यमाष्टकम् , Yamashtakam

0

सावित्री उवाच

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा |

धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् || १ ||

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः |

अतो यन्नाम शमनं इति तं प्रणमाम्यहम् || २ ||

येनांतश्च कृतो विश्वे सर्वेषां जीविनां परम् |

कामानुरूपं कालेन तं कृतांतं नमाम्यहम् || ३ ||

बिभर्ति दंडं दंडाय पापिनां शुद्धिहेतवे |

नमामि तं दंडधरं यः शास्ता सर्वजीविनाम् || ४ ||

विश्वं च कलयत्येव यः सर्वेषु च संततम् |

अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् || ५ ||

तपस्वी ब्रह्मनिष्ठोः यः संयमी संजितेन्द्रियः |

जीवानां कर्मफलदः तं यमं प्रणमाम्यहम् || ६ ||

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् |

पापिनां क्लेशदो यस्तं पुण्यं मित्रं नमाम्यहम् || ७ ||

यज्जन्म ब्रह्मणोंऽशेन ज्वलंतं ब्रह्मतेजसा |

यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् || ८ ||

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने |

यमस्तां शक्तिभजनं कर्मपाकं उवाच ह || ९ ||

इदं यमाष्टकं नित्यं प्रातरूत्थाय यः पठेत् |

यमात् तस्य भयं नास्ति सर्वपापात् प्रमुच्यते || १० ||

महापापी यदि पठेत् नित्यं भक्तिसमन्वितः |

यमः करोति संशुद्धं कायव्यूहेन निश्चितम् || ११ ||

|| यम अष्टकम सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *