हनुमत्पूजन विधि || Hanumat Pujan Vidhi

0

हनुमत्पूजन विधि-प्रातःकाल स्नान, सन्ध्या आदि नित्यकर्म से निवृत्त होकर हनुमत्पूजनार्थ पवित्र आसन पर बैठकर आचमन, प्राणायाम कर ॐ अपवित्र: पवित्रो वा०’ इससे अपने शरीर पर और पूजन सामग्री का पवित्र जल से सम्प्रोक्षण करें ।

हनुमत्पूजन विधि

तत्पश्चात् गौरी-गणेश,कलश,नवग्रह व सर्वतोभद्र मण्डल देवताओं का पूजन कर अपने दाहिने हाथ में अक्षत, पुष्प तथा जल लेकर इस प्रकार सङ्कल्प करें—

ॐ विष्णुर्विष्णुर्विष्णु:० आर्यावतैंकदेशान्तर्गत अमुकक्षेत्रे अमुकनगरे ( अमुकग्रामे ) विक्रमशके बौद्धावतारे अमुकतामसंवत्सरे अमुकायने अमुकऋतौ महामाङ्गल्यप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयागे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अमुकशर्माऽहम् ( अमुकवार्माऽहम्, अमुकगुपोऽहप् ) ममात्मन: श्रुति-स्मृति-पुराणोक्तफलप्राप्त्यर्थं धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थ सिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ यथोपचारे: श्रोहनुमत्पूजनमहं करिष्ये ।”

अब हनुमत्पूजन विधि अनुसार प्रारम्भ करें-
हनुमत्पूजन विधि

ध्यान

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शरणं प्रपद्ये ॥

अतुलितबलधाम स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।

सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥

श्रीहनुमते नमः – ध्यायामि ॥

आवाहन

ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नम: । बाहुभ्यामुतते नम: ॥

श्रीरामचरणाम्भोज-युगलस्थिरमानसम् । आवाहयामि देवेश हनुमंस्त्वां समर्चितुम् ॥

आगच्छ हनुमद्देव त्वं सुवर्चलया सह । पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥

श्रीहनुमते नम: आवाहनं समर्पयामि । आवाहनार्थे पुष्पाणि समर्पयामि ।

आसन

ॐ वा ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥

नवरत्नमयं दिव्यं चतुरस्नमनुत्तमम् । सौवर्णमानसं तुभ्यं कल्पये कपिनायक ।

भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव । श्रीरामसेवक श्रीमन् प्रसीद जगतां पते ॥

हे स्वामिन् , स्थिरो भव , वरदो भव , सुमुखो भव , सुप्रसन्नो भव । स्थिरासनं कुरु ।

देव देव जगन्नाथ केसरीप्रियनन्दन । रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥

श्रीहनुमते नमः । नवरत्नखचितस्वर्णसिंहासनं समर्पयामि ॥

आसनार्थे अक्षतान् समर्पयामि ।

पाद्य

ॐ वामिषुं गिरिशन्त हस्ते विभर्ष्यस्तवे । शिवाङ्गिरित्रताङ्कुरु मा हिर्ठ० सी: पुरुषं जगत् ॥

सुवर्णकलशानीतं जलं सुष्ठु सुवासितम् । पादयो: पाद्यमञ्जनीनन्दन प्रतिगृह्यताम् ॥

योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः । पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥

श्रीहनुमते नमः । पादयोः पाद्यं समर्पयामि ॥

अर्ध्य

ॐ शिवेन व्वचसा त्त्वा गिरिशाच्छा व्वदामसि । वथा न: सर्व्वमिज्जगदयक्ष्मर्ठ० सुमना ऽअसत् ॥

कुसुमाक्षतसम्मिश्रं दिव्यार्ध्यं रत्नसंयुतम् । दास्यामि प्रेमतस्तुभ्यं गृह्यतां कपिपुङ्गच ॥

लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन । गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ।

श्री हनुमते नमः । हस्तयोः अर्घ्यं समर्पयामि ॥

आचमन

ॐ अध्यवोचदधिवक्त प्प्रथमो दैव्यो भिषक् ।

अहींश्च सर्व्वाञ्जम्भयन्त्सर्व्वाश्च वातु धान्योऽधराची: परासुव ॥

हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् । व्रीरध्वज दयासिन्धो गृहाणाचमनादिकम् ॥

वालाग्रसेतुबन्धाय शताननवधाय च । तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥

श्रीहनुमते नम: आचमनीयं जलं समर्पयामि ।

मधुपर्कं

अर्जुनध्वजसंवास दशाननमदापह । मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥

श्रीहनुमते नमः । मधुपर्कं समर्पयापि ॥

पञ्चामृत स्नान

ॐ असौ वस्ताम्म्रो ऽअरुण ऽउत बब्भ्रु: सुमङ्गल: ।

वे चैनर्ठ० रुद्‌द्रा ऽअभितो दिक्षु श्रिता: सहस्रशोऽवैषा, हेड ऽईमहे ॥

मन्दाकिन्या: समानीतैर्हे माम्भोरुहवासितै: । स्नानं कुरूष्व देवेश सलिलैश्च सुगन्धिभि: ॥

श्रीहनुमते नम: पञ्चामृतस्नानं समर्पयामि । पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

आचमनायं जलं समर्पयामि ।

शुद्धोदकस्नान

ॐ शुद्धवाल: सर्व्वशुद्धवाली मणिवालस्त ऽआश्चिना: ।

श्येत: श्येताक्षोऽरुणस्ते रुद्‌द्राय पशुपतये कर्ण्णा वामा

ऽअवलिप्ता रौद्‌द्रा नभोरूपा: पार्ज्जन्या: ॥

सुवर्णकलशानीतैर्गङ्गादिसरिदुद्धवै: । शुद्धोदकै: कपीश त्वां संस्नापयामि मारूते ॥

गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः । भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥

श्रीहनुमते नम: शुद्धादकस्नानं समर्पयामि । शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।

मेखला

ग्रथितां नवभो रत्नैर्मेखलां त्रिगुणीकृताम् । मौञ्जीं मुञ्जामयों पीतां गृहाण पवनात्मज ॥

श्रीहनुमते नम: मेखलां समर्पयामि ।

कौपीन लँगोट

कौशेयं कपिशार्दूल हरिद्राक्तं सुशोभनम् । कटिसूत्रं गृहाणेदं कौपीनं मङ्गलास्पदम् ॥

श्रीहनुमते नम: कौपीनं समर्पयामि ।

वस्त्र

ॐ असो वोऽवसर्प्पति नीलग्ग्रीवो व्विलोहित: ।

उतैनं गोपा ऽअद्दश्रन्नद्दश्रन्नुदहार्व्व: स द्दष्ट्टो मृडयार्ति न: ॥

पीताम्बर सुवर्णाभं दिव्यतेज: समन्वितम् । अङ्गसंरक्षण देव गृह्मतां कपिनायक ॥

पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् । दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥

उत्तरीयं तु दास्यमि संसारोत्तारकारण । गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥

श्रीहनुमते नम: वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

आभूषण

भूषणानि महार्हाणि किरीटप्रमुखान्यहम् । तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ।

श्रीहनुमते नमः । आभरणानि समर्पयामि ॥

यज्ञोपवीत

ॐ नमोऽस्तु नीलग्ग्रीवाय सहस्राक्षाय मीद्दुषे । अथो वे ऽअस्य सत्त्वानोऽहन्तेभ्योऽकरं नम: ॥

ब्रह्मणा निमितं सूत्रं विष्णुग्रन्थिसमन्वितम् । दिव्यं यज्ञोपवीतं ते ददामि पवनात्मज ॥

श्रीहनुमते नम: यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

गन्ध चन्दन

ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । वाश्च ते हस्त ऽइषव: पराता भगवो व्वप ॥

दिव्यकर्पूरसंयुक्तं मृगनाभिसमन्वितम् । सकुङ्कुमं पीतगन्धं ललाटे धारय प्रभो ॥

कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् । श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥

श्रीहनुमते नमः । गन्धान्धारयामि ॥

अक्षत

ॐ अक्षन्नमीमदन्त ह्यवप्प्रिया ऽअधूषत ।

अस्तोषत स्वभानवो व्विप्प्रा नविष्ठ्ठया मती वोजान्विन्द्रते हरी ॥

अक्षतान्निर्मलान् दिव्यान् कुङ्कुमाक्तान् सुशोभनान् । गृहाणेमान् वायुपुत्र प्रसीद परमेश्वर ॥

शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् । अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥

श्रीहनुमते नम: अक्षतान् समर्पयामि ।

पुष्पमाला

ॐ व्विज्यं धनु: कपद्दिनो व्विशल्ल्यो बाणवाँ२ ऽउत ।

अनेशन्नस्य वा ऽइषव ऽआभुरस्य निषङ्गधि: ॥

प्रत्यग्रनीलकमलै: पुष्पमाल्यैश्च वानर । भक्त्या त्वां भूषयिष्यामि गृहाण कपिपुङ्गव ॥

सुगन्धीनि सुरूपाणि वन्यानि विविधानि च । चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥

तुलसीदलबिल्वानि मनसा कल्पितानि च । गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥

श्री हनुमते नमः । पुष्पाणि च पुष्पमालां समर्पयामि ॥

तुलसीदल

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पा, सुरे स्वाहा ॥

श्रीहनुमते नम: तुससीदलानि समर्पयामि ।

अवीर (गुलाल)

ॐ अहिरिव भोगै: पर्व्वेति बाहुँ ज्याया हेतिं परिबाधमान: ।

हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान् पुमान् पुमा सं परि पातु व्विश्वत: ॥

अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नानापरिमलं द्रव्यं गृहाण परमेश्वर ॥

श्रीहनुमते नम: गुलालं समर्पयामि ।

सिन्दूर

ॐ सिन्धोरिव प्राद्‌ध्वने शूधनासो व्वातप्प्रमिय: पतयन्ति वह्वा: ।

घृतस्य धारा ऽअरुषो न व्वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥

दिव्यनागसमुद्‌भूतं सर्वमङ्गलकारकम् । तैलेनाभ्यङ्गयिष्यामि सिन्दूरं गृह्मतां प्रभो ॥

श्रीहनुमते नम: सिन्दूरं समर्पयामि ।

सुगन्धिद्रव्य

ॐ त्र्यम्बकं वजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥

मनोहरं गन्धद्रव्यं रुचिरागुरुवासितम् । देहशोभाकरं नित्यं गृहाण कपिपुङ्गव ॥

श्रीहनुमते नम: सुगन्धिद्रव्यं समर्पयामि ।

हनुमत्पूजन विधि

सिंदूर का चोला

इसके बाद हनुमानचालीसा आदि हनुमान मंत्र का उच्चारण करते हुए चमेली के तेल में सिंदूर मिलाकर या सीधे श्री हनुमान की प्रतिमा पर हल्का सा देसी घी लगाकर उस पर सिंदूर का चोला चढ़ा दें।
हनुमत्पूजन विधि अथ अङ्गपूजन

मारुतये नमः । पादौ पूजयामि । सुग्रीवसखाय नमः । गुल्फौ पूजयामि ।

अङ्गदमित्राय नमः । जङ्घे पूजयामि । रामदासाय नमः । ऊरू पूजयामि ।

अक्षघ्नाय नमः । कटिं पूजयामि । लङ्कादहनाय नमः । वालं पूजयामि ।

राममणिदाय नम: । नाभिं पूजयामि । सागरोल्लङ्घनाय नम:। मध्ये पूजयामि ।

लङ्कामर्दनाय नम:। केशावलिंपूजयामि । सञ्जीवननगाहर्त्रे नमः । स्कन्धौ पूजयामि ।

सौमित्रिप्राणदात्रे नमः । वक्षःस्थलं पूजयामि । कुण्ठितदशकण्ठाय नमः । कण्ठं पूजयामि ।

रामाभिषेककारिणे नमः । हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः । वक्त्रं पूजयामि ।

प्रसन्नवदनाय नमः । वदनं पूजयामि । पिङ्गलनेत्राय नमः । नेत्रे पूजयामि ।

श्रुतिपरायणाय नमः । श्रोत्रे पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः । ललाटं पूजयामि ।

मणिकण्ठमालिकाय नमः । शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः । सर्वाण्यङ्गनि पूजयामि ।

धूप

ॐ वा ते हेतिर्म्मीदुष्टम हस्ते बभूव ते धनु: । तयास्मान् व्विश्वतस्त्वमयक्ष्मया परिभुज ॥

दिव्यं सुगुग्गुलं साज्यं दशाङ्गं ससुगन्धकम् । गृहाण मारुते धूपं सुप्रियं घ्राणतर्पणम् ॥

श्रीहनुमते नम: धूपमाघ्रापयामि ।

दीप

ॐ परि ते धन्वनो हेतिरस्मान् व्वृणक्तु व्विश्वत: । अथो व ऽइषुधिस्तवारे ऽअस्मन्निधेहि तम् ॥

घृतपूरितमुज्ज्वालं वर्तिकर्पूरसंयुतम् । दीपं गृहाण देवेश अञ्जन्यानन्दवर्धक ॥

श्रीहनुमते नम: दीपं दर्शयामि । हस्तप्रक्षालनम् ।

नैवेद्य

ॐ अवतत्त्य धनुष्टुर्ठ० सहस्राक्ष शतेषुधे । निशीर्व्व शल्ल्यानां मुखा शिवो नम: सुमना भव ॥

शाल्यन्नं मोदकं दिव्यं शाकापूपसमन्वितम् । साज्यं दधि पायसं च नैवेद्यं गृह्यतां प्रभो ॥

श्रीहनुमते नम: नैवेद्य निवेदयामि । नैवेद्यान्ते आचमनोयं जलं समर्पयामि ।

ऋतुफल

ॐ वा: फलिनीर्व्वा ऽअफला ऽअपुष्पा वाश्च पुष्पिणी: । बृहस्पतिप्प्रसूतास्ता नो मुञ्चन्त्वर्ठ०हस: ॥

फलं नानाविधं स्वादु पव्कं शुद्धं सुशोभितम् । समर्पितं मया देव गृह्यतां कपिनायक ॥

श्रीहनुमते नम: ऋतुफलानि समर्पयामि ।

ताम्बूल पूगफल-एला-लवङ्गसहित

ॐ उत स्मास्य द्‌द्रवतस्तुरण्यत: पर्ण्णन्नवे रनुवाति प्प्रगर्द्धिन: ।

श्येनस्येव द्‌ध्रजतो ऽअङ्कसं परि दधिक्रब्ण: सहोर्ज्जा तरिञ्रत: स्वाहा ॥

ताम्बूलं भगवद्भोग्यं मुखसौगन्धिकृत्परम् । पावनेय महाबाहो ताम्बूलं गृह्यतां कपे ॥

श्रीहनुमते नम: ताम्बूलम समर्पयामि ।

दक्षिणा

ॐ हिरण्यगर्ब्भ: समवर्त्तताग्ग्रे भूतस्य जात: पतिरेक ऽआसीत् ।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा व्विधेन ॥

हिरण्यगर्भगर्भस्थं हेमबीज विभावसो । अनन्तपुण्यफलदमत: शान्ति पयच्छ मे ॥

श्रीहनुमते नम: दक्षिणां समर्पयामि ।

आरती

ॐ इदर्ठ० हवि: प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्वगणर्ठ० स्वस्तये ।

आत्मसनि प्प्रजासनि पशुसनि लोकसन्य- भयसनि ।

अग्नि: प्प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥१॥

ॐ आ राञ्रि पाथिवर्ठ० रज: पितुरप्प्रायि धामभि: ।

दिव: सदा सि बृहती व्वि तिष्ठसऽआ त्त्वेषं व्वर्त्तते तम: ॥२॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।

सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

प्रदक्षिणा

ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।

मा नो व्दही: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्दृ रीरिष: ॥

यानि कानि च पापानि जन्मान्तरकृतानिच । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

श्रीहनुमते नम: प्रदक्षिणां समर्पयामि ।

मन्त्रपुष्पाञ्चलि

ॐ मा नस्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्वेषु रीरिष: ।

मा नो व्वीरानुद्‌द्र भामिनो व्वधीर्हविष्मन्त: सदमित्त्वा हवामहे ॥

ॐ वज्ञेन वज्ञमयजन्त देवास्तानि धर्म्माणि प्प्रथमान्यासन् ।

ते ह नाकं महिमान: सचन्त वत्त्र पूर्व्वे साध्या: सन्ति देवा: ॥

ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान् कामकामाय महाम् । कामेश्वरो वैश्ववणो ददातु ।

कुवेराय वैश्रवणाय महाराजाय नम: ।

ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्, सार्वभौम: सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ।

तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।

आविक्षितस्य कामग्रेर्विश्वेदेवा: सभासद इति ॥

ॐ व्विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतो बाहुरुत व्विश्वतस्पात् ।

सम्बाहुब्भ्यां धमति सम्पतत्त्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

श्रीहनुमते नम: मन्त्रपुष्पाञ्चलिं समर्पयामि ।

हनुमद्-गायत्री

ॐ रामदूताय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमत्प्रचोदयात् ॥

क्षमा-प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥१॥

आवाहनं न जानामि न जानामि तवाचनम् । पूजां चैव न जानामि क्षमस्व परमेश्वर ॥२॥

त्वमेव माता च पिंता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥३॥

अनया पूजया श्रीहनुमद्देवता प्रीयतां न मम ।

इति हनुमत्पूजन विधि समाप्त॥

ॐ विष्णवे नम: । ॐ विष्णवे नम: । ॐ विष्णवे नम: ॥

Leave a Reply

Your email address will not be published. Required fields are marked *