श्रीहनुमत्कल्पः || Shri Hanumat Kalpah

हनुमान हिंदू धर्म में भगवान श्रीराम के अनन्य भक्त और भारतीय महाकाव्य रामायण में सबसे महत्वपूर्ण पौराणिक चरित्र हैं। वाल्मीकि रामायण के अनुसार हनुमान एक वानर वीर थे। (वास्तव में वानर एक विशेष मानव जाति ही थी, जिसका धार्मिक लांछन (चिह्न) वानर अथवा उसकी लांगल थी। पुरा कथाओं में यही वानर (पशु) रूप में वर्णित है।) भगवान राम को हनुमान ऋष्यमूक पर्वत के पास मिले थे। हनुमान जी राम के अनन्य मित्र, सहायक और भक्त सिद्ध हुए। सीता का अन्वेषण (खोज) करने के लिए ये लंका गए। राम के दौत्य (सन्देश देना, दूत का कार्य) का इन्होंने अद्भुत निर्वाह किया। राम-रावण युद्ध में भी इनका पराक्रम प्रसिद्ध है। वाल्मीकि रामायण सुन्दर काण्ड के अनुसार लंका में समुद्रतट पर स्थित एक ‘अरिष्ट’ नामक पर्वत है, जिस पर चढ़कर हनुमान ने लंका से लौटते समय, समुद्र को कूद कर पार किया था। रामावत वैष्णव धर्म के विकास के साथ हनुमान का भी दैवीकरण हुआ। वे राम के पार्षद और पुन: पूज्य देव रूप में मान्य हो गये। धीरे-धीरे हनुमंत अथवा मारूति पूजा का एक सम्प्रदाय ही बन गया। ‘ श्रीहनुमत्कल्पः’ में इनके ध्यान और पूजा का विधान पाया जाता है।

 

|| श्रीहनुमत्कल्पः ||

देव्युवाच ।
शैवादिगाणपत्यादिशाक्तानि वैष्णवानि च ।
साधनानि च सौराणि चान्यानि यानि कानि च ॥ १॥

एतानि देवदेवेश त्वदुक्तानि श्रुतानि च ।
किञ्चिदन्यच्च देवानां साधनं यदि कथ्यताम् ॥ २॥

शङ्कर उवाच ।
श्रृणु देवि प्रवक्ष्यामि सावधानावधारय ।
हनुमत्साधनं पुण्यं महापातकनाशनम् ॥ ३॥

एतद् गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।
जपो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ ४॥

तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं मतम् ।
हुङ्कारमादौ सम्प्रोक्तं हनुमते तदनन्तरम् ।
रुद्रात्मकाय हुं चैव फडिति द्वादशाक्षरम् ॥ ५॥

हुं हनुमते रुद्रात्मकाय हुं फट् ॥

एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः ।
तव स्नेहेन भक्त्या च ददामि तव सुन्दरि ॥ ६॥

एतन्मन्त्रमर्जुनाय पुरा दत्तं तु शौरिणा ।
जपेन साधनं कृत्वा जितं सर्वं चराचरम् ॥ ७॥

नदीकूले विष्णुगेहे निर्जने पर्वते वने ।
एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥ ८॥

ध्यानं ।
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।
तिष्ठ तिष्ठ रणे दुष्ट मम जीवन्न मोक्ष्यसे ॥ ९॥

इति ब्रुवन्तं कोपेन क्रोधरक्तमुखाम्बुजम् ।
भोगीन्द्राभं स्वलाङ्गूलमुत्क्षिपन्तं मुहुर्मुहुः ॥ १०॥

लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ।
ज्वलदग्निसमं नेत्रं सूर्यकोटिसमप्रभम् ॥ ११॥

अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणाम् ।
एवं रूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ १२॥

लक्षजापात्प्रसन्नः स्यात् सत्यं ते कथितं मया ।
ध्यानैकमाश्रितानां च सिद्धिरेव न संशयः ॥ १३॥

प्रातः स्नात्वा नदीतीर उपविश्य कुशासने ।
प्राणायामं षडङ्गं च मूलेन सकलं चरेत् ॥ १४॥

पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् ।
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेसरम् ॥ १५॥

रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया ।
कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कर्पि प्रभुम् ॥ १६॥

कर्णिकायां यजेद्देवं दत्त्वा पाद्यादिकं ततः ।
गन्धपुष्पादिकं चैव निवेद्य मूलमन्त्रतः ॥ १७॥

सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनीलकम् ।
जाम्बवन्तं च कुमुदं केसरिणं दले दले ॥ १८॥

पूर्वादिक्रमतो देवि पूजयेद् गन्धचन्दनैः ।
पवनं चाञ्जनीं चैव पूजयेद् दक्षवामतः ॥ १९॥

दलाग्रेषु क्रमात्पूज्या लोकपालास्ततः परम् ।
ध्यात्वा जपेन्मन्त्रराजं लक्षं यावच्च साधकः ॥ २०॥

लक्षान्ते दिवसं प्राप्य कुर्याच्च पूजनं महत् ।
एकाग्रमनसा धीमांस्तस्मिन् पवननन्दने ॥ २१॥

दिवारात्रौ जपं कुर्याद् यावत्सन्दर्शनं भवेत् ।
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ २२॥

सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ।
यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ॥ २३॥

सर्वसौख्यमवापोन्ति विहरेदात्मनः सुखैः ।
एतच्च साधनं पुण्यं देवानामपि दुर्लभम् ।
तव स्नेहात् समाख्यातं भक्तासि यदि पार्वति ॥ २४॥

वीरसाधनम् ।
हनुमतोऽतिगुह्यं च लिख्यते वीरसाधनम् ।
बाह्ये मुहुर्त उत्थाय कृतनित्यक्रियो द्विजः ॥ २५॥
गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य त्वष्टधा ।
मूलमन्त्रं ततो जप्त्वा संसिक्तो नित्यसङ्ख्यया ॥ २६॥
ततो वासः परीधाय गङ्गातीरेऽथवा शुचौ ।

उपविश्य ।
ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ हृदयाय नम इत्यादिना च कराङ्गन्यासौ कुर्यात् ।

करन्यासः –
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुं ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।

प्राणायामः ।
अकारादिवर्णानुच्चरन्वामनासापुटेन वायुं पूरयेत् ।
पञ्चवर्गानुच्चरत्कुम्भयेत्, यकाराद्येन रेचयेत् ॥
एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यास कुर्यात् ।

ध्यानम् ।
ध्यायेद्गणे हनूमन्तं कपिकोटिसमन्वितम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमागतम् ॥ २७॥

लक्ष्मणं च महावीरं पतितं रणभूतले ।
गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ २८॥

हाहाकारैः सदण्डैश्च कम्पयन्तं जगत्त्रयम् ।
आब्रह्माण्डसमप्रस्थं कृत्वा भीमं कलेवरम् ॥ २९॥

मन्त्रः ।
श्रीबीजं पूर्वमुच्चार्य पवनं च ततो वदेत् ।
नन्दनं च ततो देयं ङेऽवसानेऽनलप्रिया ॥
श्रीपवननन्दनाय स्वाहा ॥ ३०॥

दशार्णोऽयं मनुः प्रोक्तो नराणां सुरपादपः ।
सप्तदिवसं महाभयं दत्त्वा त्रिभागशेषासु निशासुनियतमागच्छति ।
यदि साधको मायां तरति ईप्सितं वरं प्राप्नोति ॥

विद्या वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।
तत्क्षणादेव प्राप्नोति सत्यं सत्यं सुनिश्चितम् ॥ ३१॥

॥ इति तन्त्रसारोक्त श्रीहनुमत्कल्पः समाप्तः ॥

Leave a Reply