शिव सहस्रनाम स्तोत्रम् श्री शिव रहस्यान्तर्गतम् || Shiv Sahastranama Stotram

0

शिवजी के सहस्त्र नाम श्रृंखला में आपने पूर्व में तंडिकृत शिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत शिवसहस्रनामस्तोत्रम् स्कन्दकृतशिवसहस्रनामस्तोत्रम् पढ़ा । इस क्रम की श्रृंखला को आगे बढ़ाते हुए यहाँ शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम् दिया जा रहा है।

अथ शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्

॥ शिवरहस्ये पञ्चमांशे चत्वारिंशोऽध्यायः ॥

देवी –

श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम ।

प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥ १॥

शेषेण नामसाहत्रैस्त्वं स्तुतः कथमीश्वर ।

तन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥ २॥

सूतः –

तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् ।

प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥ ३॥

तदा देव्या महादेवः प्रार्थितः सर्वकामदः ।

भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥ ४॥

फणीशो मुखसाहस्रैत्र्यानि नामानि चोक्त्तवान् ।

तानि वः सम्प्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥ ५॥

ईश्वरः –

ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके ।

सहस्रनाम्नां पुण्यं मे फणिन्द्रः कृतवानुमे ॥ ६॥

ऋषिस्तस्य हि शेषोऽयं छन्दोऽनुष्टुप् प्रकीर्तितम् ।

देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥ ७॥

ध्यानं ते कथयाम्यद्य श्रूणु त्वमगकन्यके ।

कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं

नन्द्याद्यैर्गणपैः सदा परिवृतं वन्दे शिवं सुन्दरम् ।

भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं

स्कन्दाद्यैर्गजवक्त्र (?) सेवितपदं ध्यायामि सांबं सदा ॥ ८॥

एवं मामबिके ध्यात्वा नामानि प्रजपेत्ततः ।

हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥ ९॥

पुण्यकालेषु सर्वेषु सोमवारे विशेषतः ।

बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥ १०॥

पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे ।

यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥ ११॥

धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा ।

राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १२॥

श‍ृणु देवि परं पुण्यं मातृकानामनुत्तमम् ।

सहस्रं प्रजपेन्नित्र्यं धर्मकामार्थमोक्षभाक् ॥ १३॥

ईश्वरः –

ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः ।

ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥ १४॥

ओंकारकुण्डनिलयलिङ्गपृजनपापहृत् ।

नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥ १५॥

नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः ।

महेन्द्रनिलयो मानि मानसान्तरपापभित् ॥ १६॥

मयस्करो महायोगी मायाचक्रप्रवर्तकः ।

शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥ १७॥

धनुःशरकरो ध्याता धर्माधर्मप्रायाणः ।

आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥ १८॥

ईशान ईड्य ईघ्र्यश्च इभमस्तकसंस्तुतः ।

उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥ १९॥

उदुम्बरफलप्रीत उमादिसुरपूजितः ।

ऋजीषीकृतभृचक्रो रिपुप्रमथनोर्जितः ॥ २०॥

लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः ।

लिपिप्रियो बिन्दुहीनो लीलाकृतजगन्त्त्रयः ॥ २१॥

ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः ।

औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥ २२॥

कल्याणाचलकोदण्डः कामितार्थफलप्रदः ।

कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥ २३॥

करन्धमसुतप्रीतः कल्पादिपरिवर्जितः ।

कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥ २४॥

कमलामलसन्नेत्रः कमलापतिपूजितः ।

खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥ २५॥

खर्जुरवनमध्यस्थः खण्डिताखण्डलीकरः ।

खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥ २६॥

खण्डपर्शुः खण्डधनः खण्डितारातिमण्डलः ।

गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥ २७॥

गङ्गाधरो गोगणेशो गणेशवरपुत्रकः ।

गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥ २८॥

गगनस्थो गणपतिर्गगनाभोगभूषणः ।

घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥ २९॥

घोटकप्रियपुत्रश्च धर्मकालो घनाकृतिः ।

घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥ ३०॥

घटानादकरप्रीतो घटीभूतमहागिरिः ।

चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥ ३१॥

चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः ।

चक्षुःश्रोत्रमहाहारश्चण्डिकेशवरप्रदः ॥ ३२॥

चेतोजन्महरश्चण्डश्चातुर्होत्रप्रियश्चरः ।

चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥ ३३॥

चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः ।

छादितानेकलोकादिः छन्दसां गणमध्यगः ॥ ३४॥

छत्रचामरशोभाढ्यः छन्दोगगतिदायकः ।

जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥ ३५॥

जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा ।

जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥ ३६॥

जनार्दनार्दनो जामिजात्यादिपरिवर्जितः ।

झणज्झणान्घ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥ ३७॥

टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः ।

टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥ ३८॥

डामरितन्त्रमध्यस्थो डमरुध्वनिशोभितः ।

ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुखः ॥ ३९॥

णकारो णणुकोत्थादिर्णान्तकृण्णविमोचकः ।

तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥ ४०॥

तरुमूलप्रियस्तातस्तमसां नाशकस्तटः ।

थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥ ४१॥

दाता दानपतिर्दान्तो दन्दशूकविभुषितः ।

दर्शनियो दीनदयो दण्डितारातिमण्डलः ॥ ४२॥

दक्षयज्ञहरो देवो दानवारिर्दमोदयः ।

दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥ ४३॥

धता धनाधिपसखो धनधान्यप्रदो धनम् ।

धामप्रियोऽन्धसां नाथो धर्मवाहो धनुर्धरः ॥ ४४॥

नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् ।

नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥ ४५॥

नन्दनो नमसामीशो नानारूपो नदीगतः ।

नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥ ४६॥

पत्तीनां च पतिः पार्यः परमात्मा परात्परः ।

पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥ ४७॥

पन्नगाधिपसद्धारः पशूनां पतिपावकः ।

पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥ ४८॥

फणीफणालसम्मौलिः फणिकङ्कणसत्करः ।

फणिता नेकवेदोक्त्तिः फणिमाणिक्यभूषितः ॥ ४९॥

बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः ।

बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥ ५०॥

बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुपदः ।

वन्दीकृतागमो बालपालको बहुशोभितः ॥ ५१॥

भवादिर्भवहा भव्यो भवो भावपरायणः ।

भयहृद्भवदो भूतो भण्डासुरवरप्रदः ॥ ५२॥

भगाक्षिमथनो भर्गो भवानीशो भयङ्करः ।

भङ्कारो भावुकदो भस्माभ्यक्त्ततनुर्भटः ॥ ५३॥

मयस्करो महादेवो मायावी मानसान्तरः ।

मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥ ५४॥

मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः ।

मण्डितो मण्डनाकारो मतिदो मानपालकः ॥ ५५॥

मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः ।

यशस्करो यन्त्ररूपो यमिमानसपावनः ॥ ५६॥

यमान्तकरणो यामी यजमानो यदुर्यमी ।

रमानाथार्चितपदो रम्यो रतिविशारदः ॥ ५७॥

रंभाप्रीतो रसो रात्रिचरो रावणपूजितः ।

रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥ ५८॥

रथन्तरस्तुतो रक्त्तपानो रथपती रजः ।

रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥ ५९॥

ललामसोमलूतादिर्ललितापूजितो लवः ।

वामनो वायुरूपश्च वराहमथनो वटुः ॥ ६०॥

वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः ।

वपुर्धरो वर्षवरो वरियान् वरदो वरः ॥ ६१॥

वसुप्रदो वसुपतिर्वन्दारुजनपालकः ।

शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥ ६२॥

शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः ।

शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥ ६३॥

शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः ।

शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥ ६४॥

षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः ।

षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥ ६५॥

षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः ।

सत्यप्रियः सत्यधामा संसाररहितः समः ॥ ६६॥

सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः ।

सगरः सागरान्तस्थः सत्राशः सरणः सहः ॥ ६७॥

सांबः सनातनः साधुः सारासारविशारदः ।

सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥ ६८॥

हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः ।

हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥ ६९॥

हरिपृज्यो हरो हार्यो हरिणाङ्कशिखण्डकः ॥

हाहाकारादिरहितो हनुनासो हहुंकृतः ॥ ७०॥

ललाननो लतासोमो लक्षमीकान्तवरप्रदः ।

लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥ ७१॥

क्षयद्वीरः क्षमायुत्तः क्षयादिरहितः क्षमी ।

क्षत्रियान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥ ७२॥

क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलधरः ।

क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥ ७३॥

रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः ।

स्विषुः स्विष्टकृदीशानः शरव्याधारको युवा॥ ७४॥

अघोरस्तनुमान् देवो गिरीशः पाकशासनः ।

गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥ ७५॥

अध्यवोचो महादेव अधिवक्ता महेश्वरः ।

ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥ ७६॥

ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः ।

नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥ ७७॥

गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः ।

विश्वदृष्टः सहस्राक्षो मीढुष्ठो भगवन् हरः ॥ ७८॥

शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः ।

अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥ ७९॥

विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः ।

त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥ ८०॥

सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः ।

स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥ ८१॥

हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः ।

त्विषीमान् मार्गपो बभ्रुर्विव्याधी चान्नपालकः ॥ ८२॥

पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः ।

क्षेत्रशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥ ८३॥

वॄक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः ।

ओषदीशो महाघोषः क्रन्दनः पत्तिनायकः ॥ ८४॥

कृत्स्नवीती धावमनः सत्वनां पतिरव्ययः ।

सहमानोऽथ निर्व्याधिरव्याधिः कुकुभो नटः ॥ ८५॥

निषङ्गी स्तेनपः कक्ष्यो निचेरुः परिचारकः ।

आरण्यपः सृकावि च जिघांसुर्मुष्णपोऽसिमान् ॥ ८६॥

नक्तश्वरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः ।

कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥ ८७॥

आयच्छो विसृजोऽप्यात्मा वेधनो आसनः परः ।

शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥ ८८॥

सभापतिस्तुरङ्गेश उगणस्तृंहतिर्गुरुः ।

विश्वो व्रातो गणो विश्वरुपो वैरुप्यकारकः ॥ ८९॥

महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः ।

तक्षा च रथकारश्च कुलालः कर्मकारकः ॥ ९०॥

पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः ।

मृगयुः श्वानपो देवो भवो रुद्रोऽथ शर्वकः ॥ ९१॥

पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् ।

व्युप्तकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥ ९२॥

शिपिविष्टोऽथ मीढुष्ट इषुमान् हृस्ववामनः ।

बहुर्वर्षवया वृद्धः संवृद्ध्वा पथमोऽग्रियः ॥ ९३॥

आशुश्वैवाजिरः शीघ्र्यः शीम्य ऊर्म्योऽथ वस्वनः ।

स्रोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥ ९४॥

मध्यश्चाथाप्रगल्भश्च ….

आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥ ९५॥

वरूथी विरुमी कावची श्रुतसेनोऽथ दुन्दुभिः ।

धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥ ९६॥

आयुधी स्वायुधी देव उपवीती सुधन्वधृक् ।

स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥ ९७॥

नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽथ वैद्युतः।

ईघ्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥ ९८॥

सोमो रुद्रस्तथा ताम्र अरुणः शङ्गः ईश्वरः ।

उग्रो भीमस्तथैवाग्रेवधो दूरेवधस्तथा ॥ ९९॥

हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः ।

तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥ १००॥

शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः ।

उत्तारणस्तथालाद्य आर्तायः शष्प्यफेनजः ॥ १०१॥

सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किंशिलः ।

क्षयणः कूलगो गोष्ठ्यः पुलत्स्यो गृह्य एव च ॥ १०२॥

तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो हृदोद्भवः ।

निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥ १०३॥

शुष्क्यो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः ।

पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥ १०४॥

अवः (?) किरिक ईशानो देवादिहृदयान्तरः ।

विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥ १०५॥

द्रापिरन्घस्पतिर्दाता दरिद्रन्निललोहितः ।

तवस्वांश्च कपर्दीशः क्षयद्विरोऽथ गोहनः ॥ १०६॥

पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः ।

मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥ १०७॥

मीढुष्टमः शिवतमो भगवानर्णवान्तरः ।

शिखी च कृत्तिवासाश्च पिनाकी वृष्भस्थितः ॥ १०८॥

अग्नीषुश्च वर्षेषुर्वातेषुश्च ……

पृथिवीस्थो दिविष्टश्च अन्तरिक्षस्थितो हरः ॥ १०९॥

अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः ।

भूताधिपः प्रमथप ….. ॥ ११०॥

अवपलः सहस्रास्यः सहस्रनयनश्रवाः ।

ऋग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥ १११॥

उर्म्यर्वशीर्षपरमः शिखास्तुत्योऽपसूयकः ।

मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥ ११२॥

उमाधवो विश्वभर्ता विश्वहर्ता सनातनः ।

सोमो रुद्रो मेधपतिवंकुर्वै मरुतां पिता॥ ११३॥

……. अरुषो अध्वरेश्वरः ।

जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥ ११४॥

सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः ।

हिरण्यरेता दुर्धर्षो विश्वाधिक उरुक्रमः ॥ ११५॥

गुरुगायोऽमितगुणो महाभूतस्र्त्रिविक्रमः ।

अमृतो अजरोऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥ ११६॥

तुषाराट्पूजितपदो महाहर्षो रसात्मकः ।

महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥ ११७॥

गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः ।

विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥ ११८॥

भक्त्तप्रियो भक्त्तिवश्यो भयहृद्भूतसङ्धभित् ।

भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥ ११९॥

ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः ।

पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥ १२०॥

आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः ।

चण्डांशुमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥ १२१॥

चण्डतनाण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः ।

चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥ १२२॥

रणशौण्डो महादण्डस्तुहुण्डवरदायकः ।

कपालमालाभरणस्तारणः शोकहारणः ॥ १२३॥

विधारणः शूलकरो घर्षणः शत्रुमारणः ।

गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुरः ॥ १२४॥

शम्बरारिहरो दक्षहरोऽन्धकहरो हरः ।

विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥ १२५॥

उर्वराजिदुद्वज्जिच्च सर्वजित् सर्वहारकः ।

मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥ १२६॥

नन्दिप्रीतो मन्दहासः सुरवृन्दनिषेवितः ।

मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥ १२७॥

विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः ।

शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥ १२८॥

भीमो महेश्वरो नित्य अंबरान्तरनर्तनः ।

उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥ १२९॥

वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः ।

उमावरप्रदो मुण्डी जटिल शुचिलक्षणः ॥ १३०॥

चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् ।

मेखली अजिनी दण्डी कपाली मेखलाधरः ॥ १३१॥

सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः ।

वसाप्रियो वामदेवस्तत्पूर्वो वटमूलग ॥ १३२॥

उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः ।

अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥ १३३॥

किरीटमालाभरणो राजराजलसद्गतिः ।

हरिकेशो मुञ्जिकेशो व्योमकेशो यशोधरः ॥ १३४॥

पातालवसनो भर्ता शिपिविष्टः कृपाकरः ।

हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥ १३५॥

दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः ।

आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥ १३६॥

प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः ।

मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥ १३७॥

पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः ।

गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥ १३८॥

मत्स्यहा कूर्मापृष्ठास्थिधरो भूदारदारकः ॥

विधीन्द्रपूजितपदः पारदो वारिधिस्थितः ॥ १३९॥

महोदयो महादेवो महाबीजो महाङ्गधृक् ।

उलूकनागाभरणो विधिकन्धरपातनः ॥ १४०॥

आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः ।

शुल्कस्त्रिशुल्कस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ १४१॥

ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः ।

विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥ १४२॥

सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः ।

विश्वभक्षो विद्रुमाक्षः सर्वदेवशिरोमणिः ॥ १४३॥

ब्रहम सत्यं तथानन्दो ज्ञानानन्दमहाफलः ।

ईश्वरः –

अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् ।

इत्येतन्नामसाह्स्रं रहस्यं कथितं मया॥ १४४॥

पवित्रमिदमायुष्यं पठतां श्रृण्वतां सदा।

यस्त्वेतन्नमसाहस्रैः बिल्वैः पङ्कजकुड्मलैः ॥ १४५॥

पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि ।

तस्य मुक्त्तिं ददामीशे सत्यं सत्यं न संशयः ॥ १४६॥

मम प्रियकरं ह्येतत् फणिना फणितं शुभम् ।

पठेत् सर्वान् लभेतैव कामानायुष्यमेव च ॥ १४७॥

नामसाहस्रपाठी स यमलोकं न पश्यति ।

कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥ १४८॥

नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन ।

न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥ १४९॥

भक्त्तेषु लभते नित्यं भक्त्तिं मत्पादयोर्दृढाम् ।

दत्वाऽभक्त्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥ १५०॥

सूतः –

इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे ।

सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥ १५१॥

तुष्टाव कष्टहरमिष्टदमष्टदेहं नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् ।

उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं विनष्टतमसं शिपिविष्टमीशम् ॥ १५२॥

श्रीपार्वती –

चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् ।

चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥ १५३॥

विश्वाधिकं विश्वविधानदक्षं विश्वेश्वरं विश्रुतनामसारम् ।

विनायकेड्यं विधिविष्णुपूज्यं विभुं विरुपाक्षमजं भजेऽहम् ॥ १५४॥

मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् ।

मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥ १५५॥

हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः ।

नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तपानात् ॥ १५६॥

नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि ज्वरपरिकरदेहे नाशतापैः सुदीप्ते ।

दितिजकदनमत्तं संहरन्तं जगच्च हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः ।

परशुवरनिखातैः क्रोडमुत्क्रोष्टुमीष्टे ॥ १५७॥

रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका।

प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥ १५८॥

शौनकः

कानि रौद्राणि नामानि त्वं नो वद विशेषतः ।

न तृप्तिरीशचरितं श्रृण्वतां नः प्रसीद भो ॥ १५९॥

सूतः

तान्यहं वो वदाम्यद्य श्रृणुद्वं शौनकादयः ॥

पवित्राणि विचित्राणि देव्या प्रोक्त्तानि सत्तमाः ॥ १६०॥

देवी –

दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः ।

अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥ १६१॥

जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः ।

वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥ १६२॥

आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः ।

पत्तिनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥ १६३॥

आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः ।

प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥ १६४॥

रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः ।

अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥ १६५॥

सेनापतिश्च श्वपतिः सर्वाधिपतये नमः ।

प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् ।

तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥ १६६॥

सूतः –

इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः ।

अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥ १६७॥

शिवः –

इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् ।

प्रबलतरवरैश्च पातकौधैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥ १६८॥

शैवं मेऽद्य रहस्यमद्भ्हुततरं सद् द्वादशांशान्वितम् ।

श्रुत्वोदारगिरा दरोरुकथया सम्पूरितं धारितम् ।

पापानं प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥ १६९॥

श्रुतिगिरिकरिकुम्भगुंभरत्ने त्वयि गिरिजे परया रमार्द्रदृष्ट्या ।

निहितोऽजिह्मधियां मुदेऽयमेष … मम भक्त्तजनार्पणं मुदे ॥ १७०॥

ईश्वरः –

एतत्ते पञ्चमांशस्य विस्तरः कथितो मया ।

रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥ १७१॥

इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी ।

समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा॥ १७२॥

प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् ।

देवी

अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः ॥ १७३॥

श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव।

मामृते देवदेवेश न भेदोऽस्त्यावयोः शिवः ॥ १७४॥

भव भव भगवन् भवाब्धिपार स्मरगरख्ण्डनमण्डनोरुगण्ड ।

स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा… दिव्यदेह ॥ १७५॥

अव भव भवहन् प्रकर्षपापाञ्जनमज्ञं जडदुःखभोगसङ्गम् ।

तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥ १७६॥

सूतः –

इति देव्या स्तुतो देवो महेशः करुणानिधिः ।

तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥ १७७॥

भवतां दर्शनेनाद्य शिवभक्तिकथारसैः ।

पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुमिच्छथ ॥ १७८॥

इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् ।

श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥ १७९॥

शौनकः

अहो महादेवकथासुधाम्बुभिः सम्प्लावितोऽस्म्यद्य भवाग्नितप्तः ।

धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥ १८०॥

सूतः

श्रीमत्कैलासवर्ये भुवनजनकतः संश्रुता पुण्यदात्री

शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा ।

देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान्

सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥ १८१॥

इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे…. नाम चत्वारिंशोऽध्यायः ॥

शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम् समाप्त।

Leave a Reply

Your email address will not be published. Required fields are marked *