यम स्तोत्रम् , Yam Stotram

0

ऋषिपुत्र उवाच

त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे |

पितृणां परमो देवः चतुष्पाद नमोऽस्तु ते ||

कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः |

प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते ||

कर्ता कारयिता चैव भूतभव्यभवत् प्रभो |

पावको मोहनश्चैव संक्षेपो विस्तरस्तथा |

दंडपाणे विरुपाक्ष पाशहस्त नमोऽस्तु ते ||

आदित्यसदृशाकार सर्वजीवहर प्रभो |

कृष्णवर्ण दुराधर्ष तैलरुप नमोऽस्तु ते ||

मार्तण्ड सदृश श्रीमान् मार्तण्डसम तेजसा |

हव्यकव्यवहः त्वं हि प्रभविष्णो नमोऽस्तु ते ||

पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः |

एकदृग् बहुदृग् भूत्वा काल मृत्यो नमोऽस्तु ते ||

क्वचित् दण्डी क्वचित् मुंडी क्वचित् कालो दुरासदः |

क्वचित् बालः क्वचित् वृद्धः क्वचित् रौद्र नमोऽस्तु ते ||

त्वया विराजितो लोकः शासता धर्महेतुना |

प्रत्यक्षं दृश्यते देव त्वद्विना न च सिद्धयति ||

देवानां परमं दैवं तपसां परमं तपः |

जपानां परमं जप्यं त्वत्तः चान्यो न दृश्यते ||

ऋषयो वा तथा क्रुद्धा हतबन्धु सुहृज्जनाः |

पतिव्रतास्तु या नार्यो दुःखिताः तपसि स्थिताः |

नत्वा शक्ता इह स्थानात् पातनाय कदाचन ||

तस्मात् त्वं सर्वदेवेषु एको धर्मभृतां वरः |

कृतज्ञः सत्यवादी च सर्वभूतहिते रतः ||

|| यम स्तोत्रम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *