श्री राम द्वादशनाम स्तोत्रम् || Shri Ram Dvadashanam Stotram

0

सभी पाप,बाधा की शांति के लिए श्रीरामद्वादशनामस्तोत्रम् का पाठ करें-

|| श्रीरामद्वादशनामस्तोत्रम् ||

प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् ।

तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।

सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम् ।

एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥

द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः ।

अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।

ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५॥

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् ।

ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।

अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥

इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादे

श्रीरामद्वादशनामस्तोत्रम् सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *