कामराजकीलितोद्धारोपनिषत् || Kamaraj Kilit Uddhar Upanishad
इससे पूर्व आपने शाक्त-उपनिषद के अंतर्गत कालिकोपनिषत् पढ़ा अब इसी श्रृंखला में यहाँ कामराजकीलितोद्धारोपनिषत् दिया जा रहा है।
कामराजकीलितोद्धारोपनिषत्
अथोवाच कामराजम् । तदुपासनात् कुशलं लभेत् । श्रियं लभेत् ।
गुर्वीं वाणीं लभेत् । सर्वयुवतीनां प्रियो भवेत् । प्रथमं कामस्ततः
शक्तिस्तदनु तुरीयं द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति ।
ततः शून्यं च द्वौ दिवाकरहरौ । तदनु गोत्रभृन्माया ।
एतानि षडक्षराणि भवन्ति । ततश्चन्द्रः प्रजापतिशक्रौ ।
ततो माया । एतानि चतुरक्षराणि भवन्ति । आद्यं वाग्भवं द्वितीयं
कामराजं तृतीयं शक्तिबीजं शुक्लं तरुगदिवाकराभं शशिकान्तं
क्रमेण स्मरेत् । कफारादित्वात्कीलिता । कोटिजपात् सिद्धिर्न जायते ।
यदा मन्मथकलादिर्भवति तदा निष्कीलिता भवेत् । सिद्धिदा भवेत् ।
सा वीर्यवती भवेत् । त्रैलोक्यं वशमानयेत् । पूजनाद्दौर्भाग्यनाशो
भवेत् । जपात् सिद्धीश्वरो भवेत् । इति शिवम् ॥ १॥
अथाद्यं शाम्भवं द्वितायं शाक्तं चेति गुरुमुखात् ज्ञातव्यम् ।
अन्यथा शापमाप्नुयात् । उपासना द्विविधा । शाम्भवं शाक्तं चेति । एवं
लोपनाल्लोपा । प्रथमं शम्भुचन्द्रौ । तदनु दिवाकरेन्द्रौ । ततः
पराबीजं वाग्भवम् । ततः कामराजं शिवचन्द्रकामशम्भुहरयः ।
पराबीजं शक्तिः । कामपरामध्ये देवराजमेतच्छक्तिकूटम् ।
एतेन पञ्चादशाक्षराणि भवन्ति । शम्भुप्रधानत्वाच्छाम्भवम् ।
पूर्णोऽहं शिवोऽहमद्वैतरूपोऽहं नित्यानन्दरूपोऽहं इति स्मरेत् । नापि
पूजायां व्रतनियमः । सर्वदा जपं चरेत् । विनोदतः कामिनीमध्ये
कामि नीर्दृष्ट्वा च सदानन्दरूपो भवेत् । दिव्याङ्गरागौर्देहं
भृषयेत् सुगन्धमाल्याम्बरालङ्काराद्यैः । मांसाद्यैः शुद्धैः
सुमधुरैर्भोजयेत् । भपञ्चकेन पूजा कार्या । सदा कौलिको भवेत् ।
कुलाचागत् सर्वसिद्धीश्वरो भवेत् । एकाकी शक्तियुक्तो भवेत् ।
मादनं भुक्त्वा शक्तिभुग्भवेत् । शक्तिचक्रं पूजयेत् । भोगेन शिवं
मोक्षमाप्नुयात् । शक्तिहर्षोत्पादनाच्छक्तिः प्रीता भवति । इति शिवम् ॥ २॥
अथ वकुलैरर्चयेत् । रक्तपुष्पैरर्चयेत् । तदभावे जलैस्तदभाबे
मानसीं भक्तिमाचरेत् । इति शिवम् ॥ ३॥
(शाक्त-उपनिषदः)
इत्याथर्वणशाखायां कामराजकीलितोद्धारोपनिषत् समाप्ता ।