बृहस्पति स्तोत्रम् || Brihaspati Stotram
गुरुस्तोत्रम् अथवा बृहस्पतिस्तोत्रम् – बृहस्पति, जिन्हें “प्रार्थना या भक्ति का स्वामी” माना गया है, और ब्राह्मनस्पति तथा देवगुरु (देवताओं के गुरु) भी कहलाते हैं, एक हिन्दू देवता एवं वैदिक आराध्य हैं। इन्हें शील और धर्म का अवतार माना जाता है और ये देवताओं के लिये प्रार्थना और बलि या हवि के प्रमुख प्रदाता हैं। इस प्रकार ये मनुष्यों और देवताओं के बीच मध्यस्थता करते हैं।
बृहस्पति हिन्दू देवताओं के गुरु हैं और दैत्य गुरु शुक्राचार्य के कट्टर विरोधी रहे हैं। ये नवग्रहों के समूह के नायक भी माने जाते हैं तभी इन्हें गणपति भी कहा जाता है। ये ज्ञान और वाग्मिता के देवता माने जाते हैं। इन्होंने ही बार्हस्पत्य सूत्र की रचना की थी। इनका वर्ण सुवर्ण या पीला माना जाता है और इनके पास दण्ड, कमल और जपमाला रहती है। ये सप्तवार में बृहस्पतिवार के स्वामी माने जाते हैं। ज्योतिष में इन्हें बृहस्पति (ग्रह) का स्वामी माना जाता है।
बृहस्पति(गुरु) ग्रह के पीड़ा को दूर कर सर्वमनोकामना को सिद्ध करने वाले इस बृहस्पतिस्तोत्रम् का पाठ करें है।
|| बृहस्पतिस्तोत्रम् ||
पीताम्बर: पीतवपु: किरीटी,चतुर्भुजो देवगुरु: प्रशान्त: ।
दधाति दण्डं च कमण्डलुं च,तथाक्षसूत्रं वरदोsस्तु मह्यम ।।१।।
नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ।।२।।
सदानन्द नमस्तेस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ।।३।।
नमोsद्वितीयरूपाय लम्बकूर्चाय ते नम: । नम: प्रह्रष्टनेत्राय विप्राणां पतये नम: ।।४।।
नमो भार्गवशिष्याय विपन्नहितकारक: । नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ।।५।।
विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम । प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदम ।।६।।
(इति मन्त्रमहार्णवे बृहस्पतिस्तोत्रम)
|| गुरुस्तोत्रम् अथवा बृहस्पतिस्तोत्रम् ||
अथ गुरुस्तोत्रम् ।
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥
सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥
पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥
यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥
यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥
इति गुरुस्तोत्रं सम्पूर्णम् ।
|| बृहस्पतिस्तोत्रम् ||
अस्य श्रीबृहस्पतिस्तोत्रस्य गृत्समद ऋषिः, अनुष्टुप् छन्दः,
बृहस्पतिर्देवता, बृहस्पतिप्रीत्यर्थं जपे विनियोगः ।
गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदांवरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १॥
सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुङ्मलद्युतिः ॥ २॥
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवैद्यपितामहः ॥ ३॥
भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥ ४॥
जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।
यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५॥
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः ॥ ६॥
॥ इति श्रीस्कन्दपुराणे बृहस्पतिस्तोत्रं सम्पूर्णम् ॥
|| बृहस्पतिस्तोत्रम् ||
ॐ चराचरगुरुं नौमि गुरुं सर्वोपकारकम् ।
यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १॥
वृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः ।
गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २॥
सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः ।
अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३॥
सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ।
सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४॥
पञ्चविंशतिनामानि गुरुं स्मृत्वा तु यः पठेत् ।
आयुरारोग्यसम्पन्नो धनधान्यसमन्वितः ॥ ५॥
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥ ६॥
तदेतत्पठनादेव दह्यतेऽग्निरिवेन्धनम् ।
गुरोर्दिनेऽर्चयेद्यस्तु पीतवस्त्रानुलेपनैः ॥ ७॥
धूपदीपोपहारैश्च विप्रभोजनपूर्वकम् ।
पीडाशान्तिर्भवेत्तस्य स्वयमाह बृहस्पतिः ॥ ८॥
मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः ।
ज्ञाता यः सर्वशास्त्राणां स गुरुः प्रीयतां मम ॥ ९॥
इति बृहस्पतिस्तोत्रम् ।
2 thoughts on “बृहस्पति स्तोत्रम् || Brihaspati Stotram”