स्वस्तिस्तोत्रम् | Swasti Stotram

0

श्री नारद उवाच

अनयासेन लोकोऽयं सर्वान् कामानवाप्नुयात् |

सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह || १ ||

ब्रह्मोवाच

शृणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् |

यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते || २ ||

अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः |

ब्रह्मा चोत्तरदेशस्थः पूर्वे त्विन्द्रादिदेवताः || ३ ||

स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा |

मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुँगव || ४ ||

पूर्वादिदिक्षु संयाता नदीनदसरोऽब्घयः |

तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः || ५ ||

त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते |

त्वामाराघ्य नरो विन्द्यादैहिकामुष्मिकं फलम् || ६ ||

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे |

बोधिसत्त्वाय देवाय ह्यश्वत्थाय नमो नमः || ७ ||

अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले |

अतः श्रुतस्त्वं सततं तरुणां धन्योऽसि चारिष्टविनाशकोऽसि || ८ ||

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते |

सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् || ९ ||

एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः |

नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल || १० ||

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः |

हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते || ११ ||

आयुबलं यशो वर्चः प्रजाः पशुवसूनि च |

ब्रह्म प्रज्ञां च मेघां च त्वं नो देहि वनस्पते || १२ ||

सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् |

परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते || १३ ||

अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् |

शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो || १४ ||

अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने |

नमो दुःस्वप्नाशाय सुस्वप्नफलदायिने || १५ ||

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे |

अग्रतः शिवरूपाय वृक्षराजाय ते नमः || १६ ||

यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते |

यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् || १७ ||

अश्वत्थ सुमहाभाग सुभग प्रियदर्शन |

ईष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् || १८ ||

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् |

देहि देव महावृक्ष त्वामहं शरणं गतः || १९ ||

ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः |

अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा || २० ||

ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः |

आवृत्य लक्षसंख्यं तत् स्तोत्रमेतत् सुखी भवेत् || २१ ||

ब्रह्मचारी हविष्याशी त्वधःशायी जितेन्द्रियः |

पापोपहतचित्तोऽपि व्रतमेतत् समाचारेत् || २२ ||

एकहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् |

अर्चित् पुरुषसूक्तेन प्रणवेन विशेषतः || २३ ||

मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् |

विष्णोर्नामससहस्त्रेण ह्यच्युतस्यापि कीर्तनात् || २४ ||

पदे पदान्तरं गत्वा करचेष्टाविवर्जितः |

वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् || २५ ||

अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः |

धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् || २६ ||

अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः |

एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् || २७ ||

अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् |

अक्षयं फलमाप्नोति ब्रह्मणो वाचनं यथा || २८ ||

एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते |

यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् || २९ ||

छिन्नो येन वृथाऽश्वत्थश्छेदिताः पितृदेवताः |

अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः || ३० ||

|| ब्रह्मनारदसंवादे अश्वत्थस्तोत्रं सम्पुर्णम् || पुलस्त्य उवाच

शृणु स्वस्त्ययनं पुण्यं यत्प्राह भगवान् हरिः |

स्कन्दस्य विजयार्थाय वधाय महिषस्य च ||

ॐ स्वस्ति कुरुतां ब्रह्मा पद्मयोनी रजोगुणः |

स्वस्ति चक्रांकितकरो विष्णुस्ते विदधात्वजः ||

स्वस्ति ते शंकरो भक्त्या सपत्नीको वृषध्वजः |

पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहनः ||

दिवाकरः स्वस्तिकरोऽस्तु ते सदा सोमः सभौमः सबुधो गुरुश्च |

काव्यः सदा स्वस्तिकरोऽस्तु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु ||

मरिचिरत्रिः पुलहः पुलस्त्यः क्रतुः वसिष्ठो भृगुरंगिराश्च |

भृगांकजस्ते कुरुताद्धि मंगलं महर्षयः सप्त दिवि स्थिताश्च ये ||

विश्वेऽश्विनौ साध्यमरुद्गणाग्नयो दिवाकराः शूलधरा महेश्वराः |

यक्षाः पिशाचा वसवोऽथ किन्नरास्ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी ||

नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यानि हृदाः समुद्राः |

महाबला भूतगणा गणेन्द्रास्ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी ||

स्वस्ति द्विपादिकेभ्यश्च चतुष्पादेभ्य एव च |

स्वस्ति ते बहुपादेभ्यः त्वपादेभ्योऽस्त्वनामयम् ||

प्राग्दिशं रक्षतां वज्री दक्षिणां दंडनायकः |

पाशी प्रतीचीमवतु यक्षेशः पातु चोत्तरम् ||

वह्निर्दक्षिण पूर्वां तु कुबेरो दक्षिणापराम् |

प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि ||

उपरिष्टात् ध्रुवः पातु ह्यधस्ताच्च धराधरः |

मुसली लांगली वज्री धनुष्मानन्तरेषु च ||

वाराहोऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी |

सामवेदध्वनिः श्रीमान् सर्वदः पातु माधवः ||

|| स्वस्ति स्तोत्र सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *