श्री कमलात्मिकोपनिषत्, Shri Kamalatmika Upnishad
अथ लोकान् पर्यटन् सनत्कुमारो ह वैदेहः
पुण्य – चिताल्लोकानतीत्य वैष्णवं धाम
दिव्य – गणोपेतं विद्रुम् – वेदिका – मणि –
मुक्ता – गणार्चितं प्राय | तत्रापश्यन् महा –
मायां परार्द्धय्- वस्त्राभरणोत्तरीयां पर्यङ्कस्था
वस्त्राभरणोत्तरीयां पर्यङ्कस्थां पारे चरन्ती मादि –
देवं भगवन्तं परमेश्वरं दृष्ट्वा च तां गद् गद वाक् –
प्रफुल्ल – रोमा स्तोतुमुप – चक्रमे ||
वाचं मे दिशतु श्रीर्देवी, मनो मे दिशतु वैष्णवी |
ओजस्तेजो बलं दाक्ष्यं बुद्धेर्वैभवमस्तु
मे | त्वत् – प्रसादाद् भगवति ! प्रज्ञानं मे ध्रुवं भवेत् |
शन्नो दिशतु श्रीर्देवी महा – माया वैष्णवी
शक्तिराद्या | यामासाद्य स्वयमादि –
देवो भगवान् परावरज्ञस्त्रिधा सम्भिन्नो लोकांस्त्रीन्
सृजत्यवत्यत्ति च | यद् – भ्रू – विक्षेप – बलमापन्नो ह्यब्ज –
योनिस्तदितरे चामरा मुख्याः सृष्टि – चक्र – प्रणेतारः सम्बभूवुः |
या वै वरदा स्वोपाया सु – प्रसन्ना सुखयति सहस्त्र –
पुरुषान् ये लोकाः सन्ततमानमन्ति शिरसा हृदयेन
च तामेकां लोक – पूज्यां न ते दुर्गतिं यान्ति भूताः ||
अथ महत्या संवृद्धया साम्राज्येन पुत्रैः पौत्रैरन्वितो भूमि –
पृष्ठे शतं समास्त इज्याभिरिष्ट् वा
देवान् पितृन् मनुष्यानथ भूरी – दक्षिणाभिस्त्वत् –
प्रसादान्महान्तो गच्छन्ति वैष्णवं लोकमपुनर्भवाय
ये राजर्षयो ब्रह्मर्षयस्तेऽपि चासत् – कृत् त्वां
प्रागसन्त एव सुखमामनन्ति | नान्यः पन्थाः विद्यतेऽयनाय किं पुनरिहादि
– देवो भगवान्नारायणस्त्वा मधीं – देवाखिलं करोति |
किं वर्णये त्वां, सहस्त्र – कृत्वा नमस्ते ||
य इमा ऋचः पठन्ति प्रातरुत्थाय भूरी दान
तेषां किञ्जि दिह यावशिष्टय्यदैश्वर्य दुर्लभं प्राणिनां हि ||
|| श्रीकमलात्मिकोपनिषत् ||