अद्वैताष्टकम् || Advait Ashtakam

0

अद्वैताष्टकम् – जिन पापों की शुद्धि के लिए कोई उपाय नहीं, उनके लिए भगवान के नामों के स्तोत्र का पाठ करना सबसे अच्छा साधन है । नामों का पाठ मंगलकारी, मनवांछित फल देने वाला, दु:ख-दारिद्रय, रोग व ऋण को दूर करने वाला और आयु व संतान को देने वाला माना गया है ।

अद्वैताष्टकम्

हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं

हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् ।

धूपदीपकस्तुरी च चन्द्रनादिलेपनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ १॥

गङ्गावारि मनोहारि तुलस्यादि मञ्जरी

कृष्णज्ञानसदाध्यान प्रेमवारिझर्झरी ।

कृपाब्धिः करुणानाथ भविष्यति प्रार्थनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ २॥

मुहुर्मुहुः कृष्ण कृष्ण उच्चैः स्वरे गायतं

अहे नाथ जगत्त्रातः मम दृष्टिगोचरम् ।

द्विभुज करुणानाथ दीयतां सुदर्शनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ३॥

श्री अद्वैतप्रार्थनार्थ जगन्नाथालयं

शचीमातुर्गर्भजात चैतन्यकरुणामयम् ।

श्री अद्वैतसङ्गरङ्गकीर्तनविलासनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ४॥

अद्वैतचरणारविन्दज्ञानध्यानभावनं

सदाद्वैतपादपद्मरेणुराशिधारणम् ।

देहि भक्तिं जगन्नाथ रक्ष मामभजनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ५॥

सर्वदातः सीतानाथ प्राणेश्वर सद्गुणं

ये जपन्ति सीतानाथपादपद्मकेवलम् ।

दीयतां करुणानाथ भक्तियोगः तत्क्षणं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ६॥

श्री चैतन्य जयाद्वैत नित्यानन्द करुणामयं

एक अङ्ग त्रिधामूर्ति कैशोरादि सदा वरम् ।

जीवत्राण भक्तिज्ञान हुङ्कारादि गर्जनं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ७॥

दीनहीननिन्दकादि प्रेमभक्तिदायकं

सर्वदातः सीतानाथ शान्तिपुरनायकम् ।

रागरङ्गसङ्गदोषकर्मयोगमोक्षणं

सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ८॥

इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।

अद्वैताष्टकं २

गङ्गातीरे तत्पयोभिस्तुलस्यः

पत्रैः पुष्पैः प्रेमहुङ्कारघोषैः ।

प्राकट्यार्थं गौरमाराधयद्यः

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ १॥

यद्धुङ्करैः प्रेमसिन्धोर्विकारै-

राकृष्टः सन् गौरगोलोकनाथः ।

आविर्भुतः श्रीनवद्वीपमध्ये

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ २॥

ब्रह्मादीमां दुर्लभप्रेमपूरै-

रादिनां यः प्लावयामास लोकं ।

आविर्भाव्य श्रीलचैतन्यचन्द्रं

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ३॥

श्रीचैतन्यः सर्वशक्तिप्रपूर्णो

यस्यैवाजमात्रतोऽन्तर्ददेऽपि ।

दुर्विजेयं यस्य कारुण्यकृत्यं

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ४॥

सृष्टिस्थित्यन्तं विधातुं प्रवृत्त

यस्यंसंसः ब्रह्मविष्ण्विश्वराख्याः ।

येनाभिन्नं तं महाविष्णुरूपं

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ५॥

कस्मिंश्चिद्यः श्रूयते चाश्रयत्वात्

शम्भोरित्थं सम्भवन्नाम धाम ।

सर्वाराध्यं भक्तिमात्रैकसाध्यं

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ६॥

सीतानाम्नि प्रेयसी प्रेमपूर्ण

पुत्रो यस्यऽप्यच्युतानन्दनाम ।

श्रीचैतन्यप्रेमपूरप्रपूर्णः

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ७॥

नित्यानन्दद्वैततोऽद्वैतनाम

भक्त्याख्यानद्यः सदाचर्यनाम ।

शश्वच्चेतसाचरद्गौरधाम

श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ८॥

प्रातः प्रीतः प्रत्यहं संपठेद्यः

सीतानाथस्यष्टकं शुद्धबुद्धिः ।

सोऽयं साम्यं तस्य पादारविन्दे

विन्दन्भक्तिं तत्प्रियात्वं प्रयाति ॥ ९॥

इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *