल्लदम्भोजमध्यस्थः फुल्लदम्भोजधारकः ।

स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ १०२॥

स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः ।

बालो बलप्रियो बान्तो बिलध्वान्तहरो बली ॥ १०३॥

बालादिर्बर्बरध्वंसी बबोलामृतपानकः ।

बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ १०४॥

बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः ।

भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ १०५॥

भाग्यदो भानुदीप्ताङ्गो भनाभिश्च भमातृकः ।

महाकालो महाध्यक्षो महानादो महामतिः ॥ १०६॥

महोज्ज्वलो मनोहारी मनोगामी मनोभवः ।

मानदो मल्लहा मल्लो मेरुमन्दरमन्दिरः ॥ १०७॥

मन्दारमालाभरणो माननीयो मनोमयः ।

मोदितो मदिराहारो मार्तण्डो मुण्डमुण्डितः ॥ १०८॥

महावराहो मीनेशो मेषगो मिथुनेष्टदः ।

मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ १०९॥

माधवो मेदिनीशश्च मधुकैटभनाशनः ।

माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ ११०॥

मुकुन्दो मुररीशानो मरालफलदो मदः ।

मदनो मोदकाहारो मकाराक्षरमातृकः ॥ १११॥

यज्वा यज्ञेश्वरो यान्तो योगिनां हृदयस्थितः ।

यात्रिको यज्ञफलदो यायी यामलनायकः ॥ ११२॥

योगनिद्राप्रियो योगकारणं योगिवत्सलः ।

यष्टिधारी च यन्त्रेशो योनिमण्डलमध्यगः ॥ ११३॥

युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः ।

योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ ११४॥

यान्तो यक्षैकतिलको यकाराक्षरभूषणः ।

रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ ११५॥

रत्नमौली रत्नतुङ्गो रत्नपीठान्तरस्थितः ।

रत्नांशुमाली रत्नाढ्यो रत्नकङ्कणनूपुरः ॥ ११६॥

रत्नाङ्गदलसद्बाहू रत्नपादुकमण्डितः ।

रोहिणीशाश्रयो रक्षाकरो रात्रिञ्चरान्तकः ॥ ११७॥

रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः ।

लक्ष्मीभानुर्लतावासी लसत्कान्तिश्च लोकभृत् ॥ ११८॥

लोकान्तकहरो लामावल्लभो लोमशोऽलिगः ।

लिङ्गेश्वरो लिङ्गनादो लीलाकारी ललम्बुसः ॥ ११९॥

लक्ष्मीवाँल्लोकविध्वंसी लकाराक्षरभूषणः ।

वामनो वीरवीरेन्द्रो वाचालो वाक्पतिप्रियः ॥ १२०॥

वाचामगोचरो वान्तो वीणावेणुधरो वनम् ।

वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ १२१॥

वकारमातृकामौलिः शाम्भवेष्टप्रदः शुकः ।

शशी शोभाकरः शान्तः शान्तिकृच्छमनप्रियः ॥ १२२॥

शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः ।

श्रुतिगम्यः शरद्बीजमण्डितः शिष्टसेवितः ॥ १२३॥

शिष्टाचारः शुभाचारः शेषः शेवालताडनः ।

शिपिविष्टः शिबिः शुक्रसेव्यः शाक्षरमातृकः ॥ १२४॥

षडाननः षट्करकः षोडशस्वरभूषितः ।

षट्पदस्वनसन्तोषी षडाम्नायप्रवर्तकः ॥ १२५॥

षड्सास्वादसन्तुष्टः षकाराक्षरमातृकः ।

सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ १२६॥

समस्तदैत्यवंशघ्नः समस्तसुरसेवितः ।

समस्तसाधकेशानः समस्तकुलशेखरः ॥ १२७॥

सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः ।

हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ १२८॥

हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः ।

ह्राम्बीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ १२९॥

ळम्बीजमण्डितः सूर्यः क्षोणीसूर्यः क्षमापतिः ।

क्षुत्सूर्यः क्षान्तसूर्यश्च ळङ्क्षःसूर्यः सदाशिवः ॥ १३०॥

अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः ।

भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ १३१॥

ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः ।

राशिसूर्यो योगसूर्यो मन्त्रसूर्यो मनूत्तमः ॥ १३२॥

तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् ।

रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ १३३॥

धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः ।

इतीदं देवदेवेशि मत्रनामसहस्रकम् ॥ १३४॥

देवदेवस्य सवितुः सूर्यस्यामिततेजसः ।

सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ १३५॥

ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् ।

सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ १३६॥

सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् ।

सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ १३७॥

सर्वरोगहरं देवि शरीरारोग्यवर्धनम् ।

प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ १३८॥

कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् ।

यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ १३९॥

तं तं प्राप्नोति सहसा पठनेनास्य पार्वति ।

यः पठेच्छ्रावयेद्वापि श्रृणोति नियतेन्द्रियः ॥ १४०॥

स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते ।

धनवाञ्जायते लोके पुत्रवान् राजवल्लभः ॥ १४१॥

आयुरारोग्यवान् नित्यं स भवेत् सम्पदां पदम् ।

रवौ पठेन्महादेवि सूर्यं सम्पूज्य कौलिकः ॥ १४२॥

सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् ।

सङ्क्रान्तौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ १४३॥

इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते ।

सप्तम्यां शुक्लपक्षे यः पठदस्तङ्गते रवौ ॥ १४४॥

सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः ।

व्यतीपाते पठेद् देवि मध्याह्ने संयतेन्द्रियः ॥ १४५॥

धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः ।

चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ १४६॥

रवीभूत्वा महाचीनक्रमाचारविचक्षणः ।

सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ १४७॥

यः पठेत् परदेशस्थो वटुकार्चनतत्परः ।

कान्ताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ १४८॥

शतावर्तं पठेद्यस्तु सूर्योदययुगान्तरे ।

सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ १४९॥

बहुनात्र किमुक्तेन पठनादस्य पार्वति ।

इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पदम् ॥ १५०॥

रवौ देवि लिखेद्भूर्जे मन्त्रनामसहस्रकम् ।

अष्टगन्धेन दिव्येन नीलपुष्पहरिद्रया ॥ १५१॥

पञ्चामृतौषधीभिश्च नृयुक्पीयूषबिन्दुभिः ।

विलिख्य विधिवन्मन्त्री यन्त्रमध्येऽर्णवेष्टितम् ॥ १५२॥

गुटीं विधाय संवेष्ट्य मूलमन्त्रमनुस्मरन् ।

कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ १५३॥

सुवर्णेन च संवेष्ट्य पञ्चगव्येन शोधयेत् ।

साधयेन्मन्त्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ १५४॥

किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् ।

कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ १५५॥

भगन्धरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् ।

मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ १५६॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी ।

धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ १५७॥

वन्ध्या लभेत् सुतं कान्तं काकवन्ध्यापि पार्वति ।

मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ १५८ ॥

रणे गत्वा गुटीं धृत्वा शत्रूञ्जित्वा लभेच्छ्रियम् ।

अक्षताङ्गो महाराजः सुखी स्वपुरमाविशेत् ॥ १५९॥

यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् ।

गुटिकां मोहनाकर्षस्तम्भनोच्चाटनक्षमाम् ॥ १५०॥

स भवेत् सूर्यसङ्काशो महसा महसां निधिः ।

धनेन धनदो देवि विभवेन च शङ्करः ॥ १६१॥

श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः ।

गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ १६२॥

बलेन वायुसङ्काशो दयया पुरुषोत्तमः ।

आरोग्येण घटोद्भूतिः कान्त्या पूर्णेन्दुसन्निभः ॥ १६३॥

धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः ।

गाम्भीर्येण तथाम्भोधिर्दातृत्वेन बलिः स्वयम् ॥ १६४॥

सिद्ध्या श्रीभैरवः साक्षादानन्देन चिदीश्वरः ।

किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ १६५॥

श्रृणुयाद् यः परं दिव्यं सूर्यनामसहस्रकम् ।

स भवेद् भास्करः साक्षात् परमानन्दविग्रहः ॥ १६६॥

स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पदम् ।

इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ १६७॥

अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने ।

अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ १६८॥

कर्कशायाकुलीनाय दुर्जनायाघबुद्धये ।

गुरुभक्तिविहीनाय निन्दकाय शिवागमे ॥ १६९॥

देयं शिष्याय शान्ताय गुरुभक्तिपराय च ।

कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ १७०॥

इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् ।

सर्वमन्त्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७१॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये

सूर्यसहस्रनामस्तोत्रनामनिरूपणं चतुस्त्रिंशः पटलः सम्पूर्णः ॥ ३४॥

Leave a Reply

Your email address will not be published. Required fields are marked *