लक्ष्मीकवचम, Lakshmi Kavach

0

ईश्वर उवाच

अथ वक्ष्ये महेशानि कवचं सर्वकामदम् |

यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः || १ ||

नार्चनं तस्य देवेशि मन्त्रमात्रं जपन्नरः |

स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः || २ ||

विद्यार्थिनां सदा सेव्या धनदात्री विशेषतः |

विद्यार्थिभिस्सदा सेव्या कमला विष्णुवल्लभा || ३ ||

अथ विनियोगः

ॐ अस्याश्चतुरक्षरी विष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषिरनुष्टुप छंदो

वाग्भवी देवता वाग्भवं बीजं लज्जा शक्तिः रमा कीलकं कामबीजात्मकं कवचं

मम सुकवित्वसुपान्डित्य सर्वसिद्धिसमृद्धये विनियोगः ||

ऐंकारी मस्तके पातु वाग्भवी सर्वसिद्धिदा |

ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी || ४ ||

जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि |

ओष्ठाधारे दन्तपंक्तौ तालुमूले हनौ पुनः || ५ ||

पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरुपिणी |

कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती || ६ ||

हृदये मणिबन्धे च ग्रीवायां पार्श्वयोर्द्वयोः |

पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा || ७ ||

उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः |

जानुचक्रे पदद्वन्द्वे घुटिकेऽन्गुलिमूलके || ८ ||

स्वधा तु प्राणशक्त्यां वा सीमन्त्यां मस्तके तथा |

सर्वांगे पातु कामेशी महादेवी समुन्नतिः || ९ ||

व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु |

ऋद्धिः पातु सदा देवि सर्वत्र शम्भुवल्लभा || १० ||

वाग्भवो सर्वदा पातु पातु मां हरगेहिनी |

रमा पातु महादेवी पातु माया स्वराट् स्वयम् || ११ ||

सर्वांगे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी |

विजया पातु भवने जया पातु पातु सदा मम || १२ ||

शिवदूती सदा पातु सुन्दरी पातु सर्वदा |

भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु || १३ ||

त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु |

पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु || १४ ||

नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु |

योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम् || १५ ||

मात्राः पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः |

सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा || १६ ||

पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा |

इति ते कथितं दिव्यं कवचं सर्वसिद्धये || १७ ||

यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् |

शठाय भक्तिहिनाय निन्दकाय महेश्वरि || १८ ||

न्यूनाङ्गे ह्यतिरिक्ताङ्गे दर्शयेन्न कदाचन |

न स्तवं दर्शयेद्दिव्य दर्शनाच्छिवहा भवेत् || १९ ||

कुलीनाय महेच्छाय दुर्गाभक्तिपराय च |

वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् || २० ||

निजशिष्याय शान्ताय धनिने ज्ञानिने तथा |

दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् || २१ ||

शनौ मंगळवारे च रक्तचंदनकैस्तथा |

यावकेन लिखेन्मन्त्रं सर्वचक्रसमन्वितम् || २२ ||

विलिखेत्कवचं दिव्यं स्वयम्भूकुसुमैः शुभैः |

स्वशुक्रै: परशुक्रैश्च नानगंधसमन्वितैः || २३ ||

गोरोचनाकुंकुमेन रक्तचंदनकेन वा |

सुतिथौ सुभयोगे वा श्रवणायां रवेर्द्दिने || २४ ||

अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च |

पूर्वभाद्रपदायोगे स्वात्यां मंगलवासरे || २५ ||

विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये |

आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः || २६ ||

इन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च |

कौलवे बालवे चैव वणिजे चैव सत्त्तमः || २७ ||

शून्यागारे श्मशाने वा विजने च विशेषतः |

कुमारीं पूजयित्वा च जयजेद्देवीं सनातनीम् || २८ ||

मत्स्यैर्माँसै: शाकपूपैः पूजयेत्परदेवताम् |

घृताद्यैः सोपकरणैः पुष्पधूपैर्विशेषतः || २९ ||

ब्राह्मणान् भोजयित्वा च पूजयेत्परमेश्वरीम् |

आखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम् || ३० ||

तदा कुर्यान्महारक्षां शंकरेण प्रभाषितम् |

मारणद्वेषणादीनि लभते नात्र संशयः |

स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः || ३१ ||

गुरुर्देवो हरः साक्षातपत्नी हरप्रिया |

अभेदन यजेद्यस्तु तस्य सिद्धिरदूरतः || ३२ ||

पठति य इह मर्त्यो नित्यमार्द्रांतरात्मा |

जपफलमनुमेवं लक्ष्यते याद्विशेषम् |

स भवति पदमुच्चैः सम्पदापादनम्र

क्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ||

|| विश्वासारतन्त्रे लक्ष्मीकवच सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *