परशुरामकल्पसूत्र द्वितीय भाग || Parashuram Kalpa Sutra Part 2

0

परशुरामकल्पसूत्र, श्रीविद्यासाधना किंवा त्रिपुरोपासना का एक अप्रतिमग्रन्थ है। जिस प्रकार वेद, कल्प नामक ग्रन्थ द्वारा अपने विविध सूत्रों से यज्ञाराधन की पद्धतियों का विशदीकरण करता है। उसी प्रकार यह कल्पसूत्र, में अपने आगममार्गी के रूप सिद्धान्त और उपासनागत रहस्यों के निरूपण में पूर्णत: सक्षम ग्रन्थ है तथापि यह सूत्ररूप में ही संगृहीत है। जहाँ तक इसकी परम्परा का सम्बन्ध है। यह अपने पूर्ववर्तीग्रन्थ, दत्तात्रेयसंहिता से पोषित तथा त्रिपुरारहस्य आदि परवर्ती रचनाओं का आधारभूत ग्रन्थ है। अतः परशुरामकल्पसूत्र पर विचार करते समय हमें दत्तात्रेयसंहिता एवं त्रिपुरारहस्य पर भी दृष्टिपात कर लेना चाहिये। परशुरामकल्पसूत्र दो भाग में वर्णित है,जिसका प्रथम भाग को पूर्व में दिया गया अब परशुरामकल्पसूत्र द्वितीय भाग में ८ खण्ड है।

परशुरामकल्पसूत्र द्वितीयोभागस्य खण्डाः

११. यन्त्रविधानम्

१२. मन्त्रविधानम्

१३. प्रस्तारक्रमः

१४. नष्टोद्दिष्टकथनम्

१५. कृतनष्टनिरूपणम्

१६. योनिलिङ्गयन्त्ररचनाविधानम्

१७. अङ्गविद्या

१८. वासनाध्यायः

श्रीपरशुरामकल्पसूत्रम् द्वितीय भाग (अनुबन्धः – परशुरामकल्पसूत्रपरिशिष्टम्)

एकादशः खण्डः यन्त्रविधानम्

अथातो वार्तालीसिद्धियन्त्रं व्याख्यास्यामः ॥ ११.१॥

भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नं

चतुरश्रद्वयं विधाय तदन्तर्वृत्तं कृत्वा

तदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानि

यथासम्प्रदायं विदध्यात् ॥ ११.२॥

तत्र अष्टसु कोणेषु अष्टस्वन्तराळेषु च

दशोत्तरशताक्षरीविद्यायाः षोडशवर्णान्

अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्य

पूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तरालेषु च खकारादिडकारान्तान्

तद्द्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तान्

द्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणे

यकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणे

इकाराद्यौकारान्तसहितान् वसुकोणे अङ्कारादिटकारान्तसहितान् दश (ईश)कोणे

ठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान्

विलिख्य लक्षताद्यद्वयवृत्तान्तरालवीथ्यां शिष्टान् दशवर्णान्

ओगजडदबलकृसंयुक्तान् विलिखेत् ॥ ११.३॥

अथ नवग्रहयन्त्रं व्याख्यास्यामः । नवकोष्ठान् विधाय, नवसु

कोणेषु वृत्तत्रयं विधाय, नवकर्णिकासु नवकोष्ठान् विलिख्य,

नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठ- वृत्तत्रयं

कर्णिकास्थ नवकोष्ठं, मध्यकोष्ठे मकारसहितं प्रणवं

विलिख्य, शिष्टेष्वष्टसु कोष्ठेषु अकाराद्यॄकारान्तानष्टस्वरान्

विलिख्य, अन्तर्वृत्तान्तराले मकारसहितान् षोडशस्वरान् लिखित्वा

बहिर्वृत्तान्तराले अकारादक्षकारान्तान् मातृकार्णान् विलिखेत् ॥ ११.४॥

एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रय-

कर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे ऌकारगर्भं प्रणवं

विलिख्य, पूर्वाद्यष्टुसु कोष्टेषु ऌकारादिविसर्गान्तानष्टस्वरांश्च

विलिख्य, अन्तर्वृत्तान्तराले ॡकारसहितान् षोडश-

स्वरान्, संलिख्य बाह्यवृत्तान्तराले अकारादिक्षका-

रान्तान् लिखेत् ॥ ११.५॥

एवं चन्द्रमण्डलं विधाय, अग्निस्थितवृत्तत्रयकर्णिका-

नवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य, ईशानकोष्ठा-

दिराक्षसकोष्ठान्तं कवर्गं विलिख्य, पश्चिमकोष्ठादिसोम-

कोष्ठान्तकोष्ठत्रये भौमायेति वर्णत्रयं विलिख्य, अन्तर्वृत्ता-

न्तराले ककारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्ता-

न्तरालवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधाय

बुधमण्डलं लिखेत् ॥ ११.६॥

दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्य-

कोष्ठे च कागर्भं प्रणवं विलिख्य, ईशानादिपञ्चकोष्ठेषु चवर्गं

विलिख्य, कोष्टत्रये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत्

षोडशस्वरसहितं चकारं विलिख्य, मातृकार्णं च विलिख्य,

नैरॄतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठे

पकारगर्भं प्रणवं विलिख्य, शिवादिकोष्ठपञ्चके पवर्गं

विलिख्य, शिष्टकोष्ठत्रये सौरये इति शनिनामवर्णान्

आलिख्य, अन्तरालद्वये पकारं मातृकां च विलिख्य,

पश्चिमकोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय,

तन्मध्यकोष्ठे टकारगर्भं प्रणवं विलिख्य, ईशानादिकोष्ठ-

पञ्चके टवर्णान् विलिख्य, कोष्ठत्रये गुरव इति विलिख्य,

पूर्ववदन्तरालद्वये टवर्गं मातृकां च विलिखेत् ॥ ११.७॥

एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भं प्रणवं

विलिख्य, ईशानादिकोष्ठपञ्चके यवर्गं विलख्य, राहव इति

लिखित्वा, सोमकोष्ठमध्ये कोष्ठे तकारगर्भं प्रणवं लिखित्वा,

ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य, ईशानकोष्ठे मध्ये

शकारं विलिख्य, ईशाद्यष्टसु कोष्ठेषु षवर्गं केतव – इति च

विलिख्य, अन्तरालद्वये षोडशस्वरसहितं शकारं मातृकां च

विलिखेत् इति नवग्रहचक्रं विधाय, नवग्रहपूजां कुर्यात् – इति शिवम् ॥ ११.८॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

यन्त्रविधान नामैकादशः खण्डः समाप्तः ॥ ११॥

श्रीपरशुरामकल्पसूत्रम् द्वादशः खण्डः मन्त्रविधानम्

अथातः शिवात्मकान् मन्त्रान् व्याख्यास्यामः ॥ १२.१॥

ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसहहरौः अमृतविग्रहा

पञ्चार्णा (५) ॥ १२.२॥

ॐ जुं सः पालय पालय सः जुं ॐ इति मृत्युञ्जय

विद्या द्वादशार्णा (१२) ॥ १२.३॥

श्रीं ह्रीं क्लीं – त्रिपुटाविद्या – इति त्रिवर्णा (३) ॥ १२.४॥

ॐ ह्रां ह्रीं ह्रूं वैरिमोहि गरुडपक्षि हर हर हिंस

हिंस स्वाहा – इति गरुडमन्त्रः त्रयोविंशत्यक्षरात्मकः (२३) ॥ १२.५॥

ॐ एहि परमेश्वरि स्वाहा – इत्यश्वारूढा दशाक्षरी (१०) ॥ १२.६॥

ॐ नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा –

इत्यन्नपूर्णाविद्या सप्तदशाक्षरी (१७) ॥ १२.७॥

हसक्षमलवरयूं – इत्येकाक्षरो नवात्मको मन्त्रः (१) ॥ १२.८॥

सहक्षमलवरयीं – इत्येकाक्षरा नवात्मिका (१) ॥ १२.९॥

ॐ ह्रीं नम – इति देवीहृदयविद्या चतुर्वर्णा (४) ॥ १२.१०॥

ॐ रुद्रदयिते योगेश्वरि स्वाहा इति द्वादशार्णा

गौरीविद्या (१२) ॥ १२.११॥

इटि इटि मुटि मुटि काकटमुण्डि स्वाहा – इति

लक्षसुवर्णप्रदा पञ्चदशाक्षरी (१५) ॥ १२.१२॥

ॐ नवकेशी कनकवती स्वाहा – इति निष्कत्रयप्रदा

विद्या द्वादशाक्षरी (१२) ॥ १२.१३॥

एकायकुणाणातुके – इत्यभीष्टदायिनी विद्याऽष्टाक्षरी (८) ॥ १२.१४॥

ऐं ह्रीं श्रीं मातङ्गिन्यै स्वाहा श्रीं ह्रीं ऐं – इति

मातङ्गिनीविद्या द्वादशाक्षरी (१२) ॥ १२.१५॥

ह्रीं श्रीं क्लें अ इ राज्यदे राज्यलक्ष्मी सः क्लें श्रीं ह्री

– इति राज्यलक्ष्मीविद्या षोडशाक्षरी (१६) ॥ १२.१६॥

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद

श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः – इति महालक्ष्मीविद्या

सप्तविंशतिवर्णा (२७) ॥ १२.१७॥

ज झ री म हा च ण्ड ते ज स्स क र्षि णी का ल मं था ने हः

– इति सिद्धलक्ष्मीविद्या सप्तदशार्णा (१७) ॥ १२.१८॥

ॐ गलयौं ॐ, ह्रीं गलयौं ह्रीं, क्लीं गलयौं क्लीं, ऐं

गलयौं ऐं, क्लूं गलयौं क्लूं, स्त्रीं गलयौं स्त्रीं,

ह्रीं क्लीं ऐं क्लूं स्त्रीं गलयौं द्रां द्रीं क्लीं क्लूं सः,

एते सप्तगोपालमन्त्राः ॥ १२.१९॥

एतेषां पारायणात् सर्वसिद्धीश्वरो भवेत् – इति शिवम् ॥ १२.२०॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

मन्त्रविधान नाम द्वादशः खण्डः समाप्तः ॥ १२॥

श्रीपरशुरामकल्पसूत्रम् त्रयोदशः खण्डः प्रस्तारक्रमः

अथातः प्रस्तारक्रमं व्याख्यास्यामः ॥ १३.१॥

अथातः स्वेच्छया कतिचित् धुवाक्षराणि केनचित् प्रकारेण

विलिख्य, तेष्वन्त्यशिरसि बिन्दुं विलिख्य, उपान्त्यवर्णमारभ्य

प्रथमवर्णपर्यन्तं व्युत्क्रमेण एकैकस्य वर्णस्य शिरस्येकैकमङ्कं

एकद्वित्रिचतुःपञ्चषडादिरूपमेकोत्तराभिवृद्धिं विलिख्य, तत

एकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेण

तानङ्कान् गुणयेत् ॥ १३.२॥

तेन हसकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसि

शून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट्

हकारस्य चतुर्विंशतिः – इति सिध्यति ॥ १३.३॥

ईदृशस्य बिन्द्वाद्यं कवर्गस्य खण्डाङ्क – इति संज्ञा,

नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥ १३.४॥

तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैव

सकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥ १३.५॥

ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥ १३.६॥

कादित्रयं द्विद्विवारं लिखेत् ॥ १३.७॥

लकारमायां च एकैकवारं लिखेत् ॥ १३.८॥

एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं सम्पद्यते ॥ १३.९॥

तं लकारं पञ्चमस्थाने लिखेत् ॥ १३.१०॥

प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥ १३.११॥

तृतीयादिषु पङ्क्तिषु द्वौ द्वौ वर्णौ न्यूनौ भवतः,

तावेकस्यां पङ्क्तौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात्

तावेव लिखेत् ॥ १३.१२॥

पुनस्तनपङ्क्तिद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यां

लिखेत् ॥ १३.१३॥

एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥ १३.१४॥

यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाः

समसङ्ख्यावृत्तका भवन्ति ॥ १३.१५॥

तेष्वाद्ये खण्डे वृत्ताद्यो ध्रुवाद्य एव, द्वितीये खण्डे

ध्रुवद्वितीय एव वृत्ताद्यः, तृतीये खण्डे धुवतृतीय एवेत्यपि

नियमोऽस्ति ॥ १३.१६॥

ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कॢप्तद्वितीयस्य

सकारात् परतः संस्थापयेत् ॥ १३.१७॥

एवं तृतीयखण्डादिमवृत्ते कहसलह्रीमिति क्रमः ॥ १३.१८॥

चतुर्थखण्डादौ लहसकह्रीं पञ्चमखण्डादौ ह्रीं

हसकल इति क्रमः ॥ १३.१९॥

प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौ

द्वावपि कह्रीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य कॣप्तस्य

त्यागे मानाभावात् ॥ १३.२०॥

एतेन नवमादिवृत्तेष्वपि सकारह्रीङ्कारयोः क्रमेण

लेख इत्यादि सिध्यति ॥ १३.२१॥

तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेखनीयानि ॥ १३.२२॥

यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयं

प्रस्तारः प्रथमवृत्तप्रथमाक्षरशिरोङ्को ध्रुवार्णसङ्ख्यया

गुणितश्चेत् प्रस्तारवृत्तसङ्खयापि निष्पद्यते ॥ १३.२३॥

तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्ध्रुवके षट् द्वितीयध्रुवके

द्वौ एकध्रुवके एकं – इति शिवम् ॥ १३.२४॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

प्रस्तारक्रम नाम त्रयोदशः खण्डः समाप्तः ॥ १३॥

श्रीपरशुरामकल्पसूत्रम् चतुर्दशः खण्डः नष्टोद्दिष्टकथनम्

अथातो नष्टोद्दिष्टं व्याख्यास्यामः ॥ १४.१॥

हसकलह्रीं इत्येषां पञ्चानामक्षराणां धुवप्रस्तारे

विंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायां

चतुरशीतिसङ्खयैव नष्टोऽङ्कः ॥ १४.२॥

खण्डाङ्कास्तु चतुर्विंशतिः षट् (द्वे) एकं शून्यं चेति

पूर्वमेवोक्त्या तेनैकैकेन नष्टाङ्कं विभजेत् ॥ १४.३॥

तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाः

द्वादशशिष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषता

भवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यं

तेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेष

विभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एकं

लब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धं

शून्यं शिष्टं तेन त्र्येकद्वयेकशून्यानि लब्धाङ्काः – एते प्रत्येकं

सैका कार्याः । तेन चतुर्द्वित्रिद्वयेकाङ्का भवन्ति ॥ १४.४॥

ततश्च पूर्वकॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषु

ध्रुववर्णेषु चतुर्द्विद्वयेकसङ्ख्यावर्णास्तान् सङ्खयायै निष्कास्य

पृथक् लिखेत् ॥ १४.५॥

यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥ १४.६॥

सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयः

सकार एव तत्र द्वितीयः ॥ १४.७॥

अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागे

गणने वाग्बीजपञ्चम एव तृतीयो भवति ॥ १४.८॥

माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात्

द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वो

भवतीति स तत्र चतुर्थः ॥ १४.९॥

वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीति

लसह्रीङ्कह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते – इति

शिवम् ॥ १४.१०॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

नष्टोद्दिष्टकथन नाम चतुर्दशः खण्डः समाप्तः ॥ १४॥

श्रीपरशुरामकल्पसूत्रम् पञ्चदशः खण्डः कृतनष्टनिरूपणम्

इत्थं कृतनष्टो लसह्रीङ्कह इत्याकारकं वृत्तं पञ्च-

धुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्य

तच्छिरसि खण्डाङ्कान् लिखेत् ॥ १५.१॥

ते यथा – चतुर्विंशतिः षट् दे एकं शून्यं चेति ॥ १५.२॥

ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रीं –

इत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनया

चतुर्थद्वितीयतुतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥ १५.३॥

तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येकद्व्येकशून्यानि

सम्पद्यन्ते ॥ १५.४॥

ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ १५.५॥

अथ अधोङ्केनोर्ध्वाङ्कं गुणयित्वा तत्तदक्षरा-

धोङ्काधःक्रमेण लिखेत् ॥ १५.६॥

यथा चतुर्विंशतिस्त्रिभिर्हननात् द्वासप्ततिभिः षण्णा-

मेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन

हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां

मेलने त्र्यशीतिः तेष्वङ्काङ्कप्रक्षेपे चतुरशीतिः सम्पद्यते – इति

शिवम् ॥ १५.७॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

कृतनष्टनिरूपण नाम पञ्चदशः खण्डः समाप्तः ॥ १५॥

श्रीपरशुरामकल्पसूत्रम् षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम्

अथातो योनियन्त्रं व्याख्यास्यामः ॥ १६.१॥

स्वेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु

दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदशसूत्राणि

पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा

भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥ १६.२॥

इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥ १६.३॥

पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः

कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय

यथासम्प्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं

चतुरश्रद्रयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टं

विलिख्य, तत्र सम्प्रदायेन वाग्भवे बीजभेदान् विंशत्यधिक-

शतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य, विशिष्टेषु

तृतीयबीजस्य प्रस्तारसञ्जनितचतुर्विंशतिभेदान् विलिखेत् ॥

अथ चतुरश्रद्वयान्तराले षड्रेखाया(पा)तनेन सप्तकोष्ठान्

संविधाय, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य,

शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् – इति

शिवम् ॥ १६.५॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

योनिलिङ्गयन्त्ररचनाविधान नाम षोडशः खण्डः समाप्तः ॥ १६॥

श्रीपरशुरामकल्पसूत्रम् सप्तदशः खण्डः अङ्गविद्या

अथातः सर्वमङ्गविद्यायाः स्वरूपबाहुल्योपदेशं तद्वि-

नियोगप्रस्तावं च करोति ॥ १७.१॥

तत्र वाताद्यैः ग्रासमयान्तैः अकाराद्यैः क्षकारान्तैः

मातृकाविसराक्षरैः प्रोक्तसङ्ख्यैरित्यर्थः ॥ १७.२॥

शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनां

च पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयो-

जनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशत-

सङ्ख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशः

प्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसङ्ख्याविद्यारूपाणि

सन्तीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थाने

स्वरान् षोडश योजयेत् ॥ १७.३॥

पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैः

तत्सङ्ख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयो-

जनतः षोडशाधिकद्विशतोत्तरनवसहस्रसङ्ख्याविद्यारूपाणि

भवन्तीति तैः सम्प्रोक्तसङ्ख्यैः विद्यारूपैः प्रयोजयेद्यन्त्रैरिति

आदौ वृत्तत्रयं तद्वहिः षट्कोणं तद्बहिरष्टदलं विधाय

तद्बहिर्वृत्तत्रयं विदध्यात् ॥ १७.४॥

तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥ १७.५॥

तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥ १७.६॥

षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥ १७.७॥

अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥ १७.८॥

बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमां स्वेन

सम्यक् समालिखेत् ॥ १७.९॥

अन्तःषडन्तरालेषु पर्यायदिनसम्भवे नित्ये लिखेत् ॥ १७.१०॥

प्रादक्षिण्येन सर्वत एवं यन्त्राणि जायन्ते ॥ १७.११॥

तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि च

ततः क्रमादिति वृतं, एवमन्यानि कूटानि प्रोक्तानि क्रमेण

विलिखेत् ॥ १७.१२॥

मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥ १७.१३॥

त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसङ्ख्याकैः सहस्रैश्च

शतेनापि चतुर्भिः तानि सङ्ख्यया यन्त्राणि जायन्ते ॥ १७.१४॥

तैश्च सा सर्वमङ्गला एवं कामेश्वर्यादिषोडशनित्यानां

पृथक् पृथक् यन्त्राणि स्युः ॥ १७.१५॥

तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यते

तेषु यत्किञ्चित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येन

स्युस्तेन च मैर्भित्त्वा षोडशधा मन्त्री विदध्यात् ॥ १७.१६॥

विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥ १७.१७॥

नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥ १७.१८॥

नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् ।

सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात् ॥ १७.१९॥

यद्यद्वि (द्धि) वाञ्छितं कर्म तत्तत्तेषु विलिख्य वै ।

पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥ १७.२०॥

ततः प्राप्ते वाञ्छितार्थे स्वात्मन्युद्वास्य देवताः ।

चक्रं प्रक्षाल्य तत्तोयं केदारादिषु निक्षिपेत् ॥ १७.२१॥

एवमन्यानि यन्त्राणि प्रोक्तानि क्रमशो भुवि ।

विनियोज्यान्यभीष्टेषु कार्येषूक्तक्रमेण वै ॥ १७.२२॥

परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः ।

सर्वतः सौम्यकर्माणि सिद्ध्यन्ते वाऽनया द्रुतम् ॥ १७.२३॥

वश्येषु ज्ञानसम्पत्त्यै सर्वप्रत्यूहशान्तये ।

लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥ १७.२४॥

विजयाय समस्तापत्तरणायाभिवृद्धये ।

पुत्रावाप्त्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥ १७.२५॥

गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये ।

तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥ १७.२६॥

निर्माय नवयन्त्राणि तत्र तत्रार्चयेच्छिवाम् ।

तेषु तेषूक्तकार्येषु तत्तत्सम्प्राप्तिहेतवे ॥ १७.२७॥

नवप्रकारयुक्तानि षोडशप्रथमादिषु ।

तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गलाम् ॥ १७.२८॥

पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवेदिति शिवम् ॥ १७.२९॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

अङ्गविद्या नाम सप्तदशः खण्डः समाप्तः ॥ १७॥

श्रीपरशुरामकल्पसूत्रम् अष्टादशः खण्डः वासनाध्यायः

अथातो वासनां व्याख्यास्यामः ॥ १८.१॥

तदात्मकं समुदयं मदात्मिकापि विश्रितम् ।

हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ १८.२॥

कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् ।

पराहन्तामयं सर्वस्वरूपस्वात्मविग्रहम् ॥ १८.३॥

सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् ।

प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ १८.४॥

वरयन्ते एवमतो लोके नान्यत्र मन्त्रवदक्षरम् ।

यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥ १८.५॥

अथ मन्त्रार्थः-

ललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते ।

शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ १८.६॥

अशेषतो जगत् कृत्स्नं हृल्लेखात्मकतः परम् ।

तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ १८.७॥

व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।

ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥ १८.८॥

१. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि ।

२. ह्रीं श्रीं आं भगमालिनीपादुकां पूजयामि

३. ह्रीं श्रीं इं नित्यक्लिन्नापादुकां पूजयामि ।

४. ह्रीं श्रीं ईं भेरुण्डापादुकां पूजयामि ।

५. ह्रीं श्रीं उं वह्निवासिनीपादुकां पूजयामि ।

६. ह्रीं श्रीं ऊं महावज्रेश्वरीपादुकां पूजयामि

७. ह्रीं श्रीं ऋं शिवदूतीपादुकां पूजयामि ।

८. ह्रीं श्रीं ॠं त्वरितापादुकां पूजयामि ।

९. ह्रीं श्रीं ऌं कुलसुन्दरीपादुकां पूजयामि ।

१०. ह्रीं श्रीं ॡं नित्यापादुकां पूजयामि ।

११. ह्रीं श्रीं एं नीलपताकापादुकां पूजयामि ।

१२. ह्रीं श्रीं ऐं विजयापादुकां पूजयामि ।

१३. ह्रीं श्रीं ओं सर्वमङ्गलापादुकां पूजयामि ।

१४. ह्रीं श्रीं औं ज्वालामालिनीपादुकां पूजयामि

१५. ह्रीं श्रीं अं चित्रापादुकां पूजयामि ।

१६. ह्रीं श्रीं अः त्रिपुरसुन्दरीपादुकां पूजयामि ॥ १८.९॥

शङ्कुच्छायया दिक्परिज्ञानक्रमं प्रस्तावसहितं

उपदिशति ॥ १८.१०॥

तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगति-

भेदज्ञानच्छाययेति यावत् ॥ १८.११॥

तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥ १८.१२॥

पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्ने

कृत्वेत्यर्थः ॥ १८.१३॥

तदभिमतः तद्द्वयमवष्टभ्य सममानपारभ्रान्त्या तच्चि-

ह्नद्वयान्तरालमानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेन

अन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥ १८.१४॥

तयोः पूर्वापरयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थित

इत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक्

सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरं

दक्षिणोत्तरं तेषां मण्डपादीनामग्रैः सूत्राग्रैः ॥ १८.१५॥

एतदुक्तं भवति – जीमूताद्यपरिवेष्टितभानौ दिवसे

छायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्प-

णोदरसङ्काशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तदवष्टम्भतः

प्रतिदिशं द्वादशाङ्गलमानेन वृत्तं कृत्वा तत्र षडङ्गलमान-

परिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताग्र –

परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रा(छा)यसहितं वृत्ताकारं

शिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूल-

परिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाह्णे

तत्तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र ततोऽपराह्णे

तच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे चिह्नं विधाय

तच्चिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्वया-

वष्टम्भेन तच्चिह्नान्तरालमानस्य चेष्टाधिकेनार्धमानेनान्योन्य-

समेते किञ्चिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय

तद्वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्य –

गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राक्

प्रत्यक्दक्षिणोत्तरसूत्रद्वयसम्पाताद्वृत्तवक्ष्यमाणमानेन तुल्य-

रूपपरिकल्पितसूत्राग्रैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्द-

क्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेत् ॥ १८.१६॥

सर्वप्रयत्नेन विद्याऽऽराधितद्वारा पूर्णताख्यातिसमा-

वेशनेच्छा चेत्येते समयाचारिकाः । परे च शास्त्रानुशिष्टाः ॥ १८.१७॥

इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य

सर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकाश्योर्नान्तरं

जीवन्मुक्तो भवति ॥ १८.१८॥

य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुर-

सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति ।

यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते

इत्युपनिषत् – इति शिवम् ॥ १८.१९॥

य एवं वेदेत्युपनिषत् ॥ १८.२०॥

भद्रं नो अपि वादय मनः ॐ शान्तिः शान्तिः शान्तिः ॥ १८.२१॥

इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक

श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-

महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे

वासना नामाष्टादशः खण्डः समाप्तः ॥ १८॥

इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥

इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसम्भूत

महादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गव-

महोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *