श्री सशक्तिशिवनवकम् | Sri Sakthishivanavakam

0

सशक्तिशिवनवकम् के इस ९ श्लोक से नित्य पाठ करने शक्ति-शिव कि कृपा प्राप्त होकर साधक कि सभी इच्छाएँ पूरी होती है।

सशक्तिशिव नवकम्

वेदशास्त्रपुराणेतिहासकाव्यकलादिषु ।

विज्ञानं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ १॥

चतुर्दशासु विद्यासु चतुःषष्टिकलासु च ।

चतुरां धियमाधेहि ऐं नमः क्लीं शिवाय सौः ॥ २॥

मीमांसायां समस्तायां शब्दशास्त्रे विशेषतः ।

देहि मे देव सम्प्रज्ञां ऐं नमः क्लीं शिवाय सौः ॥ ३॥

गणितेषु च सर्वज्ञ देहि मे परमेश्वर ।

सम्यक् ज्ञानं जगन्नाथ ऐं नमः क्लीं शिवाय सौः ॥ ४॥

सकलेष्वपि काव्येषु सकलासु कथासु च ।

साहित्यं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ ५॥

हृदयाम्भोरुहे नित्यं वस मे जगदीश्वर ।

हर मे दुरितं शश्वत् ऐं नमः क्लीं शिवाय सौः ॥ ६॥

जन्मान्तरकृतं पापं बुद्धेर्जाड्यकरं शिव ।

जहि जन्तुषु निन्दां च ऐं नमः क्लीं शिवाय सौः ॥ ७॥

विषयेषु विरक्तिं च विविधेषु विधेहि मे ।

विनतेष्टद विश्वेश ऐं नमः क्लीं शिवाय सौः ॥ ८॥

मुक्तिमार्गपरं चित्तं कुरु मे जगदीश्वर ।

मुग्धचन्द्रकलाचूड ऐं नमः क्लीं शिवाय सौः ॥ ९॥

इत्येतन्नवकं नित्यं भक्तितो यः पठेन्नरः ।

प्रारम्भास्तस्य सिद्ध्यन्ति प्रार्थितं चापि सिद्ध्यति ॥ १०॥

इति सशक्तिशिवनवकं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *