एकार्णगणेशत्रिशती || Ekarna Ganesh Trishati

0

यह श्रीएकार्णगणेशत्रिशती नाम स्तोत्र सभी विघ्नों का नाश करनेवाला, शीघ्र वैवाहिक सुख प्रदाता,संतान,उत्तम विद्या तथा सभी मनोरथ पूर्ण करनेवाला है। ऐसा श्रीविनायकतन्त्र में ईश्वर(शिव) ने पार्वती से कहा है।

श्रीएकार्णगणेशत्रिशती

श्रीदेव्युवाच –

एकार्णस्य त्रिंशतीं ब्रूहि गणेशस्य महेश्वर ॥

श्रीशिव उवाच –

॥ विनियोगः ॥

हरिः ॐ अस्य श्रीएकार्णगणेशत्रिशतीस्तोत्रमहामन्त्रस्य

श्रीगणको ऋषिः । अनुष्टुप्छन्दः । ब्रह्मणस्पतिर्देवता । गं बीजं ।

श्र्यों शक्तिः । श्रीएकार्णगणेशप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

॥ ध्यानम् ॥

ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रं

एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।

शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालं

श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥

॥ पञ्चपूजा ॥

ॐ लं पृथिव्यात्मने गन्धं समर्पयामि ।

ॐ हं आकाशात्मने पुष्पैः पूजयामि ।

ॐ यं वाय्वात्मने धूपमाघ्रापयामि ।

ॐ रं वह्न्यात्मने दीपं दर्शयामि ।

ॐ वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।

ॐ सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

अथ एकार्ण गणेश त्रिशती

गंबीजमन्त्रनिलयो गंबीजो गंस्वरूपवान् ॥ १॥

गंकारबीजसंवेद्यो गंकारो गंजपप्रियः ॥ २॥

गंकाराख्यपरंब्रह्म गंकारशक्तिनायकः ।

गंकारजपसन्तुष्टो गंकारध्वनिरूपकः ॥ ३॥

गंकारवर्णमध्यस्थो गंकारवृत्तिरूपवान् ।

गंकारपत्तनाधीशो गंवेद्यो गंप्रदायकः ॥ ४॥

गंजापकधर्मदाता गंजापीकामदायकः ।

गंजापीनामर्थदाता गंजापीभाग्यवर्द्धनः ॥ ५॥

गंजापकसर्वविद्यादायको गंस्थितिप्रदः ।

गंजापकविभवदो गंजापकजयप्रदः ॥ ६॥

गंजपेनसन्तुष्ट्य भुक्तिमुक्तिप्रदायकः ।

गंजापकवश्यदाता गंजापीगर्भदोषहा ॥ ७॥

गंजापकबुद्धिदाता गंजापीकीर्तिदायकः ।

गंजापकशोकहारी गंजापकसुखप्रदः ॥ ८॥

गंजापकदुःखहर्ता गमानन्दप्रदायकः ।

गंनामजपसुप्रीतो गंजापीजनसेवितः ॥ ९॥

गंकारदेहो गंकारमस्तको गंपदार्थकः ।

गंकारशब्दसन्तुष्टो गन्धलुभ्यन्मधुव्रतः ॥ १०॥

गंयोगैकसुसंलभ्यो गंब्रह्मतत्त्वबोधकः ।

गंभीरो गन्धमातङ्गो गन्धाष्टकविराजितः ॥ ११॥

गन्धानुलिप्तसर्वाङ्गो गन्धपुण्ड्रविराजितः ।

गर्गगीतप्रसन्नात्मा गर्गभीतिहरः सदा ॥ १२॥

गर्गारिभञ्जको नित्यं गर्गसिद्धिप्रदायकः ।

गजवाच्यो गजलक्ष्यो गजराट् च गजाननः ॥ १३॥

गजाकृतिर्गजाध्यक्षो गजप्राणो गजाजयः ।

गजेश्वरो गजेशानो गजमत्तो गजप्रभुः ॥ १४॥

गजसेव्यो गजवन्द्यो गजेन्द्रश्च गजप्रभुः ।

गजानन्दो गजमयो गजगञ्जकभञ्जकः ॥ १५॥

गजात्मा गजमन्त्रात्मा गजज्ञानप्रदायकः ।

गजाकारप्राणनाथो गजानन्दप्रदायकः ॥ १६॥

गजको गजयूथस्थो गजसायुज्यकारकः ।

गजदन्तो गजसेतुः गजदैत्यविनाशकः ॥ १७॥

गजकुंभो गजकेतुः गजमायो गजध्वनिः ।

गजमुख्यो गजवरो गजपुष्टिप्रदायकः ॥ १८॥

गजमयो गजोत्पत्तिः गजामयहरः सदा ।

गजहेतुर्गजत्राता गजश्रीः गजगर्जितः ॥ १९॥

गजास्यश्च गजाधीशो गजासुरजयोद्धुरः ॥ २०॥

गजब्रह्मा गजपतिः गजज्योतिर्गजश्रवाः ।

गुणेश्वरो गुणातीतो गुणमायामयो गुणी ॥ २१॥

गुणप्रियो गुणांभोधिः गुणत्रयविभागकृत् ।

गुणपूर्णो गुणमयो गुणाकृतिधरः सदा ॥ २२॥

गुणभाग्गुणमाली च गुणेशो गुणदूरगः ।

गुणज्येष्ठोऽथ गुणभूः गुणहीनपराङ्मुखः ॥ २३॥

गुणप्रवणसन्तुष्टो गुणश्रेष्ठो गुणैकभूः ।

गुणप्रविष्टो गुणराट् गुणीकृतचराचरः ॥ २४॥

गुणमुख्यो गुणस्रष्टा गुणकृद्गुणमण्डितः ।

गुणसृष्टिजगत्सङ्घो गुणभृद्गुणपारदृक् ॥ २५॥

गुणाऽगुणवपुर्गुणो गुणेशानो गुणप्रभुः ।

गुणिप्रणतपादाब्जो गुणानन्दितमानसः ॥ २६॥

गुणज्ञो गुणसंपन्नो गुणाऽगुणविवेककृत् ।

गुणसञ्चारचतुरो गुणप्रवणवर्द्धनः ॥ २७॥

गुणलयो गुणाधीशो गुणदुःखसुखोदयः ।

गुणहारी गुणकलो गुणतत्त्वविवेचकः ॥ २८॥

गुणोत्कटो गुणस्थायी गुणदायी गुणप्रभुः ।

गुणगोप्ता गुणप्राणो गुणधाता गुणालयः ॥ २९॥

गुणवत्प्रवणस्वान्तो गुणवद्गौरवप्रदः ।

गुणवत्पोषणकरो गुणवच्छत्रुसूदनः ॥ ३०॥

गुरुप्रियो गुरुगुणो गुरुमायो गुरुस्तुतः ।

गुरुवक्षा गुरुभुजो गुरुकीर्तिर्गुरुप्रियः ॥ ३१॥

गुरुविद्यो गुरुप्राणो गुरुयोगप्रकाशकः ।

गुरुदैत्यप्राणहरो गुरुबाहुबलोच्छ्रयः ॥ ३२॥

गुरुलक्षणसंपन्नो गुरुमान्यप्रदायकः ।

गुरुदैत्यगळच्छेत्ता गुरुधार्मिककेतनः ॥ ३३॥

गुरुजङ्घो गुरुस्कन्धो गुरुशुण्डो गुरुप्रदः ।

गुरुपालो गुरुगळो गुरुप्रणयलालसः ॥ ३४॥

गुरुशास्त्रविचारज्ञो गुरुधर्मधुरन्धरः ।

गुरुसंसारसुखदो गुरुमन्त्रफलप्रदः ॥ ३५॥

गुरुतन्त्रो गुरुप्रज्ञो गुरुदृग्गुरुविक्रमः ।

ग्रन्थगेयो ग्रन्थपूज्यो ग्रन्थग्रन्थनलालसः ॥ ३६॥

ग्रन्थकेतुर्ग्रन्थहेतुर्ग्रन्थाऽनुग्रहदायकः ।

ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ ३७॥

ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ।

ग्रन्थकेतुर्ग्रन्थसेतुर्ग्रन्थसन्देहभञ्जकः ॥ ३८॥

ग्रन्थपारायणपरो ग्रन्थसन्दर्भशोधकः ।

