परिवारमें पारस्परिक प्रेम प्राप्तिके लिये, Ganpati Stotra

0

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् |

चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ||

किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ध्रियष्टिकम् |

प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्नहेमनूपुरप्रशोभिताङ्ध्रिपङ्कजम् ||

सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहेप्रदेन्दुसुन्दरं युगक्षणप्रमोदितम् |

कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरुपिणं भजे गजेन्द्ररूपिणम् ||

विरिञ्चिविष्णुवन्दितं विरुपलोचनस्तुतं गिरीशदर्शनेच्छया समर्पितं पराम्बया |

निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टकर्मसु स्मृतं भजामि तुन्दिलम् ||

मदौघलुब्धचञ्चलालिमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् |

अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकम् ||

दारिद्र्यविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्त्रमादरात् |

पुत्री कलत्रस्वजनेषु मैत्री पुमान् भवेदेकवरप्रसादात् ||

|| इति श्रीमच्छंकराचार्यविरचितं गणपतिस्तोत्रं सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *