श्री शिव सहस्रनाम स्तोत्रम् व श्री शिव सहस्रनामावली || Shri Shiv Sahastranam Stotram And Namavali
शिवजी सहस्त्र नाम जिसे की आपने पूर्व क्रम में पढ़ा – तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे । इसी श्रृंखला के अन्तर्गत अब यहाँ श्लोक क्रम से श्रीशिवसहस्रनामस्तोत्रम् और इसी का केवल नामावली क्रम – श्रीशिवसहस्रनामावलि दिया जा रहा है।
|| श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली ||
अथ श्रीशिवसहस्रनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
पूर्वपीठिका
ॐ ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
ऋषय ऊचुः-
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
श्रीसूत उवाच-
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
श्रीस्कन्द उवाच-
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
तव नामान्यनन्तानि सन्ति यद्यपि शङ्कर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
श्रीसूत उवाच-
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
श्रीसदाशिव उवाच-
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीं त्वया पृष्टं तद्वक्ष्ये श्रृणु सादरम् ॥ १२॥
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसङ्ख्यया ॥ १६॥
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
स्पृष्ट्वा मल्लिङ्गममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥
ॐ सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुऋषिः अनुष्टुप् छन्दः परमात्मा श्रीसदाशिवो देवता महेश्वर इति बीजम् गौरी शक्तिः महेश एव संसेव्यः सर्वैरिति कीलकम् श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ।
॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चाङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
ॐ नमो भगवते रुद्राय ।
|| श्रीशिवसहस्रनामस्तोत्रम् ||
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥
आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥
रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥
सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ ६॥
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥
प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥
वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥
आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥
पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥
प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥
वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥
शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥
आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥
तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥
स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥
सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥
दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥
आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥
सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥
अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः ॥ २३॥
मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥
शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥
आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ २६॥
शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥
वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥
यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥
पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥
निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥
लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥
भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥
मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥
निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥
सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥
समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥
विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ ३९॥
भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥
मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥
दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥
यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥
ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥
कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥
पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥
जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥
कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥
कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥
विराड्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥
महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥
महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥
सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥
कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥
व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥
विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥
नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥
क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥
गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥
वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥
कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥
विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥
या
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥
शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥
हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥
ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥
सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥
जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥
वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥
पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥
ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥
प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥
अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥
कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥
स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥
सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥
लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥
शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥
जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥
पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥
कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥
सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥
ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥
पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥
सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥
निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥
वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥
महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥
लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥
वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥
बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥
पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥
कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥
मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥
अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥
भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥
आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥
अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥
अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥
अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥
परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥
सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥
अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥
अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥
गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥
विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः ॥ ११५॥
रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥
गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ ११८॥
रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥
लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥
कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥
सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ १२३॥
अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥
सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥
शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥
भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥
आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥
व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥
वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥
हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥
मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥
मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥
महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥
श्रीपरब्रह्म सदाशिव ॐ नम इति ।
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासनः ॥ २॥
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
न तेषां दृश्यते भयम् ॐ नम इति ।
श्रीसूत उवाच-
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
श्रीस्कन्द उवाच-
नमस्ते नमस्ते महादेव शम्भो
नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो
नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
नमस्ते नमस्ते महामृत्युहारिन्
नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन्
नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
नमस्ते नमस्ते सदा चन्द्रमौले
नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने
नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
वेदान्तवेद्याय महादयाय
कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमःशिवाय ॥ १२॥
ॐ नमःशिवाय इति
श्रीसूत उवाच-
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं
शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् ।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः
सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
साम्ब शम्भो महादेव दयासागर शङ्कर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपङ्कजे ॥ २२॥
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
सदाशिवायेति समर्पयामि ॥ २६॥
॥ इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
|| श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली ||
अथ श्री शिव सहस्र नामावली
१. ॐ हिरण्यबाहवे नमः । २. ॐ सेनान्ये नमः । ३. ॐ दिक्पतये नमः । ४. ॐ तरुराजे नमः । ५. ॐ हराय नमः । ६. ॐ हरिकेशाय नमः । ७. ॐ पशुपतये नमः । ८. ॐ महते नमः । ९. ॐ सस्पिञ्जराय नमः । १०. ॐ मृडाय नमः । ११. ॐ विव्याधिने नमः । १२. ॐ बभ्लुशाय नमः । १३. ॐ श्रेष्ठाय नमः । १४. ॐ परमात्मने सनातनाय नमः । १५. ॐ सर्वान्नराजे नमः । १६. ॐ जगत्कर्त्रे नमः । १७. ॐ पुष्टेशाय नमः । १८. ॐ नन्दिकेश्वराय नमः । १९. ॐ आतताविने नमः । २०. ॐ महारुद्राय नमः । २१. ॐ संसारास्त्राय नमः । २२. ॐ सुरेश्वराय नमः । २३. ॐ उपवीतये नमः । २४. ॐ अहन्त्यात्मने नमः । २५. ॐ क्षेत्रेशाय नमः । २६. ॐ वननायकाय नमः । २७. ॐ रोहिताय नमः । २८. ॐ स्थपतये नमः । २९. ॐ सूताय नमः । ३०. ॐ वाणिजाय नमः । ३१. ॐ मन्त्रिणे नमः । ३२. ॐ उन्नताय नमः । ३३. ॐ वृक्षेशाय नमः । ३४. ॐ हुतभुजे नमः । ३५. ॐ देवाय नमः । ३६. ॐ भुवन्तये नमः । ३७. ॐ वारिवस्कृताय नमः । ३८. ॐ उच्चैर्घोषाय नमः । ३९. ॐ घोररूपाय नमः । ४०. ॐ पत्तीशाय नमः । ४१. ॐ पाशमोचकाय नमः । ४२. ॐ ओषधीशाय नमः । ४३. ॐ पञ्चवक्त्राय नमः । ४४. ॐ कृत्स्नवीताय नमः । ४५. ॐ भयानकाय नमः । ४६. ॐ सहमानाय नमः । ४७. ॐ स्वर्णरेतसे नमः । ४८. ॐ निव्याधये नमः । ४९. ॐ निरुपप्लवाय नमः । ५०. ॐ आव्याधिनीशाय नमः । ५१. ॐ ककुभाय नमः । ५२. ॐ निषंगिणे नमः । ५३. ॐ स्तेनरक्षकाय नमः । ५४. ॐ मन्त्रात्मने नमः । ५५. ॐ तस्कराध्यक्षाय नमः । ५६. ॐ वञ्चकाय नमः । ५७. ॐ परिवञ्चकाय नमः । ५८. ॐ अरण्येशाय नमः । ५९. ॐ परिचराय नमः । ६०. ॐ निचेरवे नमः । ६१. ॐ स्तायुरक्षकाय नमः । ६२. ॐ प्रकृन्तेशाय नमः । ६३. ॐ गिरिचराय नमः । ६४. ॐ कुलुञ्चेशाय नमः । ६५. ॐ गुहेष्टदाय नमः । ६६. ॐ भवाय नमः । ६७. ॐ शर्वाय नमः । ६८. ॐ नीलकण्ठाय नमः । ६९. ॐ कपर्दिने नमः । ७०. ॐ त्रिपुरान्तकाय नमः । ७१. ॐ व्युप्तकेशाय नमः । ७२. ॐ गिरिशयाय नमः । ७३. ॐ सहस्राक्षाय नमः । ७४. ॐ सहस्रपदे नमः । ७५. ॐ शिपिविष्टाय नमः । ७६. ॐ चन्द्रमौलये नमः । ७७. ॐ ह्रस्वाय नमः । ७८. ॐ मीढुष्टमाय नमः । ७९. ॐ अनघाय नमः । ८०. ॐ वामनाय नमः । ८१. ॐ व्यापकाय नमः । ८२. ॐ शूलिने नमः । ८३. ॐ वर्षीयसे नमः । ८४. ॐ अजडाय नमः । ८५. ॐ अनणवे नमः । ८६. ॐ ऊर्व्याय नमः । ८७. ॐ सूर्म्याय नमः । ८८. ॐ अग्रियाय नमः । ८९. ॐ शीभ्याय नमः । ९०. ॐ प्रथमाय नमः । ९१. ॐ पावकाकृतये नमः । ९२. ॐ आचाराय नमः । ९३. ॐ तारकाय नमः । ९४. ॐ ताराय नमः । ९५. ॐ अवस्वन्याय नमः । ९६. ॐ अनन्तविग्रहाय नमः । ९७. ॐ द्वीप्याय नमः । ९८. ॐ स्रोतस्याय नमः । ९९. ॐ ईशानाय नमः । १००. ॐ धुर्याय नमः । १०१. ॐ गव्ययनाय नमः । १०२. ॐ यमाय नमः । १०३. ॐ पूर्वजाय नमः । १०४. ॐ अपरजाय नमः । १०५. ॐ ज्येष्ठाय नमः । १०६. ॐ कनिष्ठाय नमः । १०७. ॐ विश्वलोचनाय नमः । १०८. ॐ अपगल्भाय नमः । १०९. ॐ मध्यमाय नमः । ११०. ॐ ऊर्म्याय नमः । १११. ॐ जघन्याय नमः । ११२. ॐ बुध्नियाय नमः । ११३. ॐ प्रभवे नमः । ११४. ॐ प्रतिसर्याय नमः । ११५. ॐ अनन्तरूपाय नमः । ११६. ॐ सोभ्याय नमः । ११७. ॐ याम्याय नमः । ११८. ॐ सुराश्रयाय नमः । ११९. ॐ खल्याय नमः । १२०. ॐ उर्वर्याय नमः । १२१. ॐ अभयाय नमः । १२२. ॐ क्षेम्याय नमः । १२३. ॐ श्लोक्याय नमः । १२४. ॐ पथ्याय नभसे नमः । १२५. ॐ अग्रण्ये नमः । १२६. ॐ वन्याय नमः । १२७. ॐ अवसान्याय नमः । १२८. ॐ पूतात्मने नमः । १२९. ॐ शर्वाय नमः । १३०. ॐ कक्ष्याय नमः । १३१. ॐ प्रतिश्रवाय नमः । १३२. ॐ आशुषेणाय नमः । १३३. ॐ महासेनाय नमः । १३४. ॐ महावीराय नमः । १३५. ॐ महारथाय नमः । १३६. ॐ शूराय नमः । १३७. ॐ अतिघातकाय नमः । १३८. ॐ वर्मिणे नमः । १३९. ॐ वरूथिने नमः । १४०. ॐ बील्मिने नमः । १४१. ॐ उद्यताय नमः । १४२. ॐ श्रुतसेनाय नमः । १४३. ॐ श्रुताय नमः । १४४. ॐ साक्षिणे नमः । १४५. ॐ कवचिने नमः । १४६. ॐ वशकृते वशिने नमः । १४७. ॐ आहनन्याय नमः । १४८. ॐ अनन्यनाथाय नमः । १४९. ॐ दुन्दुभ्याय नमः । १५०. ॐ अरिष्टनाशकाय नमः । १५१. ॐ धृष्णवे नमः । १५२. ॐ प्रमृशाय नमः । १५३. ॐ इत्यात्मने नमः । १५४. ॐ वदान्याय नमः । १५५. ॐ वेदसम्मताय नमः । १५६. ॐ तीक्ष्णेषुपाणये नमः । १५७. ॐ प्रहिताय नमः । १५८. ॐ स्वायुधाय नमः । १५९. ॐ शस्त्रवित्तमाय नमः । १६०. ॐ सुधन्वने नमः । १६१. ॐ सुप्रसन्नात्मने नमः । १६२. ॐ विश्ववक्त्राय नमः । १६३. ॐ सदागतये नमः । १६४. ॐ स्रुत्याय नमः । १६५. ॐ पथ्याय नमः । १६६. ॐ विश्वबाहवे नमः । १६७. ॐ काट्याय नमः । १६८. ॐ नीप्याय नमः । १६९. ॐ शुचिस्मिताय नमः । १७०. ॐ सूद्याय नमः । १७१. ॐ सरस्याय नमः । १७२. ॐ वैशन्ताय नमः । १७३. ॐ नाद्याय नमः । १७४. ॐ कूप्याय नमः । १७५. ॐ ऋषये नमः । १७६. ॐ मनवे नमः । १७७. ॐ सर्वस्मै नमः । १७८. ॐ वर्ष्याय नमः । १७९. ॐ वर्षरूपाय नमः । १८०. ॐ कुमाराय नमः । १८१. ॐ कुशलाय नमः । १८२. ॐ अमलाय नमः । १८३. ॐ मेघ्याय नमः । १८४. ॐ अवर्ष्याय नमः । १८५. ॐ अमोघशक्तये नमः । १८६. ॐ विद्युत्याय नमः । १८७. ॐ अमोघविक्रमाय नमः । १८८. ॐ दुरासदाय नमः । १८९. ॐ दुराराध्याय नमः । १९०. ॐ निर्द्वन्द्वाय नमः । १९१. ॐ दुःसहर्षभाय नमः । १९२. ॐ ईध्रियाय नमः । १९३. ॐ क्रोधशमनाय नमः । १९४. ॐ जातुकर्णाय नमः । १९५. ॐ पुरुष्टुताय नमः । १९६. ॐ आतप्याय नमः । १९७. ॐ वायवे नमः । १९८. ॐ अजराय नमः । १९९. ॐ वात्याय नमः । २००. ॐ कात्यायनीप्रियाय नमः । २०१. ॐ वास्तव्याय नमः । २०२. ॐ वास्तुपाय नमः । २०३. ॐ रेष्म्याय नमः । २०४. ॐ विश्वमूर्ध्ने नमः । २०५. ॐ वसुप्रदाय नमः । २०६. ॐ सोमाय नमः । २०७. ॐ ताम्राय नमः । २०८. ॐ अरुणाय नमः । २०९. ॐ शंगाय नमः । २१०. ॐ रुद्राय नमः । २११. ॐ सुखकराय नमः । २१२. ॐ सुकृते नमः । २१३. ॐ उग्राय नमः । २१४. ॐ अनुग्राय नमः । २१५. ॐ भीमकर्मणे नमः । २१६. ॐ भीमाय नमः । २१७. ॐ भीमपराक्रमाय नमः । २१८. ॐ अग्रेवधाय नमः । २१९. ॐ हनीयात्मने नमः । २२०. ॐ हन्त्रे नमः । २२१. ॐ दूरेवधाय नमः । २२२. ॐ वधाय नमः । २२३. ॐ शम्भवे नमः । २२४. ॐ मयोभवाय नमः । २२५. ॐ नित्याय नमः । २२६. ॐ शंकराय नमः । २२७. ॐ कीर्तिसागराय नमः । २२८. ॐ मयस्कराय नमः । २२९. ॐ शिवतराय नमः । २३०. ॐ खण्डपर्शवे नमः । २३१. ॐ अजाय नमः । २३२. ॐ शुचये नमः । २३३. ॐ तीर्थ्याय नमः । २३४. ॐ कूल्याय नमः । २३५. ॐ अमृताधीशाय नमः । २३६. ॐ पार्याय नमः । २३७. ॐ अवार्याय नमः । २३८. ॐ अमृताकराय नमः । २३९. ॐ शुद्धाय नमः । २४०. ॐ प्रतरणाय नमः । २४१. ॐ मुख्याय नमः । २४२. ॐ शुद्धपाणये नमः । २४३. ॐ अलोलुपाय नमः । २४४. ॐ उच्चाय नमः । २४५. ॐ उत्तरणाय नमः । २४६. ॐ तार्याय नमः । २४७. ॐ तार्यज्ञाय नमः । २४८. ॐ तार्यहृद्गतये नमः । २४९. ॐ आतार्याय नमः । २५०. ॐ सारभूतात्मने नमः । २५१. ॐ सारग्राहिणे नमः । २५२. ॐ दुरत्ययाय नमः । २५३. ॐ आलाद्याय नमः । २५४. ॐ मोक्षदाय पथ्याय नमः । २५५. ॐ अनर्थघ्ने नमः । २५६. ॐ सत्यसंगराय नमः । २५७. ॐ शष्प्याय नमः । २५८. ॐ फेन्याय नमः । २५९. ॐ प्रवाह्याय नमः । २६०. ॐ ऊढ्रे नमः । २६१. ॐ सिकत्याय नमः । २६२. ॐ सैकताश्रयाय नमः । २६३. ॐ इरिण्याय नमः । २६४. ॐ ग्रामण्ये नमः । २६५. ॐ पुण्याय नमः । २६६. ॐ शरण्याय नमः । २६७. ॐ शुद्धशासनाय नमः । २६८. ॐ वरेण्याय नमः । २६९. ॐ यज्ञपुरुषाय नमः । २७०. ॐ यज्ञेशाय नमः । २७१. ॐ यज्ञनायकाय नमः । २७२. ॐ यज्ञकत्रे नमः । २७३. ॐ यज्ञभोक्त्रे नमः । २७४. ॐ यज्ञविघ्नविनाशकाय नमः । २७५. ॐ यज्ञकर्मफलाध्यक्षाय नमः । २७६. ॐ यज्ञमूर्तये नमः । २७७. ॐ अनातुराय नमः । २७८. ॐ प्रपथ्याय नमः । २७९. ॐ किंशिलाय नमः । २८०. ॐ गेह्याय नमः । २८१. ॐ गृह्याय नमः । २८२. ॐ तल्प्याय नमः । २८३. ॐ धनाकराय नमः । २८४. ॐ पुलस्त्याय नमः । २८५. ॐ क्षयणाय नमः । २८६. ॐ गोष्ठ्याय नमः । २८७. ॐ गोविन्दाय नमः । २८८. ॐ गीतसत्क्रियाय नमः । २८९. ॐ ह्रदय्याय नमः । २९०. ॐ हृद्यकृते नमः । २९१. ॐ हृद्याय नमः । २९२. ॐ गह्वरेष्ठाय नमः । २९३. ॐ प्रभाकराय नमः । २९४. ॐ निवेष्प्याय नमः । २९५. ॐ नियताय नमः । २९६. ॐ अयन्त्रे नमः । २९७. ॐ पांसव्याय नमः । २९८. ॐ सम्प्रतापनाय नमः । २९९. ॐ शुष्क्याय नमः । ३००. ॐ हरित्याय नमः । ३०१. ॐ अपूतात्मने नमः । ३०२. ॐ रजस्याय नमः । ३०३. ॐ सात्त्विकप्रियाय नमः । ३०४. ॐ लोप्याय नमः । ३०५. ॐ उलप्याय नमः । ३०६. ॐ पर्णशद्याय नमः । ३०७. ॐ पर्ण्याय नमः । ३०८. ॐ पूर्णाय नमः । ३०९. ॐ पुरातनाय नमः । ३१०. ॐ भूताय नमः । ३११. ॐ भूतपतये नमः । ३१२. ॐ भूपाय नमः । ३१३. ॐ भूधराय नमः । ३१४. ॐ भूधरायुधाय नमः । ३१५. ॐ भूतसंघाय नमः । ३१६. ॐ भूतमूर्तये नमः । ३१७. ॐ भूतघ्ने नमः । ३१८. ॐ भूतिभूषणाय नमः । ३१९. ॐ मदनाय नमः । ३२०. ॐ मादकाय नमः । ३२१. ॐ माद्याय नमः । ३२२. ॐ मदघ्ने नमः । ३२३. ॐ मधुरप्रियाय नमः । ३२४. ॐ मधवे नमः । ३२५. ॐ मधुकराय नमः । ३२६. ॐ क्रूराय नमः । ३२७. ॐ मधुराय नमः । ३२८. ॐ मदनान्तकाय नमः । ३२९. ॐ निरञ्जनाय नमः । ३३०. ॐ निराधाराय नमः । ३३१. ॐ निर्लुप्ताय नमः । ३३२. ॐ निरुपाधिकाय नमः । ३३३. ॐ निष्प्रपञ्चाय नमः । ३३४. ॐ निराकाराय नमः । ३३५. ॐ निरीहाय नमः । ३३६. ॐ निरुपद्रवाय नमः । ३३७. ॐ सत्त्वाय नमः । ३३८. ॐ सत्त्वगुणोपेताय नमः । ३३९. ॐ सत्त्वविदे नमः । ३४०. ॐ सत्त्ववित्प्रियाय नमः । ३४१. ॐ सत्त्वनिष्ठाय नमः । ३४२. ॐ सत्त्वमूर्तये नमः । ३४३. ॐ सत्त्वेशाय नमः । ३४४. ॐ सत्त्ववित्तमाय नमः । ३४५. ॐ समस्तजगदाधाराय नमः । ३४६. ॐ समस्तगुणसागराय नमः । ३४७. ॐ समस्तदुःखविध्वंसिने नमः । ३४८. ॐ समस्तानन्दकारणाय नमः । ३४९. ॐ रुद्राक्षमालाभरणाय नमः । ३५०. ॐ रुद्राक्षप्रियवत्सलाय नमः । ३५१. ॐ रुद्राक्षवक्षसे नमः । ३५२. ॐ रुद्राक्षरूपाय नमः । ३५३. ॐ रुद्राक्षपक्षकाय नमः । ३५४. ॐ विश्वेश्वराय नमः । ३५५. ॐ वीरभद्राय नमः । ३५६. ॐ सम्राजे नमः । ३५७. ॐ दक्षमखान्तकाय नमः । ३५८. ॐ विघ्नेश्वराय नमः । ३५९. ॐ विघ्नकर्त्रे नमः । ३६०. ॐ गुरवे देवशिखामणये नमः । ३६१. ॐ भुजगेन्द्रलसत्कण्ठाय नमः । ३६२. ॐ भुजंगाभरणप्रियाय नमः । ३६३. ॐ भुजंगविलसत्कर्णाय नमः । ३६४. ॐ भुजंगवलयावृताय नमः । ३६५. ॐ मुनिवन्द्याय नमः । ३६६. ॐ मुनिश्रेष्ठाय नमः । ३६७. ॐ मुनिवृन्दनिषेविताय नमः । ३६८. ॐ मुनिहृत्पुण्डरीकस्थाय नमः । ३६९. ॐ मुनिसंघैकजीवनाय नमः । ३७०. ॐ मुनिमृग्याय नमः । ३७१. ॐ वेदमृग्याय नमः । ३७२. ॐ मृगहस्ताय नमः । ३७३. ॐ मुनीश्वराय नमः । ३७४. ॐ मृगेन्द्रचर्मवसनाय नमः । ३७५. ॐ नरसिंहनिपातनाय नमः । ३७६. ॐ मृत्युञ्जयाय नमः । ३७७. ॐ मृत्युमृत्यवे नमः । ३७८. ॐ अपमृत्युविनाशकाय नमः । ३७९. ॐ दुष्टमृत्यवे नमः । ३८०. ॐ अदुष्टेष्टाय नमः । ३८१. ॐ मृत्युघ्ने मृत्युपूजिताय नमः । ३८२. ॐ ऊर्ध्वाय नमः । ३८३. ॐ हिरण्याय नमः । ३८४. ॐ परमाय नमः । ३८५. ॐ निधनेशाय नमः । ३८६. ॐ धनाधिपाय नमः । ३८७. ॐ यजुर्मूर्तये नमः । ३८८. ॐ साममूर्तये नमः । ३८९. ॐ ऋङ्मूर्तये नमः । ३९०. ॐ मूर्तिवर्जिताय नमः । ३९१. ॐ व्यक्ताय नमः । ३९२. ॐ व्यक्ततमाय नमः । ३९३. ॐ अव्यक्ताय नमः । ३९४. ॐ व्यक्ताव्यक्ताय नमः । ३९५. ॐ तमसे नमः । ३९६. ॐ जविने नमः । ३९७. ॐ लिङ्गमूर्तये नमः । ३९८. ॐ अलिङ्गात्मने नमः । ३९९. ॐ लिङ्गालिङ्गात्मविग्रहाय नमः । ४००. ॐ ग्रहग्रहाय नमः । ४०१. ॐ ग्रहाधाराय नमः । ४०२. ॐ ग्रहाकाराय नमः । ४०३. ॐ ग्रहेश्वराय नमः । ४०४. ॐ ग्रहकृते नमः । ४०५. ॐ ग्रहभिदे नमः । ४०६. ॐ ग्राहिणे नमः । ४०७. ॐ ग्रहाय नमः । ४०८. ॐ ग्रहविलक्षणाय नमः । ४०९. ॐ कल्पाकाराय नमः । ४१०. ॐ कल्पकर्त्रे नमः । ४११. ॐ कल्पलक्षणतत्पराय नमः । ४१२. ॐ कल्पाय नमः । ४१३. ॐ कल्पाकृतये नमः । ४१४. ॐ कल्पनाशकाय नमः । ४१५. ॐ कल्पकल्पकाय नमः । ४१६. ॐ परमात्मने नमः । ४१७. ॐ प्रधानात्मने नमः । ४१८. ॐ प्रधानपुरुषाय नमः । ४१९. ॐ शिवाय नमः । ४२०. ॐ वेद्याय नमः । ४२१. ॐ वैद्याय नमः । ४२२. ॐ वेदवेद्याय नमः । ४२३. ॐ वेदवेदान्तसंस्तुताय नमः । ४२४. ॐ वेदवक्त्राय नमः । ४२५. ॐ वेदजिह्वाय नमः । ४२६. ॐ विजिह्वाय नमः । ४२७. ॐ जिह्मनाशकाय नमः । ४२८. ॐ कल्याणरूपाय नमः । ४२९. ॐ कल्याणाय नमः । ४३०. ॐ कल्याणगुणसंश्रयाय नमः । ४३१. ॐ भक्तकल्याणदाय नमः । ४३२. ॐ भक्तकामधेनवे नमः । ४३३. ॐ सुराधिपाय नमः । ४३४. ॐ पावनाय नमः । ४३५. ॐ पावकाय नमः । ४३६. ॐ वामाय नमः । ४३७. ॐ महाकालाय नमः । ४३८. ॐ मदापहाय नमः । ४३९. ॐ घोरपातकदावाग्नये नमः । ४४०. ॐ दवभस्मकणप्रियाय नमः । ४४१. ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः । ४४२. ॐ जगदेकप्रभवे नमः । ४४३. ॐ स्वामिने नमः । ४४४. ॐ जगद्वन्द्याय नमः । ४४५. ॐ जगन्मयाय नमः । ४४६. ॐ जगदानन्ददाय नमः । ४४७. ॐ जन्मजरामरणवर्जिताय नमः । ४४८. ॐ खट्वाङ्गिने नमः । ४४९. ॐ नीतिमते नमः । ४५०. ॐ सत्याय नमः । ४५१. ॐ देवतात्मने नमः । ४५२. ॐ आत्मसम्भवाय नमः । ४५३. ॐ कपालमालाभरणाय नमः । ४५४. ॐ कपालिने नमः । ४५५. ॐ विष्णुवल्लभाय नमः । ४५६. ॐ कमलासनकालाग्नये नमः । ४५७. ॐ कमलासनपूजिताय नमः । ४५८. ॐ कालाधीशाय नमः । ४५९. ॐ त्रिकालज्ञाय नमः । ४६०. ॐ दुष्टविग्रहवारकाय नमः । ४६१. ॐ नाट्यकर्त्रे नमः । ४६२. ॐ नटपराय नमः । ४६३. ॐ महानाट्यविशारदाय नमः । ४६४. ॐ विराट्द्रूपधराय नमः । ४६५. ॐ धीराय नमः । ४६६. ॐ वीराय नमः । ४६७. ॐ वृषभवाहनाय नमः । ४६८. ॐ वृषांकाय नमः । ४६९. ॐ वृषभाधीशाय नमः । ४७०. ॐ वृषात्मने नमः । ४७१. ॐ वृषभध्वजाय नमः । ४७२. ॐ महोन्नताय नमः । ४७३. ॐ महाकायाय नमः । ४७४. ॐ महावक्षसे नमः । ४७५. ॐ महाभुजाय नमः । ४७६. ॐ महास्कन्धाय नमः । ४७७. ॐ महाग्रीवाय नमः । ४७८. ॐ महावक्त्राय नमः । ४७९. ॐ महाशिरसे नमः । ४८०. ॐ महाहनवे नमः । ४८१. ॐ महादंष्ट्राय नमः । ४८२. ॐ महदोष्ठाय नमः । ४८३. ॐ महोदराय नमः । ४८४. ॐ सुन्दरभ्रुवे नमः । ४८५. ॐ सुनयनाय नमः । ४८६. ॐ सुललाटय नमः । ४८७. ॐ सुकन्दराय नमः । ४८८. ॐ सत्यवाक्याय नमः । ४८९. ॐ धर्मवेत्त्रे नमः । ४९०. ॐ सत्यज्ञाय नमः । ४९१. ॐ सत्यवित्तमाय नमः । ४९२. ॐ धर्मवते नमः । ४९३. ॐ धर्मनिपुणाय नमः । ४९४. ॐ धर्माय नमः । ४९५. ॐ धर्मप्रवर्तकाय नमः । ४९६. ॐ कृतज्ञाय नमः । ४९७. ॐ कृतकृत्यात्मने नमः । ४९८. ॐ कृतकृत्याय नमः । ४९९. ॐ कृतागमाय नमः । ५००. ॐ कृत्यविदे नमः । ५०१. ॐ कृत्यविच्छ्रेष्ठाय नमः । ५०२. ॐ कृतज्ञप्रियकृत्तमाय नमः । ५०३. ॐ व्रतकृते नमः । ५०४. ॐ व्रतविच्छ्रेष्ठाय नमः । ५०५. ॐ व्रतविदुषे नमः । ५०६. ॐ महाव्रतिने नमः । ५०७. ॐ व्रतप्रियाय नमः । ५०८. ॐ व्रताधाराय नमः । ५०९. ॐ व्रताकाराय नमः । ५१०. ॐ व्रतेश्वराय नमः । ५११. ॐ अतिरागिणे नमः । ५१२. ॐ वीतरागिणे नमः । ५१३. ॐ रागहेतवे नमः । ५१४. ॐ विरागविदे नमः । ५१५. ॐ रागघ्नाय नमः । ५१६. ॐ रागशमनाय नमः । ५१७. ॐ रागदाय नमः । ५१८. ॐ रागिरागविदे नमः । ५१९. ॐ विदुषे नमः । ५२०. ॐ विद्वत्तमाय नमः । ५२१. ॐ विद्वज्जनमानससंश्रयाय नमः । ५२२. ॐ विद्वज्जनाश्रयाय नमः । ५२३. ॐ विद्वज्जनस्तव्यपराक्रमाय नमः । ५२४. ॐ नीतिकृते नमः । ५२५. ॐ नीतिविदे नमः । ५२६. ॐ नीतिप्रदात्रे नमः । ५२७. ॐ नीतिवित्प्रियाय नमः । ५२८. ॐ विनीतवत्सलाय नमः । ५२९. ॐ नीतिस्वरूपाय नमः । ५३०. ॐ नीतिसंश्रयाय नमः । ५३१. ॐ क्रोधविदे नमः । ५३२. ॐ क्रोधकृते नमः । ५३३. ॐ क्रोधिजनकृते नमः । ५३४. ॐ क्रोधरूपधृषे नमः । ५३५. ॐ सक्रोधाय नमः । ५३६. ॐ क्रोधघ्ने नमः । ५३७. ॐ क्रोधिजनघ्ने नमः । ५३८. ॐ क्रोधकारणाय नमः । ५३९. ॐ गुणवते नमः । ५४०. ॐ गुणविच्छ्रेष्ठाय नमः । ५४१. ॐ निर्गुणाय नमः । ५४२. ॐ गुणवित्प्रियाय नमः । ५४३. ॐ गुणाधाराय नमः । ५४४. ॐ गुणाकाराय नमः । ५४५. ॐ गुणकृते नमः । ५४६. ॐ गुणनाशकाय नमः । ५४७. ॐ वीर्यवते नमः । ५४८. ॐ वीर्यविच्छ्रेष्ठाय नमः । ५४९. ॐ वीर्यविदे नमः । ५५०. ॐ वीर्यसंश्रयाय नमः । ५५१. ॐ वीर्याकाराय नमः । ५५२. ॐ वीर्यकराय नमः । ५५३. ॐ वीर्यघ्ने नमः । ५५४. ॐ वीर्यवर्धकाय नमः । ५५५. ॐ कालविदे नमः । ५५६. ॐ कालकृते नमः । ५५७. ॐ कालाय नमः । ५५८. ॐ बलकृते नमः । ५५९. ॐ बलविदे नमः । ५६०. ॐ बलिने नमः । ५६१. ॐ मनोन्मनाय नमः । ५६२. ॐ मनोरूपाय नमः । ५६३. ॐ बलप्रमथनाय नमः । ५६४. ॐ बलाय नमः । ५६५. ॐ विश्वप्रदात्रे अथवा विद्याप्रदात्रे नमः । ५६६. ॐ विश्वेशाय अथवा विद्येशाय नमः । ५६७. ॐ विश्वमात्रैकसंश्रयाय अथवा विद्यामात्रैकसंश्रयाय नमः । ५६८. ॐ विश्वकाराय अथवा विद्याकाराय नमः । ५६९. ॐ महाविश्वाय अथवा महाविद्याय नमः । ५७०. ॐ विश्वविश्वाय अथवा विद्याविद्याय नमः । ५७१. ॐ विशारदाय नमः । ५७२. ॐ वसन्तकृते नमः । ५७३. ॐ वसन्तात्मने नमः । ५७४. ॐ वसन्तेशाय नमः । ५७५. ॐ वसन्तदाय नमः । ५७६. ॐ ग्रीष्मात्मने नमः । ५७७. ॐ ग्रीष्मकृते नमः । ५७८. ॐ ग्रीष्मवर्धकाय नमः । ५७९. ॐ ग्रीष्मनाशकाय नमः । ५८०. ॐ प्रावृट्कृते नमः । ५८१. ॐ प्रावृडाकाराय नमः । ५८२. ॐ प्रावृट्कालप्रवर्तकाय नमः । ५८३. ॐ प्रावृट्प्रवर्धकाय नमः । ५८४. ॐ प्रावृण्णाथाय नमः । ५८५. ॐ प्रावृड्-विनाशकाय नमः । ५८६. ॐ शरदात्मने नमः । ५८७. ॐ शरद्धेतवे नमः । ५८८. ॐ शरत्कालप्रवर्तकाय नमः । ५८९. ॐ शरन्नाथाय नमः । ५९०. ॐ शरत्कालनाशकाय नमः । ५९१. ॐ शरदाश्रयाय नमः । ५९२. ॐ हिमस्वरूपाय नमः । ५९३. ॐ हिमदाय नमः । ५९४. ॐ हिमघ्ने नमः । ५९५. ॐ हिमनायकाय नमः । ५९६. ॐ शैशिरात्मने नमः । ५९७. ॐ शैशिरेशाय नमः । ५९८. ॐ शैशिरर्तुप्रवर्तकाय नमः । ५९९. ॐ प्राच्यात्मने नमः । ६००. ॐ दक्षिणाकाराय नमः । ६०१. ॐ प्रतीच्यात्मने नमः । ६०२. ॐ उत्तराकृतये नमः । ६०३. ॐ आग्नेयात्मने नमः । ६०४. ॐ निरृतीशाय नमः । ६०५. ॐ वायव्यात्मने नमः । ६०६. ॐ ईशनायकाय नमः । ६०७. ॐ ऊर्ध्वाधःसुदिगाकाराय नमः । ६०८. ॐ नानादेशैकनायकाय नमः । ६०९. ॐ सर्वपक्षिमृगाकाराय नमः । ६१०. ॐ सर्वपक्षिमृगाधिपाय नमः । ६११. ॐ सर्वपक्षिमृगाधाराय नमः । ६१२. ॐ मृगाद्युत्पत्तिकारणाय नमः । ६१३. ॐ जीवाध्यक्षाय नमः । ६१४. ॐ जीववन्द्याय नमः । ६१५. ॐ जीवविदे नमः । ६१६. ॐ जीवरक्षकाय । ६१७. ॐ जीवकृते नमः । ६१८. ॐ जीवघ्ने नमः । ६१९. ॐ जीवजीवनाय नमः । ६२०. ॐ जीवसंश्रयाय नमः । ६२१. ॐ ज्योतिःस्वरूपिणे नमः । ६२२. ॐ विश्वात्मने नमः । ६२३. ॐ विश्वनाथाय नमः । ६२४. ॐ वियत्पतये नमः । ६२५. ॐ वज्रात्मने नमः । ६२६. ॐ वज्रहस्तात्मने नमः । ६२७. ॐ वज्रेशाय नमः । ६२८. ॐ वज्रभूषिताय नमः । ६२९. ॐ कुमारगुरवे ईशानाय नमः । ६३०. ॐ गणाध्यक्षाय नमः । ६३१. ॐ गणाधिपाय नमः । ६३२. ॐ पिनाकपाणये नमः । ६३३. ॐ सूर्यात्मने नमः । ६३४. ॐ सोमसूर्याग्निलोचनाय नमः । ६३५. ॐ अपायरहिताय नमः । ६३६. ॐ शान्ताय नमः । ६३७. ॐ दान्ताय नमः । ६३८. ॐ दमयित्रे नमः । ६३९. ॐ दमाय नमः । ६४०. ॐ ऋषये नमः । ६४१. ॐ पुराणपुरुषाय नमः । ६४२. ॐ पुरुषेशाय नमः । ६४३. ॐ पुरन्दराय नमः । ६४४. ॐ कालाग्निरुद्राय नमः । ६४५. ॐ सर्वेशाय नमः । ६४६. ॐ शमरूपाय नमः । ६४७. ॐ शमेश्वराय नमः । ६४८. ॐ प्रलयानलकृते नमः । ६४९. ॐ दिव्याय नमः । ६५०. ॐ प्रलयानलनाशकाय नमः । ६५१. ॐ त्रियम्बकाय नमः । ६५२. ॐ अरिषड्वर्गनाशकाय नमः । ६५३. ॐ धनदप्रियाय नमः । ६५४. ॐ अक्षोभ्याय नमः । ६५५. ॐ क्षोभरहिताय नमः । ६५६. ॐ क्षोभदाय नमः । ६५७. ॐ क्षोभनाशकाय नमः । ६५८. ॐ सदम्भाय नमः । ६५९. ॐ दम्भरहिताय नमः । ६६०. ॐ दम्भदाय नमः । ६६१. ॐ दम्भनाशकाय नमः । ६६२. ॐ कुन्देन्दुशंखधवलाय नमः । ६६३. ॐ भस्मोद्धूलितविग्रहाय नमः । ६६४. ॐ भस्मधारणहृष्टात्मने नमः । ६६५. ॐ तुष्टये नमः । ६६६. ॐ पुष्टये नमः । ६६७. ॐ अरिसूदनाय नमः । ६६८. ॐ स्थाणवे नमः । ६६९. ॐ दिगम्बराय नमः । ६७०. ॐ भर्गाय नमः । ६७१. ॐ भगनेत्रभिदे नमः । ६७२. ॐ उद्यमाय नमः । ६७३. ॐ त्रिकाग्नये नमः । ६७४. ॐ कालकालाग्नये नमः । ६७५. ॐ अद्वितीयाय नमः । ६७६. ॐ महायशसे नमः । ६७७. ॐ सामप्रियाय नमः । ६७८. ॐ सामवेत्रे नमः । ६७९. ॐ सामगाय नमः । ६८०. ॐ सामगप्रियाय नमः । ६८१. ॐ धीरोदात्ताय नमः । ६८२. ॐ महाधीराय नमः । ६८३. ॐ धैर्यदाय नमः । ६८४. ॐ धैर्यवर्धकाय नमः । ६८५. ॐ लावण्यराशये नमः । ६८६. ॐ सर्वज्ञाय सुबुद्धये नमः । ६८७. ॐ बुद्धिमते वराय नमः । ६८८. ॐ तुम्बवीणाय नमः । ६८९. ॐ कम्बुकण्ठाय नमः । ६९०. ॐ शम्बरारिनिकृन्तनाय नमः । ६९१. ॐ शार्दूलचर्मवसनाय नमः । ६९२. ॐ पूर्णानन्दाय नमः । ६९३. ॐ जगत्प्रियाय नमः । ६९४. ॐ जयप्रदाय नमः । ६९५. ॐ जयाध्यक्षाय नमः । ६९६. ॐ जयात्मने नमः । ६९७. ॐ जयकारणाय नमः । ६९८. ॐ जङ्गमाजङ्गमाकाराय नमः । ६९९. ॐ जगदुत्पत्तिकारणाय नमः । ७००. ॐ जगद्रक्षाकराय नमः । ७०१. ॐ वश्याय नमः । ७०२. ॐ जगत्प्रलयकारणाय नमः । ७०३. ॐ पूषदन्तभिदे नमः । ७०४. ॐ उत्कृष्टाय नमः । ७०५. ॐ पञ्चयज्ञाय नमः । ७०६. ॐ प्रभञ्जकाय नमः । ७०७. ॐ अष्टमूर्तये नमः । ७०८. ॐ विश्वमूर्तये नमः । ७०९. ॐ अतिमूर्तये नमः । ७१०. ॐ अमूर्तिमते नमः । ७११. ॐ कैलासशिखरावासाय नमः । ७१२. ॐ कैलासशिखरप्रियाय नमः । ७१३. ॐ भक्तकैलासदाय नमः । ७१४. ॐ सूक्ष्माय नमः । ७१५. ॐ मर्मज्ञाय नमः । ७१६. ॐ सर्वशिक्षकाय नमः । ७१७. ॐ सोमाय सोमकलाकाराय नमः । ७१८. ॐ महातेजसे नमः । ७१९. ॐ महातपसे नमः । ७२०. ॐ हिरण्यश्मश्रवे नमः । ७२१. ॐ आनन्दाय नमः । ७२२. ॐ स्वर्णकेशाय नमः । ७२३. ॐ सुवर्णदृशे नमः । ७२४. ॐ ब्रह्मणे नमः । ७२५. ॐ विश्वसृजे नमः । ७२६. ॐ उर्वीशाय नमः । ७२७. ॐ मोचकाय नमः । ७२८. ॐ बन्धवर्जिताय नमः । ७२९. ॐ स्वतन्त्राय नमः । ७३०. ॐ सर्वमन्त्रात्मने नमः । ७३१. ॐ श्वुतिमते अमितप्रभाय नमः । ७३२. ॐ पुष्कराक्षाय नमः । ७३३. ॐ पुण्यकीर्तये नमः । ७३४. ॐ पुण्यश्रवणकीर्तनाय नमः । ७३५. ॐ पुण्यमूर्तये नमः । ७३६. ॐ पुण्यदात्रे नमः । ७३७. ॐ पुण्यापुण्यफलप्रदाय नमः । ७३८. ॐ सारभूताय नमः । ७३९. ॐ स्वरमयाय नमः । ७४०. ॐ रसभूताय नमः । ७४१. ॐ रसाश्रयाय नमः । ७४२. ॐ ॐकाराय नमः । ७४३. ॐ प्रणवाय नमः । ७४४. ॐ नादाय नमः । ७४५. ॐ प्रणतार्तिप्रभञ्जनाय नमः । ७४६. ॐ निकटस्थाय नमः । ७४७. ॐ अतिदूरस्थाय नमः । ७४८. ॐ वशिने नमः । ७४९. ॐ ब्रह्माण्डनायकाय नमः । ७५०. ॐ मन्दारमूलनिलयाय नमः । ७५१. ॐ मन्दारकुसुमावृताय नमः । ७५२. ॐ वृन्दारकप्रियतमाय नमः । ७५३. ॐ वृन्दारकवरार्चिताय नमः । ७५४. ॐ श्रीमते नमः । ७५५. ॐ अनन्तकल्याणपरिपूर्णाय नमः । ७५६. ॐ महोदयाय नमः । ७५७. ॐ महोत्साहाय नमः । ७५८. ॐ विश्वभोक्त्रे नमः । ७५९. ॐ विश्वाशापरिपूरकाय नमः । ७६०. ॐ सुलभाय नमः । ७६१. ॐ असुलभाय नमः । ७६२. ॐ लभ्याय नमः । ७६३. ॐ अलभ्याय नमः । ७६४. ॐ लाभप्रवर्धकाय नमः । ७६५. ॐ लाभात्मने नमः । ७६६. ॐ लाभदाय नमः । ७६७. ॐ वक्त्रे नमः । ७६८. ॐ द्युतिमते नमः । ७६९. ॐ अनसूयकाय नमः । ७७०. ॐ ब्रह्मचारिणे नमः । ७७१. ॐ दृढाचारिणे नमः । ७७२. ॐ देवसिंहाय नमः । ७७३. ॐ धनप्रियाय नमः । ७७४. ॐ वेदपाय नमः । ७७५. ॐ देवदेवेशाय नमः । ७७६. ॐ देवदेवाय नमः । ७७७. ॐ उत्तमोत्तमाय नमः । ७७८. ॐ बीजराजाय नमः । ७७९. ॐ बीजहेतवे नमः । ७८०. ॐ बीजदाय नमः । ७८१. ॐ बीजवृद्धिदाय नमः । ७८२. ॐ बीजाधाराय नमः । ७८३. ॐ बीजरूपाय नमः । ७८४. ॐ निर्बीजाय नमः । ७८५. ॐ बीजनाशकाय नमः । ७८६. ॐ परापरेशाय नमः । ७८७. ॐ वरदाय नमः । ७८८. ॐ पिङ्गलाय नमः । ७८९. ॐ अयुग्मलोचनाय नमः । ७९०. ॐ पिङ्गलाक्षाय नमः । ७९१. ॐ सुरगुरवे नमः । ७९२. ॐ गुरवे नमः । ७९३. ॐ सुरगुरुप्रियाय नमः । ७९४. ॐ युगावहाय नमः । ७९५. ॐ युगाधीशाय नमः । ७९६. ॐ युगकृते नमः । ७९७. ॐ युगनाशकाय नमः । ७९८. ॐ कर्पूरगौराय नमः । ७९९. ॐ गौरीशाय नमः । ८००. ॐ गौरीगुरुगुहाश्रयाय नमः । ८०१. ॐ धूर्जटये नमः । ८०२. ॐ पिङ्गलजटाय नमः । ८०३. ॐ जटामण्डलमण्डिताय नमः । ८०४. ॐ मनोजवाय नमः । ८०५. ॐ जीवहेतवे नमः । ८०६. ॐ अन्धकासुरसूदनाय नमः । ८०७. ॐ लोकबन्धवे नमः । ८०८. ॐ कलाधाराय नमः । ८०९. ॐ पाण्डुराय नमः । ८१०. ॐ प्रमथाधिपाय नमः । ८११. ॐ अव्यक्तलक्षणाय नमः । ८१२. ॐ योगिने नमः । ८१३. ॐ योगीशाय नमः । ८१४. ॐ योगपुंगवाय नमः । ८१५. ॐ श्रितावासाय नमः । ८१६. ॐ जनावासाय नमः । ८१७. ॐ सुरावासाय नमः । ८१८. ॐ सुमण्डलाय नमः । ८१९. ॐ भववैद्याय नमः । ८२०. ॐ योगिवेद्याय नमः । ८२१. ॐ योगिसिंहहृदासनाय नमः । ८२२. ॐ उत्तमाय नमः । ८२३. ॐ अनुत्तमाय नमः । ८२४. ॐ अशक्ताय नमः । ८२५. ॐ कालकण्ठाय नमः । ८२६. ॐ विषादनाय नमः । ८२७. ॐ आशास्याय नमः । ८२८. ॐ कमनीयात्मने नमः । ८२९. ॐ शुभाय नमः । ८३०. ॐ सुन्दरविग्रहाय नमः । ८३१. ॐ भक्तकल्पतरवे नमः । ८३२. ॐ स्तोत्रे नमः । ८३३. ॐ स्तव्याय नमः । ८३४. ॐ स्तोत्रवरप्रियाय नमः । ८३५. ॐ अप्रमेयगुणाधाराय नमः । ८३६. ॐ वेदकृते नमः । ८३७. ॐ वेदविग्रहाय नमः । ८३८. ॐ कीर्त्याधाराय नमः । ८३९. ॐ कीर्तिकराय नमः । ८४०. ॐ कीर्तिहेतवे नमः । ८४१. ॐ अहेतुकाय नमः । ८४२. ॐ अप्रधृष्याय नमः । ८४३. ॐ शान्तभद्राय नमः । ८४४. ॐ कीर्तिस्तम्भाय नमः । ८४५. ॐ मनोमयाय नमः । ८४६. ॐ भूशयाय नमः । ८४७. ॐ अन्नमयाय नमः । ८४८. ॐ अभोक्त्रे नमः । ८४९. ॐ महेष्वासाय नमः । ८५०. ॐ महीतनवे नमः । ८५१. ॐ विज्ञानमयाय नमः । ८५२. ॐ आनन्दमयाय नमः । ८५३. ॐ प्राणमयाय नमः । ८५४. ॐ अन्नदाय नमः । ८५५. ॐ सर्वलोकमयाय नमः । ८५६. ॐ यष्ट्रे नमः । ८५७. ॐ धर्माधर्मप्रवर्तकाय नमः । ८५८. ॐ अनिर्विण्णाय नमः । ८५९. ॐ गुणग्राहिणे नमः । ८६०. ॐ सर्वधर्मफलप्रदाय नमः । ८६१. ॐ दयासुधार्द्रनयनाय नमः । ८६२. ॐ निराशिषे नमः । ८६३. ॐ अपरिग्रहाय नमः । ८६४. ॐ परार्थवृत्तये मधुराय नमः । ८६५. ॐ मधुरप्रियदर्शनाय नमः । ८६६. ॐ मुक्तादामपरीताङ्गाय नमः । ८६७. ॐ निःसङ्गाय नमः । ८६८. ॐ मङ्गलाकराय नमः । ८६९. ॐ सुखप्रदाय नमः । ८७०. ॐ सुखाकाराय नमः । ८७१. ॐ सुखदुःखविवर्जिताय नमः । ८७२. ॐ विश्रृङ्खलाय नमः । ८७३. ॐ जगते नमः । ८७४. ॐ कर्त्रे नमः । ८७५. ॐ जितसर्वाय नमः । ८७६. ॐ पितामहाय नमः । ८७७. ॐ अनपायाय नमः । ८७८. ॐ अक्षयाय नमः । ८७९. ॐ मुण्डिने नमः । ८८०. ॐ सुरूपाय नमः । ८८१. ॐ रूपवर्जिताय नमः । ८८२. ॐ अतीन्द्रियाय नमः । ८८३. ॐ महामायाय नमः । ८८४. ॐ मायाविने नमः । ८८५. ॐ विगतज्वराय नमः । ८८६. ॐ अमृताय नमः । ८८७. ॐ शाश्वताय शान्ताय नमः । ८८८. ॐ मृत्युघ्ने नमः । ८८९. ॐ मूकनाशनाय नमः । ८९०. ॐ महाप्रेतासनासीनाय नमः । ८९१. ॐ पिशाचानुचरावृताय नमः । ८९२. ॐ गौरीविलाससदनाय नमः । ८९३. ॐ नानागानविशारदाय नमः । ८९४. ॐ विचित्रमाल्यवसनाय नमः । ८९५. ॐ दिव्यचन्दनचर्चिताय नमः । ८९६. ॐ विष्णुब्रह्मादिवन्द्यांघ्रये नमः । ८९७. ॐ सुरासुरनमस्कृताय नमः । ८९८. ॐ किरीटलेढिफालेन्दवे नमः । ८९९. ॐ मणिकंकणभूषिताय नमः । ९००. ॐ रत्नांगदांगाय नमः । ९०१. ॐ रत्नेशाय नमः । ९०२. ॐ रत्नरञ्जितपादुकाय नमः । ९०३. ॐ नवरत्नगणोपेतकिरीटिने नमः । ९०४. ॐ रत्नकञ्चुकाय नमः । ९०५. ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः । ९०६. ॐ दिव्यरत्नगणाकीर्णकण्ठाभरणभूषिताय नमः । ९०७. ॐ गलव्यालमणये नमः । ९०८. ॐ नासापुटभ्राजितमौक्तिकाय नमः । ९०९. ॐ रत्नांगुलीयविलसत्करशाखानखप्रभाय नमः । ९१०. ॐ रत्नभ्राजद्धेमसूत्रलसत्कटितटाय नमः । ९११. ॐ पटवे नमः । ९१२. ॐ वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियाय नमः । ९१३. ॐ लीलावलंबितवपुषे नमः । ९१४. ॐ भक्तमानसमन्दिराय नमः । ९१५. ॐ मन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः । ९१६. ॐ कस्तूरीविलसत्फालाय नमः । ९१७. ॐ दिव्यवेषविराजिताय नमः । ९१८. ॐ दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः । ९१९. ॐ देवासुरगुरुस्तव्याय नमः । ९२०. ॐ देवासुरनमस्कृताय नमः । ९२१. ॐ हस्तराजत्पुण्डरीकाय नमः । ९२२. ॐ पुण्डरीकनिभेक्षणाय नमः । ९२३. ॐ सर्वाशास्यगुणाय नमः । ९२४. ॐ अमेयाय नमः । ९२५. ॐ सर्वलोकेष्टभूषणाय नमः । ९२६. ॐ सर्वेष्टदात्रे नमः । ९२७. ॐ सर्वेष्टाय नमः । ९२८. ॐ स्फुरन्मङ्गलविग्रहाय नमः । ९२९. ॐ अविद्यालेशरहिताय नमः । ९३०. ॐ नानाविद्यैकसंश्रयाय नमः । ९३१. ॐ मूर्तिभवाय नमः । ९३२. ॐ कृपापूराय नमः । ९३३. ॐ भक्तेष्टफलपूरकाय नमः । ९३४. ॐ सम्पूर्णकामाय नमः । ९३५. ॐ सौभाग्यनिधये नमः । ९३६. ॐ सौभाग्यदायकाय नमः । ९३७. ॐ हितैषिणे नमः । ९३८. ॐ हितकृते नमः । ९३९. ॐ सौम्याय नमः । ९४०. ॐ परार्थैकप्रयोजनाय नमः । ९४१. ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः । ९४२. ॐ जिष्णवे नमः । ९४३. ॐ नेत्रे नमः । ९४४. ॐ वषट्काराय नमः । ९४५. ॐ भ्राजिष्णवे नमः । ९४६. ॐ भोजनाय नमः । ९४७. ॐ हविषे नमः । ९४८. ॐ भोक्त्रे नमः । ९४९. ॐ भोजयित्रे नमः । ९५०. ॐ जेत्रे नमः । ९५१. ॐ जितारये नमः । ९५२. ॐ जितमानसाय नमः । ९५३. ॐ अक्षराय नमः । ९५४. ॐ कारणाय नमः । ९५५. ॐ क्रुद्धसमराय नमः । ९५६. ॐ शारदप्लवाय नमः । ९५७. ॐ आज्ञापकेच्छाय नमः । ९५८. ॐ गम्भीराय नमः । ९५९. ॐ कवये नमः । ९६०. ॐ दुःस्वप्ननाशकाय नमः । ९६१. ॐ पञ्चब्रह्मसमुत्पत्तये नमः । ९६२. ॐ क्षेत्रज्ञाय नमः । ९६३. ॐ क्षेत्रपालकाय नमः । ९६४. ॐ व्योमकेशाय नमः । ९६५. ॐ भीमवेषाय नमः । ९६६. ॐ गौरीपतये नमः । ९६७. ॐ अनामयाय नमः । ९६८. ॐ भवाब्धितरणोपायाय नमः । ९६९. ॐ भगवते नमः । ९७०. ॐ भक्तवत्सलाय नमः । ९७१. ॐ वराय नमः । ९७२. ॐ वरिष्ठाय नमः । ९७३. ॐ नेदिष्ठाय नमः । ९७४. ॐ प्रियाय नमः । ९७५. ॐ प्रियदवाय नमः । ९७६. ॐ सुधिये नमः । ९७७. ॐ यन्त्रे नमः । ९७८. ॐ यविष्ठाय नमः । ९७९. ॐ क्षोदिष्ठाय नमः । ९८०. ॐ स्थविष्ठाय नमः । ९८१. ॐ यमशासकाय नमः । ९८२. ॐ हिरण्यगर्भाय नमः । ९८३. ॐ हेमांगाय नमः । ९८४. ॐ हेमरूपाय नमः । ९८५. ॐ हिरण्यदाय नमः । ९८६. ॐ ब्रह्मज्योतिषे नमः । ९८७. ॐ अनावेक्ष्याय नमः । ९८८. ॐ चामुण्डाजनकाय नमः । ९८९. ॐ रवये नमः । ९९०. ॐ मोक्षार्थिजनसंसेव्याय नमः । ९९१. ॐ मोक्षदाय नमः । ९९२. ॐ मोक्षनायकाय नमः । ९९३. ॐ महाश्मशाननिलयाय नमः । ९९४. ॐ वेदाश्वाय नमः । ९९५. ॐ भूरथाय नमः । ९९६. ॐ स्थिराय नमः । ९९७. ॐ मृगव्याधाय नमः । ९९८. ॐ चर्मधाम्ने नमः । ९९९. ॐ प्रच्छन्नाय नमः । १०००. ॐ स्फटिकप्रभाय नमः । १००१. ॐ सर्वज्ञाय नमः । १००२. ॐ परमार्थात्मने नमः । १००३. ॐ ब्रह्मानन्दाश्रयाय नमः । १००४. ॐ विभवे नमः । १००५. ॐ महेश्वराय नमः । १००६. ॐ महादेवाय नमः । १००७. ॐ परब्रह्मणे नमः । १००८. ॐ सदाशिवाय नमः ।
॥ इति श्री शिव सहस्र नामावली सम्पूर्णम् ॥
॥ इतिश्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली सम्पूर्णम् ॥