लक्ष्मी सूक्त, Lakshmi Suktam सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे

0

सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे |

भगवति हरिवल्ल्भे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् ||

धनंमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः |

धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्विनौ ||

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा |

सोमं धनस्य सोमनो मह्यं ददातु सोमिनः ||

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः |

भवन्ति कृत पुण्यानां भक्तानां सूक्तंजापिनाम् ||

पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे |

तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ||

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् |

विष्णुप्रियां सखीं देवीं नमाम्यच्युत वल्ल्भाम् ||

महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि |

तन्नो लक्ष्मीः प्रचोदयात् ||

पद्मानने पद्मिनिपद्मपत्रे पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि |

विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्त्व ||

आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः |

ऋषयः श्रियपुत्राश्च मय श्रीर्देवी देवता ||

ऋणरोगादि दारिद्र्यं पापन्च अपमृत्युवः |

भयशोकमनस्तापा नश्यन्तु मम सर्वदा ||

श्रीर्वर्चस्यमायुष्यमारोग्यमाविधाच्छोभमानं महीयते |

धनंधान्यंपशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ||

|| अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *