श्री भद्रकाली कवचम् || Shri Bhadrakali Kavacham

0

श्रीभद्रकालीकवचम् माँ की महिमा अपरम्पार है। भद्रकाली की कृपा से ऐसा कोई भी कार्य नहीं है जो सिद्ध न हो सके।

|| श्रीभद्रकाली कवचम् ||

श्रीगणेशाय नमः ।

नारद उवाच ।

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।

नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥ १॥

नारायण उवाच ।

श्रृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।

गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २॥

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।

दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ॥ ३॥

दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।

पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ॥ ४॥

बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः ।

कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥ ५॥

नारद उवाच ।

श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।

अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥ ६॥

नारायण उवाच ।

श्रृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।

नारायणेन यद्दत्तं कृपया शूलिने पुरा ॥ ७॥

त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।

तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥ ८॥

दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने ।

अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥ ९॥

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।

क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥ १०॥

ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु ।

क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान् सदाऽवतु ॥ ११॥

क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ।

ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ॥ १२॥

ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु ।

ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ १३॥

ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ।

ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ॥ १४॥

ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु ।

रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदाऽवतु ॥ १५॥

ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु ।

ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ १६॥

प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका ।

दक्षिणे पातु चामुण्डा नैरृत्यां पातु कालिका ॥ १७॥

श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।

उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ॥ १८॥

पातूर्ध्वं लोलजिह्वा सा मायाद्या पात्वधः सदा ।

जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ १९॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।

सर्वेषां कवचानां च सारभूतं परात्परम् ॥ २०॥

सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादतः ।

कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥ २१॥

प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ।

यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥ २२॥

यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् ।

महादानानि सर्वाणि तपांस्येवं व्रतानि च ।

निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ २३॥

इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् ।

शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २४॥

॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम

सप्तत्रिंशोऽध्यायः ॥ ३७॥

Leave a Reply

Your email address will not be published. Required fields are marked *