श्रीहनुमद्वन्दनम् || Shri Hanumad Vandanam

0

हनुमान जी भक्तों से विशेष प्रेम करते हैं और उनकी हर पुकार को सुनते हैं। श्रीराम की नित उपासना करने वालों पर हनुमान जी खूब प्रसन्न रहते हैं और प्रसन्न होकर भक्तों के सारे कष्ट हर लेते हैं। हनुमान जी की प्रसन्नता के लिए नित्य श्रीहनुमद्वन्दनम् से वंदना करें ।

 

॥ श्रीहनुमद्वन्दनम् ॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १॥

अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २॥

अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।

सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३॥

अपराजित पिङ्गाक्ष नमस्ते राजपूजित । दीने मयि दयां कृत्वा मम दुःखं विनाशय ॥ ४॥

अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता।

अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमान्मम सौख्यकर्ता॥५॥

आञ्जनेयं पाटलास्यं स्वर्णाद्रिसमविग्रहम् । पारिजातद्रुमूलस्थं वन्दे साधकनन्दनम् ॥ ६॥

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ७॥

आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहर्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ८॥

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ ९॥

उद्यत्कोट्यर्कसङ्काशं जगत्प्रक्षोभहारकम् । श्रीरामाङ्घ्रिध्याननिष्ठं सुग्रीवप्रमुखार्चितम् ।

वित्रासयन्तं नादेन राक्षसान् मारुतिं भजे ॥ १०॥

उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ११॥

श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ १२॥

उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं

मौञ्जीयज्ञोपवीतारुणरुचिरशिखाशोभनं कुण्डलाङ्कम् ।

भक्तानामिष्टदं तं प्रणतमुनिजनं मेघनादप्रमोदं

वन्दे देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ १३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ १४॥

कदापि शुभ्रैर्वरचामरैः प्रभुं गायन् गुणान् वीजयति स्थितोऽग्रतः ।

कदाप्युपश्लोकयति स्वनिर्मितैः स्तवैः शुभैः श्रीहनुमान् कृताञ्जलिः॥१५॥

करात्तशैलशस्त्राय द्रुमशस्त्राय ते नमः । बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ॥ १६॥

कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे । स्मरन्ति त्वां हनूमन्तं तेषां नास्ति विपत्तदा ॥ १७॥

कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा नवातङ्का लङ्का समजनि वनं वृश्चति सति ।

सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्यान्नः कपिकुलशिरोमण्डनमणिः ॥ १८॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् । १९

जानुस्थवामबाहुं च ज्ञानमुद्रापरं हरिम् । अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ।

बालार्ककोटिप्रतिमं वन्दे ज्ञानप्रदं हरिम् ॥ २०॥

ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ २१॥

तप्तचामीकरनिभं भीघ्नं संविहिताञ्जलिम् । चलत्कुण्डलदीप्तास्यं पद्माक्षं मारुतिं भजे ॥ २२॥

द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । मौञ्जीकौपीनसहितं तं वन्दे रामसेवकम् ॥ २३॥

दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम्।

श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ २४॥

नखायुधाय भीमाय दन्तायुधधराय च । विहङ्गाय च शर्वाय वज्रदेहाय ते नमः ॥ २५॥

नादबिन्दुकलातीतं उत्पत्तिस्थितिवर्जितम् । साक्षादीश्वरसद्रूपं हनूमन्तं भजाम्यहम् ॥ २६॥

पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशेखरं कपिराजवर्यम् ।

पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ २७॥

पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम्।

दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २८॥

प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् । सुग्रीवादियुतं वन्दे पीताम्बरसमावृतम् ।

गोष्पदीकृतवारीशं (राशिं ) पुच्छमस्तकमीश्वरम् ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ २९॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥ ३०॥

भान्विन्दूचरणारविन्दयुगलं कौपीनमौञ्जीधरं काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् ।

हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं खेचालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥ ३१॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥३२॥

मरुत्सुतं रामपदारविन्दवन्दारुबृन्दारकमाशु वन्दे ।

धीशक्तिभक्तिद्युतिसिद्धयो यं कान्तं स्वकान्ता इव कामयन्ते ॥ ३३॥

मर्कटेश महोत्साह सर्वशत्रुहरोत्तम । शत्रुं संहर मां रक्ष श्रीमन्नापद उद्धर ॥ ३४॥

मर्कटेश महोत्साह सर्वातङ्कनिवारक । अरीन्संहर मां रक्ष सुखं दापय मे प्रभो ॥ ३५॥

महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ठ रणे दुष्ट घोररावं समुच्चरन् ॥ ३६॥

लाक्षारसारुणं वन्दे कालान्तकयमोपमम् । ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् ।

अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ३७॥

मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् । हनूमन्तं सदा वन्दे राममन्त्रप्रचारकम् ॥ ३८॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्॥३९॥

यो वारांनिधिमल्पपल्वलमिवोल्लङ्घ्य

प्रतापान्वितो वैदेहीघनशोकवह्निहरणो वैकुण्ठभक्तप्रियः ।

अक्षाद्यर्जितराक्षसेश्वरमहादर्पापहारी रणे

सोऽयं वानरपुङ्गवोऽवतु सदा चास्मान् समीरात्मजः ॥ ४०॥

राजद्वारि बिलद्वारि प्रवेशे भूतसङ्कुले । गजसिम्हमहाव्याघ्रचौरभीषणकानने । ४१

शरणाय शरण्याय वातात्मज नमोस्तु ते । नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ४२॥

रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् । शत्रुनाशकरं भीमं सर्वाभीष्टफलप्रदम् ॥ ४३॥

प्रदोषे त्वां प्रभाते वा ये स्मरन्त्यञ्जनासुतम् । अर्थसिद्धिं यशःपूर्तिं प्राप्नुवन्ति न संशयः ॥ ४४॥

लाक्षारसारुणं वन्दे कालान्तकयमोपमम् । ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् ।

अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ४५॥

वज्रदेहाय कालाग्निरुद्रायामिततेजसे । ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ ४६॥

वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् । नियुद्धमुपसङ्क्रम्य पारावारपराक्रमम् ॥ ४७॥

वामहस्तगदायुक्तं पाशहस्तकमण्डलुम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ४८॥

वज्राङ्गं पद्मनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं

दम्भोलिस्तम्भसारप्रहरणसुवशीभूतरक्षोऽधिनाथम् ।

उद्यल्लाङ्गूलसप्ताचलविचलकरं भीममूर्तिं कपीन्द्रं

वन्दे तं रामचन्द्रप्रमुखदृढतरं सत्प्रसारं प्रसन्नम् ॥ ४९॥

वन्दे बालदिवाकरद्युतिनिभं देवारिदर्पापहं देवेन्द्रप्रमुखैःप्रशस्तयशसं देदीप्यमानं रुचा ।

सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ५०॥

वन्दे रणे हनुमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ५१॥

लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ ५२॥

हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् । ब्रह्माण्डं स समावाप्य कृत्वा भीमकलेवरम् ॥ ५३॥

वन्दे वानरसिम्हखगराट् क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।

हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रीन् हलं

खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥ ५४॥

वामहस्ते महावृक्षं दशास्यकरखण्डनम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ५५॥

वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।

दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ ५६॥

वामे जानुनि वामबाहुमपरं तं ज्ञानमुद्रायुतं हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः ।

आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो

ध्यायन् ब्रह्म परं करोतु मनसः सिद्धिं हनूमान्मम ॥ ५७॥

वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः । दधानं स्वर्णवर्णं च वन्दे कुण्डलिनं हरिम् ॥ ५८॥

सदा राम रामेति नामामृतं तं सदा राममानन्दनिष्यन्दकन्दम् ।

पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ ५९॥

सपीतकौपीनमुदञ्चिताङ्गुलिम् समुज्ज्वलन्मौञ्ज्यजिनोपवीतिनम् ।

सकुण्डलं लम्बशिखासमावृतं तमाञ्जनेयं शरणं प्रपद्ये ॥ ६०॥

सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम् ।

लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं देवेन्द्रादिसमस्तदेवविनुतं काकुत्स्थदूतं भजे ॥ ६१॥

संसारसागरावर्तकर्तव्यभ्रान्तचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६२॥

सीतारामपदाम्बुजे मधुपवद्यन्मानसं लीयते सीतारामगुणावली निशि दिवा यज्जिह्वया पीयते ।

सीतारामविचित्ररूपमनिशं यच्चक्षुषोर्भूषणं सीतारामसुनामधामनिरतं तं सद्गुरुं तं भजे ॥ ६३॥

सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रितयसंहारिन्नाञ्जनेय नमोऽस्तु ते ॥ ६४॥

सीताशीर्वादसम्पन्न समस्तावयवाक्षत । लोललाङ्गूलपातेन ममारातीन्निवारय ॥ ६५॥

स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्बुजमहं भजे ॥ ६६॥

स्वानन्दहेतोर्भजतां जनानां मग्नः सदा रामकथासुधायाम् ।

असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते ॥ ६७॥

हनुमन्तं महावीरं वायुतुल्यपराक्रमम् । ममाभीष्टार्थसिद्धयर्थं प्रणमामि मुहुर्मुहुः ॥ ६८॥

हनूमान् रामपादाब्जसङ्गी वर्णिवरः शुचिः । सञ्जीवनोपहर्ता मे दीर्घमायुर्ददात्विह ॥ ६९॥

श्रीहनुमद्वन्दनम् समाप्त ॥

Leave a Reply

Your email address will not be published. Required fields are marked *