सूर्य सहस्त्रनाम स्तोत्रम् || Surya Sahasranama Stotram

0

जीवन से सरे दुखों के नाश और अक्षय सुख कि प्राप्ति के लिए भविष्यपुराणान्तर्गत श्रीसूर्यसहस्रनामस्तोत्रम् का नित्य पाठ करें।

|| भविष्यपुराणान्तर्गता श्रीसूर्यसहस्रनामस्तोत्रम् ||

सुमन्तुरुवाच

माघे मासि सिते पक्षे सप्तम्याङ्कुरुनन्दन ।

निराहारो रविम्भक्त्या पूजयेद्विधिना नृप ॥ १॥

पूर्वोक्तेन जपेज्जप्यन्देवस्य पुरतः स्थितः ।

शुद्धैकाग्रमना राजञ्जितक्रोधो जितेन्द्रियः ॥ २॥

शतानीक उवाच

केन मन्त्रेण जप्तेन दर्शनं भगवान्व्रजेत् ।

स्तोत्रेण वापि सविता तन्मे कथय सुव्रत ॥ ३॥

सुमन्तुरुवाच

स्तुतो नामसहस्रेण यदा भक्तिमता मया ।

तदा मे दर्शनं यातः साक्षाद् देवो दिवाकरः ॥ ४॥

शतानीक उवाच –

नाम्नां सहस्रं सवितुः श्रोतुमिच्चामि हे द्विज ।

येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः ॥ १॥

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।

स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ २॥

न तदस्ति भयं किञ्चिद्यदनेन न नश्यति ।

ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः ॥ ३॥

अन्ये च रोगाः शाम्यन्ति पठतः श्रृण्वतस्तथा ।

सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः ॥ ४॥

य एतदादितः श्रुत्वा सङ्ग्रामं प्रविशेन्नरः ।

स जित्वा समरे शत्रूनभ्येति गृहमक्षतः ॥ ५॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।

भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम् ॥ ६॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ।

पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥ ७॥

स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते ।

धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः ॥ ८॥

राज्याय राज्यकामैश्च पठितव्यमिदं नरैः ।

विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ ९॥

पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् ।

पठतां श्रृण्वतामेतद्भवतीति न संशयः ॥ १०॥

तच्चृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते ।

नाम्नां सहस्रं विख्यातं देवदेवस्य धीमतः ॥ ११॥

ध्यानम् –

ध्येयः सदा सवितृमण्डलमध्यवर्ती

नारायणः सरसिजासनसन्निविष्टः ।

केयूरवान् मकरकुण्डलवान् किरीटी

हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

|| अथ सूर्यसहस्रनामस्तोत्रम् ||

ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।

विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।

महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।

भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।

वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः ।

नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।

समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ ६॥

कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।

समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ ७॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ ८॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।

सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ।

अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ १०॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।

एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ ११॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।

दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ १२॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।

यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ १३॥

परापरज्ञस्तरणिरंशुमाली मनोहरः ।

प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥

सदागतिर्गन्धवहो विहितो विधिराशुगः ।

पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।

त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको वह्निस्तपनः संप्रतापनः ॥ १७॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।

सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।

श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।

कामचारी महामायो महोग्रोऽविदितामयः ॥ २०॥

तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।

कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।

बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।

तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।

नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥

अजितो विजितो जेता जङ्गमस्थावरात्मकः ।

जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥ २५॥

पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः ।

प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥

ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।

सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥ २७॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।

वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।

असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥ २९॥

सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।

गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ ३०॥

भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।

सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ ३१॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।

अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ ३२॥

महावैद्यो गणपतिर्धनेशो गणनायकः ।

तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ ३३॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ।

पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।

आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।

विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।

प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ ३७॥

नभो विगाहनः सत्यः सवितात्मा मनोहरः ।

हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ ३८॥

सुखसेव्यो महातेजा जगतामेककारणम् ।

महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।

व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४०॥

आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः ।

हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ ४१॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।

सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ ४२॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।

केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।

सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ ४४॥

कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।

कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ ४५॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।

उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ ४७॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।

आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ ४८॥

गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ।

जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ ४९॥

सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ।

रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥

मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।

शिष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।

सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ।

सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ५३॥

वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ।

क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ ५४॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।

अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ ५५॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।

चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ ५६॥

वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।

अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।

शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ ५८॥

सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ।

बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥ ५९॥

अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ।

संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥

पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।

सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥

पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ।

अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२॥

शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः ।

सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।

स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ।

विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥ ६५॥

अखिन्नो वेदनिलयो वेदविद्विदिताशयः ।

प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥

कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ।

ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।

मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८॥

मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।

चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥

अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्चुचिः ।

सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ७१॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।

शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।

विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ ७३॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।

स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ ७४॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः संप्रकाशकः ।

दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।

महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ ७६॥

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ।

चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥ ७७॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।

सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।

पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः ।

सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।

वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ ८१॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।

सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ ८२॥

विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।

द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ ८३॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।

सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ ८४॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।

सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।

सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।

सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥

सन्तापनः सन्तपन आतपस्तपसां पतिः ।

उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ८८॥

प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।

जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ ८९॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।

श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९०॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।

धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।

उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ ९२॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।

स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।

एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ ९४॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।

प्रलम्बहारासञ्चारी प्रद्योतो द्योतितानलः ॥ ९५॥

सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।

श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ ९६॥

संसारगतिविच्चेत्ता संसारार्णवतारकः ।

सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।

लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ ९८॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।

पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।

ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ १००॥

खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।

भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ १०१॥

एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।

शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ १०२॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।

वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।

उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ १०४॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।

सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।

धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ १०६॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।

सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।

मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।

राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ १०९॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।

चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ ११०॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।

जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।

निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ ११२॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।

पापसन्तापहर्ता च मनोवाञ्चितदायकः ॥ ११४॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।

साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः

भयापहर्ता भगवानप्रमेयपराक्रमः ।

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११७॥

फलश्रुतिः

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि ।

नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥ १॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २॥

यस्त्विदं श्रृणुयान्नित्यं पठेद्वा प्रयतो नरः ।

अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ ३॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।

विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।

जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः

प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।

दूरेण तं परिहरन्ति सदैव रोगाः

भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६॥

॥ इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *