श्री शिव सहस्रनाम स्तोत्रं श्री सौरपुराणान्तर्गतम् || Shiv Sahastranam Stotram Shrisourapurane

0

शिव सहस्त्रनाम जिसे की आपने पूर्व क्रम में पढ़ा – तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे, स्कन्दपुराणान्तर्गतम्श्रीशिवसहस्रनामस्तोत्रम्, शङ्करसंहिता श्रीशिवसहस्रनामस्तोत्रम्, श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०। इसी श्रृंखला के अन्तर्गत अब यहाँ श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम् पढ़ेंगे।

|| श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम् ||

ऋषय ऊचु –

सुदर्शनाख्यं यच्चक्रं लब्धवांस्तत्कथं हरिः ।

महादेवाद्भगवतः सत्त तद्वक्तुमर्हसि ॥ १॥

सूत उवाच –

देवासुराणामभवत्सङ्ग्रामोऽद्भुतदर्शनः ।

देवा विनिर्जिता दैत्यैर्विष्णुं शरणमागताः ॥ २॥

स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः ।

भयभीताश्च ते सर्वे क्षताङ्गाः क्लेशिता भृशम् ॥ ३॥

तान्दृष्ट्वा प्राह भगवान्देवदेवो जनार्दनः ।

किमर्थमागता देवा वक्तुमर्हथ साम्प्रतम् ॥ ४॥

वचः श्रुत्वा हरेर्देवाः प्रणम्योचुः सुरोत्तमाः ।

निर्जिता दानवैः सर्वे शरणं त्वामिहाऽऽगताः ॥ ५॥

गतिस्त्वमेव देवानां त्राता त्वं पुरुषोत्तम ।

हन्तुमर्हसि ताञ्शीघ्रमवध्यान्वारिजेक्षण ॥ ६॥

जालन्धरवधार्थाय यच्चक्रं शूलपाणिनः ।

महादेववराल्लब्धं जहि तेन महाबलान् ॥ ७॥

तेषां तद्वचनं श्रुत्वा भगवान्वारिजेक्षणः ।

अहं देवास्तथा नूनं करिष्यामीति सुव्रताः ॥ ८॥

हिमवत्पर्वतं गत्वा पूजयामास शङ्करम् ।

लिङ्गं तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥ ९॥

त्वरिताख्येन रुद्रेण सम्पूज्य च महेश्वरम् ।

ततो नाम्नां सहस्रेण तुष्टाव परमेश्वरम् ॥ १०॥

प्रतिनाम च पद्मानि तैरिष्ट्वा वृषभध्वजम् ।

भवाद्यैर्नामभिर्भक्त्या स्तोतुं समुपचक्रमे ॥ ११॥

श्रीविष्णुरुवाच

भवः शिवो हरो रुद्रः पुष्कलो मुग्धलोचनः ।

अग्रगण्यः सदाचारः सर्वः शम्भुर्महेश्वरः ॥ १२॥

ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ।

वरीयान्वरदो वन्द्यः शङ्करः परमेश्वरः ॥ १३॥

गङ्गाधरः शूलधरः परार्थैकप्रयोजकः ।

सर्वज्ञः सर्वदेवादिर्गिरिधन्वा जटाधरः ॥ १४॥

चन्द्रापीडश्चन्द्रमौलिर्वेधा विश्वामरेश्वरः ।

वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ १५॥

ध्यानाहारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ १६॥

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।

वामदेवो महादेवः पटुः परिवृढो दृढः ॥ १७॥

विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः ।

सर्वप्रणवसंवादी वृषाङ्को वृषवाहनः ॥ १८॥

ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।

मनोमयो महायोगी स्थिरो ब्रह्माण्डधूर्जटी ॥ १९॥

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।

नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥ २०॥

दृगायुधः स्कन्दगुरुः परमेष्ठी परायणः ।

अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ २१॥

कुबेरबन्धुः श्रीकण्ठो लोकवन्द्योत्तमो मृदुः ।

सामान्यो देवको दण्डी नीलकण्ठः परश्वधीः ॥ २२॥

विशालाक्षो महाव्याधः सुरेशः सूर्यतापनः ।

धर्मधामा क्षमाक्षेत्रं भगवान्भगनेत्रहा ॥ २३॥

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः ।

दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ २४

श्मशाननिलयस्तिष्यः श्मशानस्थो महेश्वरः ।

लोककर्ता भूतपतिर्महाकर्ता महौषधिः ॥ २५॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ॥ २५॥

सोमपोऽमृतपः सौम्यो महानीतिर्महास्मृतिः ।

अजातशत्रुरालोक्यः सम्भाव्यो हव्यवाहनः ॥ २७॥

लोककारो वेदकारः सूत्रकारः सनातनः ।

महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः ॥ २८॥

पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदः सुधा ।

धात्रीधामा धामकरः सर्वगः सर्वगोचरः ॥ २९॥

ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ।

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ ३०॥

गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थितः ।

विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ ३१॥

सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ।

कामदेवः कामकालो भस्मोद्धूलितविग्रहः ॥ ३२॥

भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।

समावृत्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः ॥ ३३॥

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ ३४॥

अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।

शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ॥ ३५॥

भस्मशुद्धिकरो मेरुस्तेजस्वी शुद्धविग्रहः ।

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥ ३६॥

महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः ।

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥ ३७॥

अमृतात्माऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ।

पञ्चविंशतितत्त्वस्थः पारिजातः परापरः ॥ ३८॥

सुलभः सुव्रतः शूरो वाग्मायैकनिधिर्निधिः ।

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ ३९॥

आश्रमः क्षपणः क्षामो ज्ञानवानचलश्चलः ।

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ४०॥

धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ।

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥ ४१॥

अविवाद्यो महाकायो विश्वकर्मा विशारदः ।

वीतरागो विनीतात्मा तपस्वी भूतवाहनः ॥ ४२॥

उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ।

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥ ४३॥

तपस्वी तारको धीमान्प्रधानप्रभुरव्ययः ।

लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥ ४४

वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ।

राहुः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥ ४५॥

भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ।

अद्रिद्रोणिकृतस्थानः पवनात्मा जगत्पतिः ॥ ४६॥

सर्वकर्माचलस्त्वष्टा मङ्गऽल्यो मङ्गलप्रदः ।

महातपा दीर्घतपाः स्थविष्णुः स्थविरो ध्रुवः ॥ ४७॥

अहः संवत्सरो व्यालः प्रमाणं परमं तपः ।

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ ४८॥

अजः सर्वेश्वरः सिद्धो महारेता महाबलः ।

योगी योगो महादेवः सिद्धः सर्वादिरच्युतः ॥ ४९॥

वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ।

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥ ५०॥

कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ।

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥ ५१॥

अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।

कालयोगी महानादो महोत्साहो महाचलः ॥ ५२॥

महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ५३॥

अनिर्देश्यवपुः श्रीमान्सर्वाकर्षकरो मतः ।

बहुश्रुतो बहुमायो नियतात्माऽभयोद्भवः ॥ ५४॥

ओजस्तेजोद्युतिधरो नर्तकः सर्वनायकः ।

नित्यघण्टाप्रियो नित्यप्रकाशात्मा प्रतापनः ॥ ५५॥

ऋद्धः स्पष्टाक्षरो मन्त्रः सङ्ग्रामः शारदप्लवः ।

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ५६॥

इष्टो विशिष्टः शिष्टेष्टः शरभः सरभो धनुः ।

अपां निधिरधिष्ठानं विजयो जयकालवित् ॥ ५७॥

प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ।

विमोचनं सुरगणो विद्येशो विबुधाश्रयः ॥ ५८॥

बालरूपो बलोन्मायी विकर्ता गहनो गुहः ।

करणं कारणं कर्ता सर्वबन्धप्रमोचनः ॥ ५९॥

व्यवसायो व्यवस्थानः स्थानदो जनदादिजः ।

दुन्दुभो ललितो विश्वो भवात्माऽऽत्मनि संस्थितः ॥ ६०॥

राजराजप्रियो रामो राजचूडामणिः प्रभुः ।

वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥ ६१॥

वीरचूडामणिहर्ता तीव्रानन्दो नदीधरः ।

आत्माधारस्त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ६२॥

बालखिल्यो महाचारस्तिग्मांशुर्वारिधिः खगः ।

अभिरामः सुशरण्यः सुब्रह्मण्यः सुधापतिः ॥ ६३॥

मधुमान्कौशिको गोमान्विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ६४॥

अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।

परब्रह्मपदो हंसः शबरो व्याघ्रकोऽनलः ॥ ६५॥

रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ।

रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽर्जुनः ॥ ६६॥

मुक्तिरुन्नतकीर्तिश्च शान्तरामः पुरञ्जयः ।

कैलासपतिः कामारिः सविता रविलोचनः ॥ ६७॥

विद्वत्तमो वीतभयो विश्वकर्माऽनिवारितः ।

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ६८॥

दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥ ६९॥

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।

विश्वगोप्ता विश्वहर्ता सुवीरो रुचिराङ्गदी ॥ ७०॥

जननो जनजन्मादिः प्रीतिमान्नीतिमानथ ।

वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ७१॥

प्रणवः सत्पथाचारो महाकायो महाधनुः ।

जन्माधिपो महादेवः सकलागमपारगः ॥ ७२॥

तत्त्वं तत्त्वविदेकात्मा विभूतिर्भूतिभूषणः ।

ऋषिर्ब्राह्मणविद्विष्णुर्जन्ममृत्युजरातिगः ॥ ७३॥

यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ।

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥ ७४॥

पञ्चब्रह्मसमुत्पत्तिर्विश्वतो विमलोदयः ।

आत्मयोनिरनाद्यन्तः पट्त्रिंशो लोकभृत्कविः ॥ ७५॥

गायत्रीवल्लभः प्रांशुर्विश्वावासः सदाशिवः ।

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ७६॥

अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः ।

स्वयञ्ज्योतिरनुज्योतिरचलः परमेश्वरः ॥ ७७॥

पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ।

ज्ञानस्कन्धो महाज्ञानी वीरोत्पत्तिरुपप्लवी ॥ ७८॥

भगो विवस्वानादित्यो योगाचारो दिवस्पतिः ।

उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥ ७९॥

नक्षत्रमार्ला नाकेशः स्वाधिष्ठानषडाश्रयः ।

पवित्रपादः पापारिर्मणिपूरो नभोगतिः ॥ ८०॥

हृत्पुण्डरीकमासीनः शुक्राशानो वृषाकपिः ।

तुष्टो गृहपतिः कृष्णः समर्थोऽनर्थशासनः ॥ ८१॥

अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥

बृहद्भुजो ब्रह्मगर्भो धर्मधेनुर्धनागमः ॥ ८२॥

जगद्धितैषी सुगतः कुमारः कुशलागमः ।

हिरण्यगर्भो ज्योतिष्मानुपेन्द्रस्तिमिरापहः ॥ ८३॥

अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः ।

ब्रह्मज्योतिः सुबुद्धात्मा बृहज्ज्योतिरनुत्तमः ॥ ८४

मातामहो मातरिश्वा मनस्वी नागहारधृक् ।

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥

निरावरणविज्ञानो विरञ्चो विष्टरश्रवाः ।

आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ ८६॥

लोकचूडामणिर्वीरश्चन्द्रः सत्यपराक्रमः ।

व्यालकल्पो महाकल्पः कल्पवृक्षः कलानिधिः ॥ ८७॥

अलकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ।

आशुः सप्तपतिर्वेगी प्लवनः शिखिसारथिः ॥ ८८॥

असन्तुष्टोऽतिथिः शुक्तः प्रमाथी पापशासनः ।

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ८९॥

जयो जरारिशमनो लोहिताश्वस्तनूनपात् ।

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ ९०॥

निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ।

सुखी नीलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥ ९१॥

वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।

मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥ ९२॥

जमदग्निर्जलनिधिर्विपाको विश्वकारकः ।

अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥ ९३॥

शैलो नाम तरुर्दाहो दानवारिररिन्दमः ।

चामुण्डी जनकश्चारुर्निःशल्यो लोकशल्यहृत् ॥ ९४॥

चतुर्वेदश्चतुर्भावश्चतुरश्चत्वरप्रियः ।

आम्नायोऽथ समाम्नायरतीर्थदेवः शिवालयः ॥ ९५॥

वज्ररूपो महादेवः सर्वरूपश्चराचरः ।

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥ ९६॥

सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ।

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तरः ॥ ९७॥

पिङ्गलाक्षोऽथ हर्यश्वो नीलग्रीवो निरामयः ।

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ॥ ९८॥

पद्मासनः परं ज्योतिः परावरः परं फलम् ।

पद्मगर्भो महागर्भो विश्वगर्भो विलक्षणः ॥ ९९॥

यज्ञभुग्वरदो देवो वरेशश्च महास्वनः ।

देवासुरगुरुर्देवः शङ्करो लोकसम्भवः ॥ १००॥

सर्ववेदमयोऽचिन्त्यो देवतासत्यसम्भवः ।

देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १०१॥

देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ।

देवासुराणां वरदो देवासुरनमस्कृतः ॥ १०२॥

देवासुरमहामात्रो देवासुरमहाश्रयः ।

सर्वदेवमयोऽचिन्त्यो देवानामात्मसम्भवः ॥ १०३॥

ईड्योऽनीशः सुरव्याप्तो देवसिंहो दिवाकरः ।

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०४॥

शिवध्यानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।

वज्रहस्तः प्रतिष्टम्भी विश्वज्ञानी निशाकरः ॥ १०५॥

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥ १०६॥

लिङ्गाध्यक्षः सुराध्यक्षो धर्माध्यक्षो युगावहः ।

स्ववशः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १०७॥

बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः ।

दम्भोऽदम्भो महादम्भः सर्वेभूतमहेश्वरः ॥ १०८॥

श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ।

लोकोत्तरः स्फुतालोकस्त्र्यम्बको भक्तवत्सलः ॥ १०९॥

अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ।

वीतदोषोऽक्षयगुणोऽन्तकारिः पूषदन्तभित् ॥ ११०॥

धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ।

आकारः सकलाधारः पाण्डुरागो मृगो नटः ॥ १११॥

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।

सामगेयः प्रियः क्रूरः पूण्यकीर्तिरनामयः ॥ ११२॥

मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।

जीवितान्तकरोऽनन्तो वसुरेता वसुप्रदः ॥ ११३॥

सद्गतिः सत्कृतिः शान्तः कालकण्ठः कलाधरः ।

मानी मन्तुर्महाकालः सद्भूतिः सत्परायणः ॥ ११४॥

चन्द्रसञ्जीवनः शास्ता लोकरूढो महाधिपः ।

लोकबन्धुर्लोकनाथः कृतज्ञः कृतभूषणः ॥ ११५॥

अनपायोऽक्षरः शान्तः सर्वशस्त्रभृतां वरः ।

तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥ ११६॥

सुविस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ।

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥ ११७॥

तुम्बी वीणा महाशोको विशोकः शोकनाशनः ।

त्रिलोकेशस्रिलोकात्मा सिद्धिः शुद्धिरधोक्षजः ॥ ११८॥

अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।

वरशीलो वरगुणो गतो गव्ययनो मयः ॥ ११९॥

ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्मतः ।

वेधा विधाता स्रष्टा च कर्ता हर्ता चतुर्मुखः ॥ १२०॥

कैलासशिखरावासी सर्वावासी सदागतिः ।

हिरण्यगर्भो गगनः पुरुषः पूर्वजः पिता ॥ १२१॥

भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ।

संयमो योगविद्भ्रष्टो ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२२॥

देवप्रियो देवनाथो दैवज्ञो देवचिन्तकः ।

विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ १२३॥

निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।

दर्पहा दर्पणो दृप्तः सर्वर्तुपरिवर्तकः ॥ १२४॥

सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ।

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥ १२५॥

अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजदर्शनः ॥

सत्त्ववान्सात्विकः सत्यः कीर्तिस्तम्भः कृतागमः ।

अकम्पितो गुणग्राही नैकात्मा लोककर्मकुत् ॥ १२७॥

श्रीवल्लभः शिवारम्भः शान्तभद्रः समञ्जसः ।

भूशयो भूतिकृद्भूतिर्विभूतिर्भूतिवाहनः ॥ १२८॥

अकायो भूतकायरथः कालज्ञानो महापटुः ।

सत्यव्रतो महात्याग इच्छाशान्तिपरायणः ॥ १२९॥

परार्थवृत्तिवरदो विविक्तः श्रुतिसागरः ।

अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ १३०॥

स्वभावभद्रो मध्यस्थः शत्रुघ्नः शत्रुनाशनः ।

शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १३१॥

मेखली कञ्चुकी खड्गी मौली संसारसारथिः ।

अमृत्युः सर्वजित्सिंहस्तेजोराशिर्महामणिः ॥ १३२॥

असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ।

वेद्यो वैद्यो वियद्गोप्ता सप्तावरमुनीश्वरः ॥ १३३॥

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।

सुरेशः शरणं शर्म सर्वः शब्दवतां गतिः ॥ १३४॥

कालः पक्षः करङ्कारिः कङ्कणीकृतवासुकिः ।

महेष्वासो महीभर्ता निष्कलङ्को विश्रृङ्खलः ॥ १३५॥

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।

विवृतः संवृतः शिल्पी व्यूढोरस्को महाभुजः ॥ १३६॥

एकज्योतिर्निरातङ्को नरनारायणप्रियः ।

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ १३७॥

स्तव्यः स्तवप्रियः स्तोता व्योममूर्तिरनाकुलः ।

निरवेद्यपदोपायो विद्याराशिरकृत्रिमः ॥ १३८॥

प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ।

ध्येयोऽग्रधुर्यो धात्रीशः साकल्यः शर्वरीपतिः ॥ १३९॥

परमार्थगुरुर्व्यापी शुचिराश्रितवत्सलः ।

रसो रसज्ञः सारज्ञः सर्वसत्त्वावलम्बनः ॥ १४०॥

एवं नाम्नां सहस्रेण तुष्टाव गिरिजापतिम् ।

सम्पूज्य परया भक्त्या पुण्डरीकैद्विजोत्तमाः ॥ १४१॥

जिज्ञासार्थं हरेर्भक्त्या कमलेषु शिवः स्वयम् ।

तत्रैकं गोपयामास कमलं मुनिपुङ्गवाः ॥ १४२॥

हृते पुष्पे तदा विष्णुश्चिन्तयन्किमिदं त्विति ।

ज्ञात्वाऽऽत्मनोऽक्षिमुद्धृत्य पूजयामास शङ्करम् ॥ १४३॥

अथ ज्ञात्वा महादेवो हरेर्भक्ति सुनिश्चलाम् ।

प्रादुर्भूतो महादेवो मण्डलात्तिग्मदीधितेः ॥ १४४॥

सूर्यकोटिप्रतीकाशस्त्रिनेत्रश्चन्द्रशेखरः ।

शूलटङ्कदगाचक्रकुन्तपाशधरो विभुः ॥ १४५॥

वरदाभयपाणिश्च सर्वाभरणभूषितः ।

तं दृष्ट्वा देवदेवेशं भगवान्कमलेक्षणः ॥ १४६॥

पुनर्ननाम चरणौ दण्डवच्छूलपाणिनः ।

दृष्ट्वा शम्भुं तदा देवा दुद्रुवुर्भयविह्वलाः ॥ १४७॥

चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ।

अधश्चोर्ध्वं ततः प्रीते ददाह शतयोजनम् ॥ १४८॥

शम्भोर्भगवतस्तेजस्तद्दृष्ट्वा प्रहसञ्शिवः ।

अब्रवीच्छार्ङ्गिणं विप्राः कृताञ्जलिपुटं स्थितम् ॥ १४९॥

देवकार्यमिऽदं ज्ञातमिदानीं मधुसूदन ।

दिव्यं ददामि ते चक्रमद्भुतं तत्सुदर्शनम् ॥ १५०॥

हितार्थं सर्वदेवानां निर्मितं यन्मया पुरा ।

गृहीत्वा तद्गुणैर्दैत्याञ्जहि विष्णो ममाऽऽज्ञया ॥ १५१॥

एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।

लोकेषु पुण्डरीकाक्ष इति ख्यातिं गता हरिः ॥ १५२॥

पुनस्तमब्रवीच्छम्भुर्नारायणमनामयम् ।

वरानन्यान्सुरश्रेष्ठ वरयस्व यथेप्सितान् ॥ १५३॥

एवं शम्भोर्निगदितं श्रुत्वा देवो जनार्दनः ।

अब्रवीत्खण्डपरशुं प्राञ्जलिः प्रणयान्वितः ॥ १५४॥

श्रीविष्णुरुवाच –

भगवन्देवदेवेश परमात्मञ्शिवाव्यय ।

निश्चला त्वयि मे भक्तिर्भवत्विति वरो मम ॥ १५५॥

ईश्वर उवाच –

भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ ।

अजेयस्त्रिषु लोकेषु मत्प्रसादाद्भविष्यसि ॥ १५६॥

सूत उवाच –

एवं दत्त्वा वरं शम्भुर्विष्णवे प्रभविष्णवे ।

अन्तर्हितो द्विजश्रेष्ठा इति देवोऽब्रवीद्रविः ॥ १५७॥

नाम्नां सहस्रं यद्दिव्यं विष्णुना समुदीरितम् ।

यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ १५८॥

अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् ।

पठतः सर्वभावेन विद्या वा महती भवे ॥ १५९॥

जायते महदैश्वर्यं शिवस्य दयितो भवेत् ।

दुस्तरे जलसङ्घाते यज्जलं स्थलतां व्रजेत् ॥ १६०॥

हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ।

तस्मान्नाम्नां सहस्रेण स्तोतव्यो भगवाञ्शिवः ॥ १६१॥

प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम् ॥ १६२॥

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे (विष्णुचक्रप्राप्तिकथनं नामैकचत्वारिंशोऽध्यायः) श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *