दुर्गा स्तोत्र || Durga Stotra

0

दुर्गाजी के इस स्तोत्र को पढ़ने या सुनने मात्र से सभी पापों से मुक्त होकर श्रीदुर्गालोक की प्राप्ति होता है । देवी की पूजा करके प्रसन्नचित्त हाथ जोड़कर इस स्तोत्र का पाठ करना चाहिये :

श्रीदुर्गा स्तोत्रम्

दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् ।

सर्वलोकप्रणेत्रीं च प्रणमामि सदाऽम्बिकाम् ॥ १॥

मङ्गलां शोभनां शुद्धां निष्कलां परमां कलाम् ।

विश्वेश्वरीं विश्ववन्द्यां चण्डिकां प्रणमाम्यहम् ॥ २॥

सर्वदेवमयीं देवी सर्वदेवनमस्कृताम्‌ ।

ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम्‌ ॥ ३॥

विन्ध्यस्थां विन्ध्यनिलयां दिव्यस्थाननिवासिनीम् ।

योगिनीं योगविद्यां च चण्डिकां प्रणमाम्यहम् ॥ ४ ॥

ईशानमातरं देवीमीश्वरीमीश्वरप्रियाम् ।

प्रणतोऽस्मि सदा दुर्गां संसारार्णवतारिणीम् ॥ ५ ॥

दुर्गा संकटहन्त्रीति दुर्गेति प्रथिता भुवि।

सर्वबुद्धयधिदेवीयमन्तर्यामिस्वरुपिणी॥६॥

वैष्णवानां च शैवानामुपास्येयं च नित्यशः ।

मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥ ७॥

सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा।

मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥ ८ ॥

लक्ष्म्यादयस्तथा देव्यः सर्वा ध्यायन्ति तां शिवाम्‌ ।

इदं यः पठते स्तोत्रं श्रृणुयाद्वपि भक्तितः ॥ ९ ॥

तदेव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ।

स मुक्तः सर्वपापेभ्यो दुर्गलोके महीयते ॥१०॥

इति: दुर्गा स्तोत्रम्‌ ।

Leave a Reply

Your email address will not be published. Required fields are marked *