श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम् || Shri Radha Ashtottar Shatanaam and Shatanaamavali Stotram

इस श्रीराधाष्टोत्तर शतनाम स्तोत्रम् का पाठ करने या केवल नामावली का पाठ करने से युगल सरकार के चरणों में प्रीति बढती है और श्रीराधा-कृष्ण की कृपा प्राप्त होती है।

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम्

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।

यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।

चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।

गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥

चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।

कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।

प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥

केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी ।

सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६॥

वृषभानुसुता राधा किशोरी ललिता लता ।

विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७॥

केशिनी केशवसखी नवनीतैकविक्रया ।

षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८॥

हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।

यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९॥

वृषभानुपुरावासा मानलीलाविशारदा ।

दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।

सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।

गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२॥

स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका ।

रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।

बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।

मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।

इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।

एकैकनामोच्चारेण वशी भवति केशवः ॥ १७॥

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।

पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८॥

इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम्
श्रीराधाष्टोत्तरशतनामावलिः

श्रीराधायै नमः । श्रीराधिकायै नमः । कृष्णवल्लभायै नमः । कृष्णसम्युक्तायै नमः ।

वृन्दावनेश्वर्यै नमः । कृष्णप्रियायै नमः । मदनमोहिन्यै नमः । श्रीमत्यै नमः ।

कृष्णकान्तायै नमः । कृष्णानन्दप्रदायिन्यै नमः । यशस्विन्यै नमः । यशोदानन्दनवल्लभायै नमः ।

त्रैलोक्यसुन्दर्यै नमः । वृन्दावनविहारिण्यै नमः । वृषभानुसुतायै नमः । हेमाङ्गायै नमः ।

उज्ज्वलगात्रिकायै नमः । शुभाङ्गायै नमः । विमलाङ्गायै नमः । विमलायै नमः ।

कृष्णचन्द्रप्रियायै नमः । रासप्रियायै नमः । रासाधिष्टातृदेवतायै नमः ।

रसिकायै नमः । रसिकानन्दायै नमः । रासेश्वर्ये नमः ।

रासमण्डलमध्यस्थायै नमः । रासमण्डलशोभितायै नमः ।

रासमण्डलसेव्यायै नमः । रासक्रिडामनोहर्यै नमः ।

कृष्णप्रेमपरायणायै नमः । वृन्दारण्यप्रियायै नमः ।

वृन्दावनविलासिन्यै नमः । तुलस्यधिष्टातृदेव्यै नमः ।

करुणार्णवसम्पूर्णायै नमः । मङ्गलप्रदायै नमः । कृष्णभजनाश्रितायै नमः ।

गोविन्दार्पितचित्तायै नमः । गोविन्दप्रियकारिण्यै नमः । रासक्रीडाकर्यै नमः ।

रासवासिन्यै नमः । राससुन्दर्यै नमः । गोकुलत्वप्रदायिन्यै नमः ।

किशोरवल्लभायै नमः । कालिन्दीकुलदीपिकायै नमः । प्रेमप्रियायै नमः ।

प्रेमरूपायै नमः । प्रेमानन्दतरङ्गिण्यै नमः । प्रेमधात्र्यै नमः ।

प्रेमशक्तिमय्यै नमः । कृष्णप्रेमवत्यै नमः । कृष्णप्रेमतरङ्गिण्यै नमः ।

गौरचन्द्राननायै नमः । चन्द्रगात्र्यै नमः । सुकोमलायै नमः ।

रतिवेषायै नमः । रतिप्रियायै नमः । कृष्णरतायै नमः ।

कृष्णतोषणतत्परायै नमः । कृष्णप्रेमवत्यै नमः । कृष्णभक्तायै नमः ।

कृष्णप्रियभक्तायै नमः । कृष्णक्रोडायै नमः । प्रेमरताम्बिकायै नमः ।

कृष्णप्राणायै नमः । कृष्णप्राणसर्वस्वदायिन्यै नमः । कोटिकन्दर्पलावण्यायै नमः ।

कन्दर्पकोटिसुन्दर्यै नमः । लीलालावण्यमङ्गलायै नमः । करुणार्णवरूपिण्यै नमः ।

यमुनापारकौतुकायै नमः । कृष्णहास्यभाषणतत्परायै नमः । गोपाङ्गनावेष्टितायै नमः ।

कृष्णसङ्कीर्तिन्यै नमः । राससक्तायै नमः । कृष्णभाषातिवेगिन्यै नमः ।

कृष्णरागिण्यै नमः । भाविन्यै नमः । कृष्णभावनामोदायै नमः ।

कृष्णोन्मादविदायिन्यै नमः । कृष्णार्तकुशलायै नमः । पतिव्रतायै नमः ।

महाभावस्वरूपिण्यै नमः । कृष्णप्रेमकल्पलतायै नमः । गोविन्दनन्दिन्यै नमः ।

गोविन्दमोहिन्यै नमः । गोविन्दसर्वस्वायै नमः । सर्वकान्ताशिरोमण्यै नमः ।

कृष्णकान्ताशिरोमण्यै नमः । कृष्णप्राणधनायै नमः ।

कृष्णप्रेमानन्दामृतसिन्धवे नमः । प्रेमचिन्तामण्यै नमः ।

प्रेमसाध्यशिरोमण्यै नमः । सर्वैश्वर्यसर्वशक्तिसर्वरसपूर्णायै नमः ।

महाभावचिन्तामण्यै नमः । कारुण्यामृतायै नमः । तारुण्यामृतायै नमः ।

लावण्यामृतायै नमः । निजलज्जापरीधानश्यामपटुशार्यै नमः । सौन्दर्यकुङ्कुमायै नमः ।

सखीप्रणयचन्दनायै नमः । गन्धोन्मादितमाधवायै नमः । महाभावपरमोत्कर्षतर्षिण्यै नमः ।

सखीप्रणयितावशायै नमः । कृष्णप्रियावलीमुख्यायै नमः । आनन्दस्वरूपायै नमः ।

रूपगुणसौभाग्यप्रेमसर्वाधिकाराधिकायै नमः । एकमात्रकृष्णपरायणायै नमः ।

इति श्रीराधाष्टोत्तरशतनामावलिः सम्पूर्णा ।

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम् समाप्त।

Leave a Reply