श्री कण्ठेश अष्टक स्तुति स्तोत्रम् || Shri Kanthesh Ashtak Stuti Stotram

0

भगवान श्री कंठेश्वर महादेव को समर्पित श्रृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-भारतीस्वामि द्वारा रचित श्रीकण्ठेशस्तुतिः, श्रीकण्ठेशस्तोत्रम् व श्रीकण्ठाष्टकम् ।

श्रीकण्ठेश अष्टक स्तुति स्तोत्रम्

श्रीकण्ठेशस्तुतिः
(शिष्याशीर्वचनात्मकस्तवाः)

श्रीशाम्भोजभवादिमामरगणप्रस्तूयमानागजा-

चित्ताम्भोरुहबालवासरपते कारुण्यवारान्निधे ।

श्रीविद्याप्रदपादपङ्कजसकृत्प्राणम्रलोकालये

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ १॥

पापाम्भोनिधिबाडवप्रविलसज्ज्योत्स्नाभदेहच्छवे

कालाहङ्कृतिवारणव्रतविधिप्रावीण्यभाक्शङ्कर ।

प्राणायामपरायणैर्मुनिवरैः सञ्चिन्त्यमूर्तेऽनिशं

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ २॥

श्रीमच्छङ्करदेशिकेन्द्ररचितव्याख्यानसिंहासना-

धीशश्रीनरसिंहभारतिकराम्भोजार्चिताङ्घ्रिद्वय ।

श्रीवाणीपरिसेवितागतनयासंशोभिताङ्कस्थल

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ३॥

हस्त्यश्वादिसमस्तमङ्गनिवहं प्रापय्य वृद्धिं परां

हस्तीन्द्राननकार्तिकेयविलसत्पार्श्वद्वय प्रेमतः ।

दारामात्यसुमित्रबन्धुसहितं श्रीकृष्णराजात्मजं

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ४॥

विद्यावृद्धिकृते सभा बहुविधा निर्माय तत्राग्रिमं

दत्त्वा वेतनमादरात्सुविदुषः संस्थाप्य देशे स्वके ।

अध्येतॄन् परिपोषयन्तमनिशं दत्त्वाशनाच्छादने

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ५॥

गौरीनाथरमाधवाङ्घ्रिसरसीसञ्जातश्रृङ्गायित-

स्वान्तं मन्मथगर्वहारिवपुषं कारुण्यरत्नाकरम् ।

देवब्राह्मणभक्तिजन्मसदनं वाणीविलासाश्रयं

श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ६॥

इति श्रृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-

भारतीस्वामिभिः विरचिता श्रीकण्ठेशस्तुतिः समाप्त ।

श्रीकण्ठेश अष्टक स्तुति स्तोत्रम्

श्रीकण्ठेशस्तोत्रम्
(श्रीगरलपुर आर्द्रोत्सवे)

आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।

आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥

द्रष्टृस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।

मा भीरस्त्विति शम्भो मध्येतिर्यग्गतागतैर्ब्रूषे ॥ २॥

प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय ।

धर्मोऽयं किल लोकानार्द्राङ्कुरुतेऽद्य गौरीश ॥ ३॥

आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् ।

आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥

बाणार्चने भगवतः परमेश्वरस्य

प्रीतिर्भवेन्निरुपमेति यतः पुराणैः ।

सम्बोध्यते परशिवस्य यथान्धकं ततः

करोति बाणार्चनं जगति भक्तियुता जनालिः ॥ ५॥

यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।

तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ ६॥

इति श्रृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-

भारतीस्वामिभिः विरचितं श्रीकण्ठेशस्तोत्रं सम्पूर्णम् ।

श्रीकण्ठेश अष्टक स्तुति स्तोत्रम्

श्रीकण्ठाष्टकम्
(श्रीगरलपुरे)

यः पादपपिहिततनुः प्रकाशतां परशुरामेण ।

नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ १॥

यः कालं जितगर्वं कृत्वा क्षणतो मृकण्डुमुनिसूनुम् ।

निर्भयमकरोत्सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ २॥

कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा ।

प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ३॥

यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम् ।

ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ ४॥

यमिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः ।

श्रीशादिवन्दितोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ५॥

यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः ।

मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ६॥

अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके ।

करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ७॥

कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः ।

श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ ८॥

श्रीकण्ठाष्टकमेतत्पठति जनो यः कृतादरः सततम् ।

श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः ॥ ९॥

इति श्रृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-

भारतीस्वामिभिः विरचितं श्रीकण्ठाष्टकं सम्पूर्णम् ।

श्रीकण्ठेश अष्टक स्तुति स्तोत्रम् समाप्त ।

Leave a Reply

Your email address will not be published. Required fields are marked *