श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् || Sri Lakshmi Narsingh Dwadasanama Stotram

0

अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः

अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।

तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥

पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।

सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥

ततः प्रह्लादवरदो दशमोऽनंतहंतकः।

एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥

द्वादशैतानि नृसिंहस्य महात्मनः।

मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥

क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।

राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥

गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।

रणे च मरणे चैव शमदं परमं शुभम्॥६॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।

आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥

Leave a Reply

Your email address will not be published. Required fields are marked *