श्री शिवा शिव द्वारा गणेश स्तोत्र, Shree Shiva Shiv krut Ganesh Stotram

0

श्रीशक्तिशिवावूचतुः

ॐ नमस्ते गणनाथाय गणानां पतये नमः |

भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ||

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च |

नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ||

वरदाभयहस्ताय नमः परशुधारिणे |

नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ||

अनामयाय सर्वाय सर्वपूज्याय ते नमः |

सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ||

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते |

आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ||

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः |

अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ||

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते |

त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ||

किं स्तुवो योगरूपं तं प्रणमावश्च विध्नपम् |

तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः ||

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ||

श्रीगणेश उवाच

भवत्कृतमिदं स्तोत्रं मम भक्तिर्विवर्धनम् ||

भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् |

भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ||

धनधान्यदिकं सर्वं लभते तेन निश्चितम् ||

|| इति शक्तिशिवकृतं गणाधीशस्तोत्रं सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *