योनि कवचम्, Yoni Kavacham अस्य श्री योनीकवचस्य गुप्त ऋषिः

0

यह कवच वीर साधना के अंतर्गत शय्या साधना व सौभाग्यार्चन के समय अवश्य पढ़ना चाहिये |

विनियोगः

अस्य श्री योनीकवचस्य गुप्त ऋषिः,

कुलटा छन्दोराज, विघ्नोत्पादविनाशे पाठे विनियोगः |

ह्रीं योनिर्मे सदापातु स्वाहा विघ्ननाशिनी |

शत्रुनाशत्मिका योनि ! सदा मां रक्ष सागरे ||

ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु |

राजद्वारे महाघोरे क्लीं योनि सर्वदाऽवतु ||

हूमात्मिका सदा देवी योनिरुपा जगन्मयी |

सर्वाङ्गे रक्ष नित्यं सभायां राजवेश्मनि ||

वेदात्मिका सदा योनिर्वेदरुपा सरस्वती |

कीर्ति श्री कान्तिमारोग्यं पुत्रपौत्रादिकं तथा ||

रक्ष रक्ष महाघोरे सर्वसिद्धि प्रदायिनी |

रजोयोगात्मिका योनि सर्वत्र मां सदाऽवतू ||

|| फलश्रुति ||

इति ते कथितं देवि कवचं सर्वसिद्धिदम् |

त्रिसन्ध्यं यः पठेन्नित्यं रजोपद्रवनाशकृत् ||

सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् |

सर्वत्र जयामाप्नोति कवचस्य जपेंन हि ||

श्रीयोन्यासङ्गमे देवि पठेदेनमनन्य धीः |

स एव सर्वसिद्धिशो नात्र कार्या विचारणा ||

मातृकाक्षर सम्पुटैः कृत्वा यदि पठेन्नरः |

भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते ||

अतिगुह्यतमं देवि सर्व धर्म उत्तमं |

भूर्जे वा तालपत्रे वा लिखित्वा धारयेद् यदि ||

हरिचन्दन मिश्रेण रोचयेत् कुंकुमेन च |

शिखायामथवा कण्ठे सोऽपीश्वरो न संशयः ||

|| इति शक्तिकागल सर्वस्वे हरगौरी संवादे योनि कवचम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *