मातङ्गी स्तवन, Matangi Stavan

0

ईश्वरोवाच

आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्तिमापुः |

अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये || १ ||

नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् |

आम्लायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण || २ ||

विनम्रदेवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् |

भजन्ति ये देवि महीपतीनां ब्रजन्ति ते सम्पदमादरेण || ३ ||

मातङ्गिनीनां गमने भवत्याः शिञ्जिनमञ्जीरमिदं भजे ते |

मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचनं विशुद्धम् || ४ ||

पादात्पदं शिञ्जितनूपुराभ्यां कृतार्थयंतीं पदवीं पदाभ्याम् |

आस्फालयंतीं कलवल्लकीं तां मातङ्गीनीं सद्वृद्धयां घिनोमि || ५ ||

लीलांशुकाबद्धनितम्बविम्बां तालीदलेनार्पितकर्णभूषाम् |

माध्वीसदाघूर्णितनेत्रपद्मां घनस्तनीं शम्भुवधुं नमामि || ६ ||

तडिल्लताकान्तमलक्ष्यभूषं चिरेण लक्ष्यं नवलोमराज्या |

स्मरामि भक्त्या जगतामधिशे बलित्रयाकं तव मध्यमम्ब || ७ ||

नीलोत्पलानां श्रियमावहन्तीं कान्त्या कटाक्षैः कमलाकराणाम् |

कदम्बमालाञ्चितकेशपाशां मतङ्गकन्यां हृदि भावयामि || ८ ||

ध्यायेयमारक्तकपोलविम्बं विम्बाधरन्यस्तललामरम्यम् |

आलोलनीलालकमायताक्षं मन्दस्मितं ते वदनं महेशि || ९ ||

स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गीनीं वागधिदेवतां माम् |

स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति || १० ||

|| इति श्रीरुद्रयामले मातङ्गीस्तवः समाप्त ||

Leave a Reply

Your email address will not be published. Required fields are marked *