गीतकीर्तिर्गीतगुणो गीतातत्त्वार्थकोविदः ॥ ३९॥

गीतासंशयसंछेत्ता गीतासङ्गीतशासनः ।

गताहङ्कारसञ्चारो गतागतनिवारकः ॥ ४०॥

गतासुहृद्गताज्ञानो गतदुष्टविचेष्टितः ।

गतदुःखो गतत्रासो गतसंसारबन्धनः ॥ ४१॥

गतगल्पनिर्गतभवो गततत्त्वार्थसंशयः ।

गयानाथो गयावासो गयासुरवरप्रदः ॥ ४२॥

गयातीर्थफलाध्यक्षो गयावासीनमस्कृतः ।

गयामयो गयाक्षेत्रो गयायात्राफलप्रदः ॥ ४३॥

गयावासीस्तुतगुणो गयाक्षेत्रनिवासकृत् ।

गायकप्रणयी गाता गायकेष्टफलप्रदः ॥ ४४॥

गायको गायकेशानो गायकाऽभयदायकः ।

गायकप्रवणस्वान्तो गायकोत्कटविघ्नहा ॥ ४५॥

गन्धानुलिप्तसर्वाङ्गो गन्धर्वसमरक्षमः ।

गच्छधाता गच्छभर्ता गच्छप्रियकृतोद्यमः ॥ ४६॥

गीर्वाणगीतचरितो गृत्समाऽभीष्टदायकः ।

गीर्वाणसेवितपदो गीर्वाणफलदायकः ॥ ४७॥

गीर्वाणगणसंपत्तिः गीर्वाणगणपालकः ।

ग्रहत्राता ग्रहासाध्यो ग्रहेशानो ग्रहेश्वरः ॥ ४८॥

गदाधरार्चितपदो गदायुद्धविशारदः ।

गुहाग्रजो गुहाशायी गुहप्रीतिकरः सदा ॥ ४९॥

गिरिव्रजवनस्थायी गिरिराजजयप्रदः ।

गिरिराजसुतासूनुः गिरिराजप्रपालकः ॥ ५०॥

गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।

गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ॥ ५१॥

गणकप्रवणस्वान्तो गणकप्रणयोत्सुकः ।

गळलग्नमहानादो गद्यपद्यविवेचकः ॥ ५२॥

गळकुष्ठव्यधाहर्ता गळत्कुष्ठिसुखप्रदः ।

गर्भसन्तोषजनको गर्भामयनिवारकः ॥ ५३॥

गुरुसन्तापशमनो गुरुराज्यसुखप्रदः ।
एकार्णगणेशत्रिशती फलश्रुतिः

इत्थं देवी गजास्यस्य नाम्नां त्रिशतमीरितम् ॥ ५४॥

गकारादिजगीवन्द्यं गोपनीयं प्रयत्नतः ।

नास्तिकाय न वक्तव्यं शठाय गुरुविद्विषे ॥ ५५॥

वक्तव्यं भक्तियुक्ताय शिष्याय गुणशालिने ।

चतुर्थ्यां भौमवारे वा यः पठेद्भक्तिभावतः ॥ ५६॥

यं यं कामं समुद्दिश्य त्रिसन्ध्यं वा सदा पठेत् ।

तं तं काममवाप्नोति सत्यमेतन्न संशयः ॥ ५७॥

नारी वा पुरुषो वापि सायं प्रातर्दिने दिने ।

पठन्ति नियमेनैव दीक्षिता गाणपोत्तमाः ॥ ५८॥

तेभ्यो ददाति विघ्नेशः पुरुषार्थचतुष्टयम् ।

कन्यार्थी लभते रूपगुणयुक्तां तु कन्यकाम् ॥ ५९॥

पुत्रार्थी लभते पुत्रान् गुणिनो भक्तिमत्तरान् ।

वित्तार्थी लभते राजराजेन्द्र सदृशं धनम् ॥ ६०॥

विद्यार्थी लभते विद्याश्चतुर्दशमितावराः ।

निष्कामस्तु जपेन्नित्यं यदि भक्त्या दृढव्रतः ॥ ६१॥

स तु स्वानन्दभवनं कैवल्यं वा समाप्नुयात् ॥ ६२॥

॥ इति श्रीविनायकतन्त्रे ईश्वरपार्वतीसंवादे

श्रीएकार्णगणेशत्रिशतीस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *