तंत्रोक्त भैरव कवच, Tantrokt Bhairav Kavacham

0

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः |

पातु मां बटुको देवो भैरवः सर्वकर्मसु ||

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा |

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ||

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे |

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ||

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा |

संहारभैरवः पायादीशान्यां च महेश्वरः ||

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः |

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ||

रामदेवो वनान्ते च वने घोरस्तथावतु |

जले तत्पुरुषः पातु स्थले ईशान एव च ||

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु |

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ||

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः |

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा ||

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा |

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ||

|| इति श्रीभैरव कवचं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *